कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालये पाण्डुलिपिविज्ञानकार्यशालायाः उद्घाटनम्
हिमसंस्कृतवार्ता डॉ. निशिकान्तपाण्डेयः, नलबारी (असम) गतसोमवासरे केन्द्रीय- संस्कृत- विश्वविद्यालयस्य साहाय्येन कुमारभास्करवर्म- संस्कृत- पुरातनाध्ययन- विश्वविद्यालये ‘पाण्डुलिपिविज्ञानं प्रतिलेखनञ्च’ इति विषयक- विंशतिदिनात्मककार्यशालायाः उद्घाटनम् अत्यन्तं भव्यं विधाय सम्पन्नम्।कार्यक्रमस्य शुभारम्भः दीपप्रज्वलनपूर्वकं लिराजकाफ्लेममहाभागस्य मङ्गलाचरणेन च जातः। कार्यक्रमस्य सफलसञ्चालनं कृतवान् विश्वविद्यालयस्य संस्कृतसाहित्यविभागस्य सहाय्यकाचार्यः डॉ. छबिलाल उपाध्यायमहोदयः।कार्यशालायाः संक्षिप्तपरिचयः प्रस्तुतः विश्वविद्यालयस्य परीक्षानियन्त्रकेण सर्वदर्शनविभागाध्यक्षेण च डॉ. रणजितकुमारतिवारीमहोदयेन। समागतमान्यजनानां हार्दं स्वागतं कृतं विश्वविद्यालयस्य कुलसचिवेन डॉ. विकासभार्गवशर्ममहोदयेन।तदनन्तरम् अध्यक्षीयोद्बोधनं समर्पितं विश्वविद्यालयस्य कुलपतिना प्रो. प्रह्लाद रा जोशीमहोदयेन, यः कार्यशालायाः उद्देश्यं, महत्त्वं च उज्ज्वलतया प्रकाशयामास। तैः उक्तं यत् कार्यशाला एषा न केवलं पाण्डुलिपीनां ज्ञानाय अपि तु एतासां संरक्षणाय सम्पादनाय च सर्वान् अवाबोधयितुं वर्तते। कार्यक्रमस्य मुख्यवक्ता आसन् राष्ट्रियपाण्डुलिपिमिशन इत्यस्य मान्यः निदेशकः डॉ. अनिर्बानदासमहोदयः। तेन भारतीयपाण्डुलिपिसंस्कृतेः संरक्षणाय आधुनिकप्रविधीनां महत्त्वम्, प्रतिलेखनप्रक्रियायाः वैज्ञानिकता च विषदं व्याख्यातम्।अपरं वक्तृत्वं दत्तं विश्वविद्यालयस्य शैक्षणिककुलसचिवेन मान्येन प्रो. ज्योतिराजपाठकमहोदयेन। तेन उक्तं यत्- Manuscript is not just a subject, it’s a science’. तत्पश्चात् पाण्डुलिपिविज्ञानस्योपरि महत्वपूर्णं भाषणं प्रदत्तं केन्द्रीयसंस्कृतविश्वविद्यालयस्य अध्यापकेन डॉ. दयानाथ डी. महोदयेन। सर्वेभ्यः उपस्थितेभ्यः कृतज्ञतारूपः धन्यवादः समर्पितः विश्वविद्यालयस्य व्याकरणविभागाध्यक्षेण डॉ. सुधाकरमिश्रमहोदयेन।
सत्राणां विवरणम्-उद्घाटनानन्तरं कार्यशालायाः प्रथमदिने त्रीणि सत्राणि सम्पन्नानि। प्रथमसत्रे “पाण्डुलिपिविज्ञानम्- प्राच्यानुशासनस्य एकः परिचयः” इति विषयपर्यन्तं व्याख्यानं दत्तं नलबारीमहाविद्यालयस्य संस्कृतविभागाध्यक्षेन डॉ. बसन्तकुमारदेवगोस्वामिमहोदयेन। द्वितीयसत्रे सर्वे प्रतिभागिनः स्वपरिचयं प्रस्तुतवन्तः। तृतीयसत्रे पुनः डॉ. बसन्तकुमारदेवगोस्वामिमहोदयेन विविधपाण्डुलिपीनां साक्षात् दर्शनं दत्तं, यत् प्रतिभागिषु विशेषम् आकर्षणं जागरयामास।सम्पूर्णदिनक्रमस्य समन्वयकायां विशेषं योगदानं दत्तवती विश्वविद्यालयस्य धर्मशास्त्रविभागाध्यक्षा डॉ. मैत्रेयी गोस्वामिमहोदया। एवं प्रकारेण, पाण्डुलिपिविज्ञानाय समर्पिता एषा कार्यशाला ज्ञानविज्ञानवर्धनाय एकम् उत्कृष्टं मंञ्चं सञ्जातवती। प्रथमदिनस्य कार्यक्रमाः सफलतापूर्वकसम्पन्नाः।
कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालये पाण्डुलिपिविज्ञानकार्यशालायाः उद्घाटनम्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
1 Comment
1 Comment

Great work