padma Bhushan : सप्तजनेभ्यः पद्मविभूषणम्, एकोनविंशतिभ्यः पद्मभूषणम्, त्रयोदशाधिकमेकशतं जनेभ्यः पद्मश्री पुरस्कारः
हिमसंस्कृतवार्ताः। केन्द्रसर्वकारेण शनिवासरे गणतन्त्रदिवसस्य पूर्वसंध्यायां देशस्य सर्वोच्चस्य नागरिकसम्मानस्य – पद्मपुरस्कारः २०२५ इत्यस्य नामानि घोषितानि। शारदा सिन्हा, ओसामु सुजुकी इत्यादयः सप्त व्यक्तित्वाः पद्मविभूषणेन पुरस्कृताः सन्ति। तत्रैव पंकज उधास, सुशील मोदी सहितं १९ जनाः पद्मभूषणेन सम्मानिताः भविष्यन्ति। एतेभ्यः अतिरिक्तं अस्मिन् समये ११३ जनाः पद्मश्रीपुरस्कारेण सम्मानिताः भविष्यति, येषां नामानि घोषितानि सन्ति। सर्वोच्चनागरिकसम्मानेषु अन्यतमः पद्मपुरस्कारः पद्मविभूषणः, पद्मभूषणः, पद्मश्रीः इति त्रयेषु वर्गेषु प्रदत्ताः भवन्ति । एते पुरस्काराः कला, सामाजिककार्यं, जनकार्याणि, विज्ञानं, अभियांत्रिकी, व्यापारः, उद्योगः, चिकित्सा, साहित्यं, शिक्षा, क्रीडा, सिविलसेवा इत्यादिषु विविधक्षेत्रेषु उत्कृष्टतां मान्यतां प्रदास्यन्ति।
एते पद्मविभूषणेन सम्मानिताः भविष्यन्ति
दुववूर नागेश्वर रेड्डी (चिकित्सा) न्यायमूर्तिः (सेवानिवृत्त), जगदीश सिंहखेहरः (लोकसेवाक्षेत्रे), कुमुदिनी रजनीकांत लखिया (कला), लक्ष्मीनारायणन सुब्रमण्यम् (कला), एम. टी. वासुदेवन नायर (साहित्य एवं शिक्षा) मरणोपरांतम्, ओसामु सुजुकी (व्यापारे उद्योगे च) मरणोत्तरं, शारदा सिन्हा (कला) म
एते पद्मभूषणेन सम्मानिताः भविष्यन्ति
ए सूर्यप्रकाश (साहित्य एवं शिक्षा – पत्रकारिता), अनंत नागः (कला), बिबेक देबरायः मरणोपरान्तः (साहित्य एवं शिक्षा) जतिनगोस्वामी (कला), जोस चाको पेरियाप्पुरम (चिकित्सा), कैलाश नाथदीक्षितः (अन्य – पुरातत्व), मनोहर जोशी (मृत्युपश्चात्) जनसंपर्कः, नल्ली कुप्पुस्वामी चेट्टियारः (वाणिज्यम् उद्योगश्च), नन्दमुरी बालकृष्णः (कला), पीआर श्रीजेशः (क्रीडा) सहितं १९ जनेभ्य सम्मानमिदं प्रदास्यते।
padma Bhushan : सप्तजनेभ्यः पद्मविभूषणम्, एकोनविंशतिभ्यः पद्मभूषणम्, त्रयोदशाधिकमेकशतं जनेभ्यः पद्मश्री पुरस्कारः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
1 Comment
1 Comment

राष्ट्रस्य सर्वोच्चपुरस्कारविजेतृभ्यः हार्दिकशुभवादाः। एते अस्माकं प्रेरणाष्पदाः सन्ति। अहं एतान् महानुभवान् नित्वा गर्वम् अनुभामि। वन्दे मातरम्।।