By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: प्रधानमन्त्रिणा नवदेहल्यां “राइजिंग नॉर्थ ईस्ट इन्वेस्टर्स सम्मिट” इत्येतस्य उ‌द्घाटनम् कृतम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > प्रधानमन्त्रिणा नवदेहल्यां “राइजिंग नॉर्थ ईस्ट इन्वेस्टर्स सम्मिट” इत्येतस्य उ‌द्घाटनम् कृतम्
राष्ट्रीयवार्ताः

प्रधानमन्त्रिणा नवदेहल्यां “राइजिंग नॉर्थ ईस्ट इन्वेस्टर्स सम्मिट” इत्येतस्य उ‌द्घाटनम् कृतम्

डॉ.अमनदीप शर्मा
Last updated: 2025/05/24 at 7:03 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
3 Min Read
SHARE

प्रधानमन्त्रिणा नवदेहल्यां “राइजिंग नॉर्थ ईस्ट इन्वेस्टर्स सम्मिट” इत्येतस्य उ‌द्घाटनम् कृतम्
हिमसंस्कृतवार्ता: – प्रधानमन्त्री नरेन्द्रमोदी प्रावोचत् यत् तदीयं प्रशासनम् आत‌ङ्कवादम् अशान्ति-प्रसारकान् माओवादि-तत्त्वान् च विरुध्य शून्य-सहिष्णुतायाः नीतौ कार्यम् आचरति । राजधान्यां नवदेहल्यां “राइजिंग नॉर्थ ईस्ट इन्वेस्टर्स सम्मिट” इत्येतस्य उ‌द्घाटनावसरे श्रीमोदिनोक्तं यत् विकसित-भारतस्य निर्माणाय देशस्य पूर्वोत्तर-क्षेत्रस्य विकासः नितराम् आवश्यकः । प्रधानमन्त्री अवोचत् यत् एकस्मिन् समये पूर्वोत्तरं केवलं सीमान्तक्षेत्रमति उच्यते स्म। प्रधानमन्त्रिणा स्वीकृतं यत् पूर्वोत्तर-क्षेत्रेण अतीतकाले बहूनि समाह्वानानि सम्मुखीकृतानि, परम् इदानीं तत् क्षेत्रम् अवसराणां भूमिरूपेण उदीयते। श्रीमोदिना शिखर सम्मेलने उद्योग-जगतः प्रमुखजनानाम् उपस्थितिः श्लाघिता। प्रोक्तं च यत् क्षेत्रे उपलब्धावसराणि आदाय उत्साहस्य परिवेशो वर्तते। अस्मिन् अवसरे पूर्वोत्तर-क्षेत्र-विकास-मन्त्री ज्योतिरादित्य-सिन्धिया अवोचत् यत् केन्द्र-प्रशासनेन पूर्वोत्तर-क्षेत्रे आधारभूत संरचनां सम्पर्क च समेधितुं बहु-कार्य कृतम् ।

भारतेन गोलिकाप्रहार-सैन्य-कार्याचरणयोः स्थगन-सहमतेः माध्यमेन पाकिस्तानेन सह सङ्घर्षः सम्प्रति समासाधितः – विदेश-मन्त्री डॉ. एस. जयशङ्‌कर:
हिमसंस्कृतवार्ता: – विदेश-मन्त्रिणा डॉ. एस. जयशङ्‌करेण उक्तं यत् भारतेन गोलिकाप्रहार-सैन्य-कार्याचरणयोः स्थगन-सहमतेः माध्यमेन पाकिस्तानेन सह सङ्घर्षः सम्प्रति समासाधितः। डेनमार्कस्य वार्ताभिकरणेन सह साक्षात्कारे डॉ. जयशङ्करेण प्रोक्तं यत् पाकिस्तानं विरुध्य भारतस्य काठोर-कार्याचरणेन एतत् सम्भवम् अभूत् । विदेशमन्त्री डॉ. एस जयशंकरः जर्मनस्य चांसलरेण फेडरिक मर्जेण सह बर्लिने अमिलत् । जयशंकरः प्रधानमन्त्रिणः नरेन्द्रमोदिनः शुभकामनाः जर्मनस्य चांसलराय फेडरिक मर्जाय प्रायच्छत् ।

सिंदूराभियानं पहलगाम – आक्रमणस्य उत्तरमस्ति- गृहमंत्री अमितशाहः
हिमसंस्कृतवार्ता: – केन्द्रीय गृहमंत्री अमितशाहः प्रावोचत् यत् सिंदूराभियानं पहलगाम – आक्रमणस्य उत्तरमस्ति । अपि च अद्य विश्वं भारतीय सशस्त्र बलानां वीरतायाः प्रशंसा कुर्वदस्ति । श्रीशाहः प्रोक्तवान् यत् इदं कार्यं प्रशासनस्य सुदृढया राजनीतिक-इच्छा शक्त्या गुप्त-समवायानां प्रमाणिक-सूचनाभिः तथा सशस्त्र-बलानां घातकै-क्रियान्वयनैः च सम्भवम् अभवत् । नवदेहल्यां सीमा-सुरक्षा-बलस्य अलंकरण-समारोहं संबोधयन् श्रीशाहः प्रोक्तवान् यत् बी.एस.एफ इति सीमा-सुरक्षा-बलेन सशस्त्र बलेन च पाकिस्तानं प्रति भारतस्य उत्तरपूर्वकं क्रियान्वयनं महत्याः वीरतायाः रक्षायाश्च सच्छक्तेः प्रदर्शनमस्ति ।

