नेशनल् हेराल्ड्-प्रकरणे प्रवर्तननिदेशालयेन (ईडी) धनशोधनप्रकरणे आरोपपत्रं पंजीकृत्य पूर्वकाङ्ग्रेस-अध्यक्षां सोनियागान्धीं-लोकसभा-विपक्षनेत्री राहुलगान्धीं च परितः पाशं कठिनं कृतम् । दिल्लीनगरस्य राउस् एवेन्यू न्यायालये अन्वेषणसंस्थायाः आरोपपत्रं पंजीकृत्य उभौ नेतारौ धनशोधनप्रकरणे आरोपितौ कृतौ। काङ्ग्रेसस्य वरिष्ठनेतारः सैम पित्रोडा, सुमनदुबे इत्यादयः बहवः नेतारः अपि आरोपपत्रे समाविष्टाः सन्ति।
ईडी द्वारा पंजीकृते आरोपपत्रे श्रवणं राउस् एवेन्यू न्यायालये 25 अप्रैल दिनाङ्के भविष्यति।ईडी द्वारा धनशोधनस्य अपराधस्य कृते अभियोजनस्य याचिका पंजीकृता अस्ति, या धनशोधननिवारणकानूनस्य (पीएमएलए), 2002 इत्यस्य धारा 44 तथा च 45 इत्यस्य अन्तर्गतं भवति।
ततः पूर्वं प्रवर्तननिदेशालयेन नेशनल् हेराल्ड्-प्रकरणे सोनियागान्धी-राहुलगान्धी-सम्बद्धानां सम्पत्तिनां जब्धस्य प्रक्रिया आरब्धा आसीत् । काङ्ग्रेससंसदीयपक्षस्य नेता सोनियागान्धी, लोकसभायां विपक्षनेता राहुलगान्धी च विरुद्धं कस्मिन् अपि प्रकरणे आरोपपत्रं प्रथमवारं पंजीकृतमस्ति। भवद्भ्यः कथयामः यत् २०१४ तमे वर्षे दिल्ली-महानगरदण्डाधिकारिणः आदेशेन ईडी-संस्थायाः पीएमएलए-अन्तर्गतं एजेएल-यंग इण्डिया-विरुद्धं अन्वेषणं आरब्धम् । प्रवर्तननिदेशालयेन एतावता एजेएल अर्थात् एसोसिएटेड् जर्नल्स् लिमिटेड् तथा यंग इण्डिया इत्येतयोः प्रायः ७५१.९ कोटिरूप्यकाणां सम्पत्तिः निग्रहिता।
काङ्ग्रेसः अवदत्, एषा प्रतिशोधस्य अस्ति
काङ्ग्रेसेन ईडी इत्यस्य कार्यं प्रतिशोधराजनीतिः इति उक्तम् । जयराम रमेशः लिखितवान् यत् नेशनल् हेराल्ड् इत्यस्य सम्पत्तिं जब्धकरणं न्यायव्यवस्थाया: शासनस्य वेषं धारयन् राज्यप्रायोजितः अपराधः अस्ति। सोनियागान्धी, राहुलगान्धी इत्यादिषु केषाञ्चन विरुद्धं आरोपपत्रस्य पंजीकरणं प्रधानमन्त्रिणः गृहमन्त्रिणः च प्रतिशोधराजनीतिः, संतर्जना च विना अन्यत् किमपि नास्ति। परन्तु काङ्ग्रेसः तस्य नेतृत्वं च मौनम् न तिष्ठति। केन्द्रसर्वकारस्य प्रतिशोधचिन्तनस्य विरोधं न्यायालयेषु अपि च वीथिषु काङ्ग्रेसपक्षं करिष्यति तथा च केसरपक्षस्य दुष्टाभिप्रायस्य विषये देशं अवगतं करिष्यति। सत्यमेव जयते ।