By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालये पाण्डुलिपिविज्ञानकार्यशालायाः उद्घाटनम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालये पाण्डुलिपिविज्ञानकार्यशालायाः उद्घाटनम्
संस्कृतगतिविधयः

कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालये पाण्डुलिपिविज्ञानकार्यशालायाः उद्घाटनम्

डॉ.अमनदीप शर्मा
Last updated: 2025/06/24 at 8:15 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालये पाण्डुलिपिविज्ञानकार्यशालायाः उद्घाटनम्
हिमसंस्कृतवार्ता डॉ. निशिकान्तपाण्डेयः, नलबारी (असम) गतसोमवासरे केन्द्रीय- संस्कृत- विश्वविद्यालयस्य साहाय्येन कुमारभास्करवर्म- संस्कृत- पुरातनाध्ययन- विश्वविद्यालये ‘पाण्डुलिपिविज्ञानं प्रतिलेखनञ्च’ इति विषयक- विंशतिदिनात्मककार्यशालायाः उद्घाटनम् अत्यन्तं भव्यं विधाय सम्पन्नम्।कार्यक्रमस्य शुभारम्भः दीपप्रज्वलनपूर्वकं लिराजकाफ्लेममहाभागस्य मङ्गलाचरणेन च जातः। कार्यक्रमस्य सफलसञ्चालनं कृतवान् विश्वविद्यालयस्य संस्कृतसाहित्यविभागस्य सहाय्यकाचार्यः डॉ. छबिलाल उपाध्यायमहोदयः।कार्यशालायाः संक्षिप्तपरिचयः प्रस्तुतः विश्वविद्यालयस्य परीक्षानियन्त्रकेण सर्वदर्शनविभागाध्यक्षेण च डॉ. रणजितकुमारतिवारीमहोदयेन। समागतमान्यजनानां हार्दं स्वागतं कृतं विश्वविद्यालयस्य कुलसचिवेन डॉ. विकासभार्गवशर्ममहोदयेन।तदनन्तरम् अध्यक्षीयोद्बोधनं समर्पितं विश्वविद्यालयस्य कुलपतिना प्रो. प्रह्लाद रा जोशीमहोदयेन, यः कार्यशालायाः उद्देश्यं, महत्त्वं च उज्ज्वलतया प्रकाशयामास। तैः उक्तं यत् कार्यशाला एषा न केवलं पाण्डुलिपीनां ज्ञानाय अपि तु एतासां संरक्षणाय सम्पादनाय च सर्वान् अवाबोधयितुं वर्तते। कार्यक्रमस्य मुख्यवक्ता आसन् राष्ट्रियपाण्डुलिपिमिशन इत्यस्य मान्यः निदेशकः डॉ. अनिर्बानदासमहोदयः। तेन भारतीयपाण्डुलिपिसंस्कृतेः संरक्षणाय आधुनिकप्रविधीनां महत्त्वम्, प्रतिलेखनप्रक्रियायाः वैज्ञानिकता च विषदं व्याख्यातम्।अपरं वक्तृत्वं दत्तं विश्वविद्यालयस्य शैक्षणिककुलसचिवेन मान्येन प्रो. ज्योतिराजपाठकमहोदयेन। तेन उक्तं यत्- Manuscript is not just a subject, it’s a science’. तत्पश्चात् पाण्डुलिपिविज्ञानस्योपरि महत्वपूर्णं भाषणं प्रदत्तं केन्द्रीयसंस्कृतविश्वविद्यालयस्य अध्यापकेन डॉ. दयानाथ डी. महोदयेन। सर्वेभ्यः उपस्थितेभ्यः कृतज्ञतारूपः धन्यवादः समर्पितः विश्वविद्यालयस्य व्याकरणविभागाध्यक्षेण डॉ. सुधाकरमिश्रमहोदयेन।
सत्राणां विवरणम्-उद्घाटनानन्तरं कार्यशालायाः प्रथमदिने त्रीणि सत्राणि सम्पन्नानि। प्रथमसत्रे “पाण्डुलिपिविज्ञानम्- प्राच्यानुशासनस्य एकः परिचयः” इति विषयपर्यन्तं व्याख्यानं दत्तं नलबारीमहाविद्यालयस्य संस्कृतविभागाध्यक्षेन डॉ. बसन्तकुमारदेवगोस्वामिमहोदयेन। द्वितीयसत्रे सर्वे प्रतिभागिनः स्वपरिचयं प्रस्तुतवन्तः। तृतीयसत्रे पुनः डॉ. बसन्तकुमारदेवगोस्वामिमहोदयेन विविधपाण्डुलिपीनां साक्षात् दर्शनं दत्तं, यत् प्रतिभागिषु विशेषम् आकर्षणं जागरयामास।सम्पूर्णदिनक्रमस्य समन्वयकायां विशेषं योगदानं दत्तवती विश्वविद्यालयस्य धर्मशास्त्रविभागाध्यक्षा डॉ. मैत्रेयी गोस्वामिमहोदया। एवं प्रकारेण, पाण्डुलिपिविज्ञानाय समर्पिता एषा कार्यशाला ज्ञानविज्ञानवर्धनाय एकम् उत्कृष्टं मंञ्चं सञ्जातवती। प्रथमदिनस्य कार्यक्रमाः सफलतापूर्वकसम्पन्नाः।

You Might Also Like

पिथौरागढे स्थिते विवेकानन्द-विद्यामन्दिरे प्रान्तस्तरीय-प्रबोधनवर्गस्य सम्पूर्तिः

भारतीयसंस्कृते: मूलमस्ति संस्कृतम्- के. एल. ठाकुर:

DRDO हाइपरसोनिक मिसाइल कार्यक्रमस्य कृते दीर्घायुषः शीतलं स्क्रैम्जेट् इञ्जिनस्य सफलतापूर्वकं परीक्षणं कृतम्

*गाजोलमहाविद्यालये छात्रसप्ताहोत्सवे अन्नमहोत्सवः सम्पन्न:*

संस्कृतभारत्याः काशीप्रान्तस्य प्रबोधनवर्गस्य समापन-दीक्षान्तकार्यक्रमः अद्य सुसम्पन्नः जातः।

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article पहाड़ीगल्लां-ख्यालां दे महलां
Next Article HPPSC RESULT : लोकसेवा-आयोगेन एलाइडसेवापरीक्षायाः परिणामः प्रकाशितः, ५६ अभ्यर्थिनः चयनिताः
1 Comment 1 Comment
  • Dr. Dharani Dhungel says:
    June 24, 2025 at 12:15 pm

    Great work

    Reply

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?