By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: चम्बायाः देवनगर्यां भरमौरे गूञ्जिताः संस्कृतस्वराः, छात्रविद्वत्सम्मेलनम् 2024 इत्यस्य भव्यायोजनम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > चम्बायाः देवनगर्यां भरमौरे गूञ्जिताः संस्कृतस्वराः, छात्रविद्वत्सम्मेलनम् 2024 इत्यस्य भव्यायोजनम्
संस्कृतगतिविधयःहिमाचलवार्ता

चम्बायाः देवनगर्यां भरमौरे गूञ्जिताः संस्कृतस्वराः, छात्रविद्वत्सम्मेलनम् 2024 इत्यस्य भव्यायोजनम्

डॉ.अमनदीप शर्मा
Last updated: 2024/11/20 at 7:24 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

चम्बायाः देवनगर्यां भरमौरे गूञ्जिताः संस्कृतस्वराः, छात्रविद्वत्सम्मेलनम् 2024 इत्यस्य भव्यायोजनम्
हिमसंस्कृतवार्ताः भरमौर (चम्बा)20 नवम्बर 2024। हिमाचलप्रदेशे संस्कृतभाषायाः संरक्षणाय, प्रचाराय च महत्त्वपूर्णं पदं स्वीकृत्य, शिमलायाः हिमाचलसंस्कृत-अकादम्याः-नेतृत्वेन छात्र-विद्वानसम्मेलनम् २०२४ इत्यस्य आयोजनम् अभवत् । चम्बामण्डलस्य ऐतिहासिकतीर्थस्थलस्य चौरसीमन्दिरस्य प्राङ्गणे भरमौरस्य शासकीय वरिष्ठमाध्यमिकविद्यालयस्य सहकारेण एतत् आयोजनं सम्पन्नम्। क्षेत्रस्य विभिन्नविद्यालयेभ्यः छात्राः सम्मेलने भागं गृहीत्वा स्वसंस्कृतविद्वत्तायाः प्रदर्शनं दर्शितवन्तः । कार्यक्रमस्य अध्यक्षता हिमाचलसंस्कृत-अकादम्याः पूर्वसचिवेन डॉ. मस्तरामवर्येण कृता तत्रैव मुख्यातिथिरूपेण जिलाशिक्षा-उपनिदेशकः प्यारसिंहचडकः कार्यक्रमस्य शोभां वर्धितवान् । अस्मिन्नावसरे अकादमी सचिवः डॉ.केशवानन्दकौशलः, पूर्वप्राचार्येषु डॉ. लीलाधर वात्स्यायनः, डॉ. धनीरामसंगरः वर्तमानचम्बासंस्कृतमहाविद्यालयस्य प्राचार्यः सञ्जीवशर्मा, ज्वालाजीतः अनूपः, संस्कृतशिक्षकपरिषदः जिला अध्यक्षेषु कांगड़ातः डॉ.अमनदीपशर्मा, सोलनतः डॉ.कमलकान्तः, हमीरपुरतः नरेशमलोटिया,डॉ.राहुलः, हि.प्र.विश्वविद्यालयस्य क्षेत्रीयपरिसरात् धर्मशालतः डॉ. विपिन कुमारः, इत्यादयः आचार्यविद्वांसः अपि उपस्थिताः आसन्।

संस्कृतं प्रति युवानां उत्साहः
कार्यक्रमे संस्कृतपाठः, गीतिकामन्त्रपाठः, भाषणप्रतियोगिता च आयोजिताः । भरमौर-नगरस्य परिसरे विद्यालयानां छात्राः एताषु स्पर्धासु उत्साहेन भागं गृहीत्वा स्वप्रतिभां प्रदर्शितवन्तः । विद्वांसः संस्कृतभाषायाः महत्त्वं प्रकाशयित्वा भारतीयसंस्कृतेः परम्परायाः च आधारविषये उक्तवन्तः । मुख्यातिथिः प्यारसिंहचडकः स्वसम्बोधने उक्तवान् यत् संस्कृतं केवलं भाषा एव नास्ति, अपितु अस्माकं सांस्कृतिकविरासतां वैज्ञानिकज्ञानस्य स्रोतः च अस्ति। सः छात्रान् संस्कृतस्य अध्ययनं प्रति प्रेरितवान् ।

