मनकीबात- ग्रीष्मकालीनेषु अवकाशेषु बालेभ्यः रचनात्मकगतिविधिनाम् अभ्यासः कारणीयः
हिमसंस्कृतवार्ता: – प्रधानमन्त्री नरेन्द्रमोदी आकाशवाणीतः प्रसार्यमाने “मन की बात” इत्येतस्मिन् कार्यक्रमे उक्तवान् यत् वस्त्रापशिष्टानां समाद्धानानि समग्रविश्वाय व्याकुलतायाः एकं बृहत्तमं कारणं विद्यते। असौ प्रावोचत् यत् एकप्रतिशतादपि अल्पानां वस्त्रापशिष्टानां नवीनवस्त्रेषु पुनर्चक्रणं भवन्तीति। अनेनोक्तं यत् भारतं विश्वस्य तृतीये देशो विद्यते यत्र सर्वाधिकं वस्त्रापशिष्टम् अपसारितं भवति परञ्च हर्षस्य विषयोऽयं विद्यते यत् अस्माकं देशे एतेभ्यः समाहृानेभ्य: निवारणाय अनेकाः प्रशंसनीयप्रवासाः विधीयन्ते।अत्रावधौ जलसंरक्षण विषये प्रवदन् प्रधानमन्त्री सन्तोष प्रकटितवान् यत् विविधेषु राज्येषु जलसञ्चय सम्बद्धेषु कार्येषु तीव्रता समागतास्ति। श्रीमोदिना अग्रे कथितं यत् अस्मिन्नेव वर्षेऽपि ‘कैच द रेन” इत्यस्मै अभियानाय युद्धस्तरे व्यवस्थाः सम्पादिताः। श्रोतृन् च समाहूतवान् यत् ते इदमभियानम् जनान्दोलनत्वेन निर्मातुं कार्यं कुर्वन्तु इति ।
एतदतिरिच्य विद्यार्थिनः ग्रीष्मकालिकावकाशावधौ रचनात्मकानि कार्याणि कुर्युः इति परामर्शं प्रदत्तवान्। श्रीमोदिना सङ्घटनानि विद्यालयाः सामाजिकसंख्याः च संसूचिताः यत् तैः ग्रीष्मकालिकानां क्रियाकलापानाम् आयोजनं करणीयमिति अपि च स्वकार्यक्रमान् हैशटैग माई हॉलिडेज इत्यत्र विनिमयं कुर्वन्तु। अपरत्र प्रधानमन्त्रिणा युवेभ्यः माई भारत इत्यभिन नामधेयकत्वेन दिनदर्शिकात्वेन प्रदर्शितम् सूचीगतपटलम् चर्चितम् । अस्य वर्षस्य ग्रीष्मकालिकावकाशाय निर्मितमस्तीति। प्रधानमन्त्री साम्प्रतिके एव समये निष्पन्नायां खेलोइण्डिया पैरागेम्स क्रीडायां क्रीडालूनां प्रदर्शनं प्रशंसितवान्। अयं कथितवान् यत् एतासु क्रीडासु अस्मिन् वर्षे इतोऽपि अधिकाः क्रीडालवः भागं स्वीकृतवन्तः। अनेन हि अभिज्ञायते यत् पैराक्रीडाः लोकप्रियाः भवन्तीति। अन्ताराष्ट्रिययोगदिवसस्य अवशिष्टेभ्यः शतदिवसेभ्यः पूर्वं प्रधानमन्त्री योगचर्या दैनन्दिनजीवने पालयितुं जनैः आग्रहं कृतवान्। चैत्रनवरात्रेः जनेभ्यः शुभकामनाः यच्छन् स्वकार्यक्रमं समापितवान्।
मनकीबात- ग्रीष्मकालीनेषु अवकाशेषु बालेभ्यः रचनात्मकगतिविधिनाम् अभ्यासः कारणीयः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
