HPPSC RESULT : लोकसेवा-आयोगेन एलाइडसेवापरीक्षायाः परिणामः प्रकाशितः, ५६ अभ्यर्थिनः चयनिताः
हिमसंस्कृतवार्ता: – शिमला।
राज्यलोकसेवा-आयोगेन एलाइडसेवापरीक्षायाः परिणामः घोषितः। प्रारम्भिकलिखितपरीक्षा ८ सितम्बर २०२४ दिनाङ्के अभवत् । मुख्यपरीक्षा ७ तः ९ मार्च २०२५ पर्यन्तं अभवत् । १७ तः १९ जूनपर्यन्तं प्रमाणपत्राणां मूल्याङ्कनं कृत्वा आयोगेन मंगलवासरे ५६ अभ्यर्थिनः चयनिताः इति घोषिताः। सहायकराज्यकर-आबकारी-अधिकारीरूपेण ३३ अभ्यर्थीनां चयनं कृतम् अस्ति । तेषां सर्वेषां नियमितरूपेण नियुक्तिः भविष्यति। एतेषां अतिरिक्तं सहकारीविभागे उद्योगविभागे नव विस्ताराधिकारिणः, दश निर्वाचनकानुनगो, चत्वारः निरीक्षकलेखापरीक्षाप्रशिक्षु आधारेण च सहकारीविभागे नियुक्ताः भविष्यन्ति।