छात्रैः प्राप्तं प्रोत्साहनम्
सम्मेलनस्य समापनसमये विजेतृणां छात्राणां पुरस्कारैः सम्मानः कृतः । एतासु स्पर्धासु मन्त्रपाठप्रतियोगितायां शिवालिकपब्लिक हाईस्कूल भरमौरस्य काव्याः प्रथमस्थानं, शासकीयबालिकानां वरिष्ठमाध्यमिकविद्यालयभारमौरस्य नितिका संस्कृतभाषणप्रतियोगितायां प्रथमस्थानं प्राप्तवती, डीएवी पब्लिकस्कूलभारमौरस्य शगुनः प्रथमस्थानं प्राप्तवती। श्लोकोच्चारणप्रतियोगितायां शिवालिक पब्लिक हाईस्कूल इत्यस्य शगुनः संस्कृतगीतिकाप्रतियोगितायां च हर्षिता प्रथमं स्थानं प्राप्तवती। स्मृतिचिह्नसहितं साक्षात् धनपुरस्कारमपि छात्रैः प्राप्तम्। एतदतिरिक्तं द्वितीयतृतीयचतुर्थस्थानं प्राप्तानां छात्राणां कृते अपि हिमाचलसंस्कृताकादमीद्वारा सम्मानः कृतः। आयोजनं सफलं कर्तुं स्थानीयप्रधानाध्यापिका अरुणा चडक तथा बालिकाविद्यालयस्य प्राचार्या अंजु बाला इत्यनयोः विशेषयोगदानम् अभवत्। विशेषरूपेण स्थानीयसंस्कृतशिक्षकः अशोककुमारः संयोजकरूपेण महत्त्वपूर्णां भूमिकां निर्वहन सर्वां व्यवस्थां दृष्टवान यस्य सहयोगः चम्बामण्डले कार्यरतेन संस्कृतप्रवक्तृणा अर्जुनसिंहेन कृतम् । अकादमीसचिवः सर्वेभ्यः शिक्षकेभ्यः धन्यवादं दत्तवान्, ये अस्य कार्यक्रमस्य संचालनं महता कुशलतापूर्वकं उत्साहेन च कृतवन्तः। एतत् आयोजनं न केवलं संस्कृतविषये जागरूकतावर्धनस्य माध्यमं जातम्, अपितु अस्मिन् प्रदेशे भाषासंस्कृतेः प्रति नूतनजागरूकतायाः निर्माणे अपि सफला अभवत् । हिमाचलसंस्कृत-अकादम्याः एतस्य प्रयासस्य सर्वैः प्रशंसा कृता।

You Might Also Like

*केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय१५तमयुवमहोत्सवः श्रीसीतारामवैदिकादर्शसंस्कृतमहाविद्यालयस्य आयोजकेन सम्पन्नः जातः*  

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

TAGGED: चम्बा, संस्कृत प्रतियोगिता, संस्कृत विद्याल, संस्कृत समाचार, संस्कृतवार्ताः, हिमाचल में संस्कृत के अवसर, हिमाचल संस्कृत अकादमी
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article HPCM : वर्षद्वयाभ्यान्तरे मार्गसुविधया सम्बद्धः भविष्यति बडाभङ्गालक्षेत्रम् मुख्यमंत्री सुक्खुः कार्यस्य त्वरिततायै निर्देशं दत्तवान्
Next Article vijaysethupathi : अधुना ‘विजय सेतुपति’ इत्यस्य ‘महाराजा’ इति चलच्चित्रं चीनदेशे ४० सहस्रेषु पटलेषु प्रदर्शितं भविष्यति
1 Comment 1 Comment
  • Bhaskar says:
    November 20, 2024 at 6:38 pm

    Ati shobhnam

    Reply

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?