KKSU Ramtek : ज्ञानभारतम् परियोजना पाण्डुलिपीनां संरक्षणाय, सम्पादनाय, शोधकार्याय च महत्त्वपूर्णा- डॉ. अनिर्बनदासः
हिमसंस्कृतवार्ता: – नागपुरम्। भारतीयलिपि- प्रशिक्षणकार्यशाला संस्कृत- विश्वविद्यालये पाण्डुलिपिकेन्द्रेण सम्पन्ना। राष्ट्रिय- पाण्डुलिपिमिशनस्य नवीदिल्ल्या: आर्थिकसाहाय्येन कविकुलगुरु- कालिदास- संस्कृतविश्वविद्यालयस्य पाण्डुलिपिसंसाधनकेन्द्रेण (MRC) 03 अप्रैल 2025 दिनाङ्के लिपि अध्ययनसंरक्षणविषये नवदिवसीयकार्यशाला समाप्ता। उक्तायां कार्यशालायां कुलम् चत्वारिंशत् प्रतिभागिनः ब्राह्मी, शारदा, मोदी, सकललिपि च प्रशिक्षणं गृहीतवन्तः। उक्ता कार्यशाला विश्वविद्यालयस्य आधुनिकभाषाविभागस्य, संस्कृतभाषासाहित्यविभागस्य च आश्रयेण आयोजिता अस्ति। कार्यशालायाः सहसंयोजकाः डॉ. पल्लवी कवले (सहायकाचार्य:) भरत मिसालः (सहायकाचार्य:) आस्ताम्।
राष्ट्रीयपाण्डुलिपिमिशनस्य निदेशक: एवं हस्तलेख एवं लिपिविशेषज्ञ: डॉ. अनिर्बन दास मुख्यातिथि: आसीत् अस्मिन्नवसरे भाषासंकायस्य प्रभारी प्राध्यापकः पराग जोशीः समये सम्बोधनं दत्तवान्। सः प्राप्तं लिपिज्ञानं अभ्यासं कर्तुं उपदेशं दत्तवान्। यदि कार्यशालायां प्राप्तं ज्ञानं पाण्डुलिपि अध्ययनार्थं अत्यन्तम् उपयोगी भवति तर्हि अभ्यासद्वारा एतत् ज्ञानं जीवितं कुर्वन्तु। सम्पूर्णकार्यशालायाः अवलोकनं कृत्वा लघुचलच्चित्रं प्रस्तुतम्। मुख्यातिथिः डॉ. अनिर्बन दासः अवदत् यत् पाण्डुलिप्य: भारतीयज्ञानपरम्परायाः महत्त्वपूर्णा: भागा: सन्ति। प्रधानमंत्री नरेन्द्र मोदी ज्ञानभारतम् परियोजनां कार्यान्वितमकरोत्। अस्या: परियोजनाया: अन्तर्गतं १ कोटि पाण्डुलिपीनां अंकीयकरणं (डिजिटाइजेशन) प्रारब्धं वर्तते। अस्याः परियोजनायाः केन्द्रेषु कविकुलगुरु- कालिदास- संस्कृतविश्वविद्यालयः अस्ति। ज्ञानभारतं पाण्डुलिपीनां संरक्षणं, सम्पादनम्, अनुसन्धानं च प्रति प्रतिबद्धा केन्द्रसर्वकारस्य परियोजना अस्ति। ज्ञानभारतपरियोजनायाः अन्तर्गतं लिपिज्ञानं, भाषाकौशलं, विषयज्ञानं, रुचिः च इति चत्वारि वस्तूनि अस्य कार्यस्य मुख्याधाराः सन्ति। पाण्डुलिपिं यथार्थतया सम्पादयितुं, लिपिं ज्ञात्वा, सम्पादयितुं, प्रकाशनात् पूर्वं तस्याः शोधं च महत्त्वपूर्णम्। एतत् केवलं सूचीकरणं यावत् सीमितं न भवेत्। एतत् ज्ञानभारतमिशनं तदा एव सफलं भविष्यति यदा वास्तविकरूपेण पाण्डुलिप्याः क्षेत्रे कार्यं कुर्वतां निपुणानां जनानां आवश्यकता भविष्यति। अध्यक्षीये सम्बोधने कुलपति: प्रो हरेराम: त्रिपाठी डॉ अनिर्बनदासस्य धन्यवादं ज्ञापितवान्। राष्ट्रीयपाण्डुलिपिमिशनेन विश्वविद्यालयाय पाण्डुलिपिस्रोतकेन्द्रं पाण्डुलिपिसंरक्षणकेन्द्रं च अनुमोदितम् अस्ति तथा च अतीव महत् डिजिटाइजेशनयन्त्रं प्रदत्तं भविष्यति, येन अधुना पाण्डुलिपिसंरक्षणस्य कार्ये त्वरितता भविष्यति। तेन आश्वासनं दत्तं यत् अस्माकं विश्वविद्यालयः सदैव पाण्डुलिपि- संशोधनसंरक्षणस्य दिशि कार्यं कुर्वन् अस्ति तथा च राष्ट्रियशिक्षानीत्या उल्लिखितानां नवीनप्रौद्योगिक्याः उपयोगेन ज्ञानभारतयोजनायां भागं गृहीत्वा स्वदायित्वं सफलतया निर्वहति।
कार्यशालायां प्रतिभागिनां प्रशिक्षणानन्तरं विश्वविद्यालयस्य एलएमएस-प्रणाल्याः उपयोगेन असाइनमेण्ट- व्यावहारिककार्यं च कृत्वा तेषां मूल्याङ्कनं कृतम्। तदनुसारं कुलपञ्चदश इण्टर्नशिप- छात्राणां चत्वारिंशत् कार्यशाला- प्रतिभागिनां च प्रमाणपत्राणि वितरितानि, अतः कुलम् ५५ कार्यशाला-प्रतिभागिभ्यः अस्मिन्नवसरे गणमान्यैः प्रमाणपत्राणि वितरितानि।
कार्यक्रमस्य संचालनं प्रो. राधा देशकरेण कृतम्, धन्यवादपत्रं च प्रो. उमेश यादवः दत्तवान्। कार्यक्रमस्य समापनं शान्तिपाठेन सह अभवत्।