सर्वदलीय-प्रतिनिधिमण्डलयो: यात्रा । एकं जापानस्य टोक्योनगरे, अपरश्च मास्कोनगरे प्राप्तवन्तौ
हिमसंस्कृतवार्ता- जनता-दल-युनाइटेड इति दलस्य संजय-झा सांसदस्य नेतृत्वे जापानं गच्छत् सर्वदलीय-प्रतिनिधिमंडलम् जापाने टोक्यो नगरे लिबरल-डेमोक्रेटिक पार्टीति दलस्य आतंकरोधि समितेः कार्यवाहक अध्यक्षेण पूर्व न्याय-मन्त्रिणा यासूहिरो हनाशी इत्यनेन सह मेलनं कृतम् । प्रतिनिधिमंडलम् आतंकवादस्य सर्वेषां रूपाणां विरोधे भारतस्य दृढं-पक्षं अप्रकाशयत् । अपरत्र डी.एम.के. सांसदस्य कनिमोई करूणानिधेः नेतृत्वे एकम् अन्यत् सर्वदलीयम् प्रतिनिधिमण्डलं मास्कोनगरं सम्प्राप्तवत् । रूसे भारतीयः राजदूतः विनयकुमारः प्रतिनिधिमण्डलस्य आधिकारिक-गतिविधीनां प्रारम्भात् पूर्वम् भारत-रूसयोः सम्बन्धानां विभिन्नेः पक्षैः अवागमयत्।

विगतेषु दशवर्षेषु पञ्चाशत् सहस्रकिलोमीटर-यावत् रेलवेसञ्जालस्य विद्युतीकरणं कृतम् – रेल-मन्त्री अश्विनी वैष्णवः
हिमसंस्कृतवार्ता: – रेल-मन्त्री अश्विनी वैष्णवः अवदत् यत् राष्ट्रम् उन्नत प्रौ‌द्योगिक्या विकासेन च साकं वन्दे-भारत नमो-भारत प्रभृति: नूतन रेलयानानि चालयितुम् आत्मनिर्भरं जायते। मुङ्गेरस्य जमालपुरे एकं समारोहं सम्बोधयन् श्री-वैष्णवः अवोचत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे देशेन विगतेषु दश वर्षेषु पञ्चाशत् सहस्र किलोमीटर-यावत् रेलवे सञ्जालस्य विद्युतीकरणं कृतम् ।

अमरीका-ईरानदेशयोः मध्ये चतुर्थं वारं वार्ता संजाता
हिमसंस्कृतवार्ता: – अमरीका-ईरानयोः मध्ये इटलीदेशस्य राजधान्यां रोम-नगर्यां पञ्चम-क्रमस्य अप्रत्यक्षा वार्ता प्रारब्धा। उभयोः देशयोः मध्ये इदानी यावत् चतुर्थं वारं वार्ता संजाता। एतासु तिस्र: वार्ताः ओमानस्य राजधान्यां मस्कटे संजाताः। एका च रोमे अभवत् । एषा वार्ता परमाणु कार्यक्रम विषयकं गतिरोधं अमरीकीयं प्रतिबंधं च अपाकर्तुम् वर्तते। अवधेयमस्ति यत् एषा वार्ता ओमानेन कार्यते।

You Might Also Like

President of India – चिकित्सा न केवलं वृत्तिः, अपितु मानवतायाः सेवायाः सङ्कल्पः; ‘एम्स’-संस्थानस्य प्रथमेभ्यः स्नातकेभ्यः राष्ट्रपतेः उपदेशः

क्रीडा-मञ्चानां माध्यमेन बालकान् यूनश्च लक्ष्यीकुर्वन्ति आतङ्किनः; संयुक्तराष्ट्र-प्रतिवेदने प्रकटनम्

भारतीयपुरातत्त्वसर्वेक्षणेन (ASI) तेलङ्गानायाः ‘गोल्लाला गुडी’ मन्दिरं राष्ट्रियधरोहरसूच्यां सम्मिलितम्

सर्वकारेण वर्ष २०२४ कृते तेनज़िङ्ग नोर्गे राष्ट्रिय-साहसिक-पुरस्काराणां घोषणा कृता

नेपाल-विभीषिकातः शिक्षणम् – हिमालीय-टनल-सेतु-परियोजनानां भविष्यति तीक्ष्णं निरीक्षणम्, प्रधानमन्त्रिकार्यालयेन याचितं विवरणम्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article 24/05/2025 विद्यालयप्रार्थनासभायां वाचनार्थं प्रमुखहिमाचलवार्ता:
Next Article Manimahesh Yatra- अधुना मणिमहेशयात्रायाः कृते गृहात् हेली टैक्सी,सरदारपटेलविश्वविद्यालये संगोष्ठी
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?