By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HPCM : वर्षद्वयाभ्यान्तरे मार्गसुविधया सम्बद्धः भविष्यति बडाभङ्गालक्षेत्रम् मुख्यमंत्री सुक्खुः कार्यस्य त्वरिततायै निर्देशं दत्तवान्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > HPCM : वर्षद्वयाभ्यान्तरे मार्गसुविधया सम्बद्धः भविष्यति बडाभङ्गालक्षेत्रम् मुख्यमंत्री सुक्खुः कार्यस्य त्वरिततायै निर्देशं दत्तवान्
संस्कृतगतिविधयः

HPCM : वर्षद्वयाभ्यान्तरे मार्गसुविधया सम्बद्धः भविष्यति बडाभङ्गालक्षेत्रम् मुख्यमंत्री सुक्खुः कार्यस्य त्वरिततायै निर्देशं दत्तवान्

डॉ मनोज शैल
Last updated: 2024/11/19 at 9:41 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

HPCM : वर्षद्वयाभ्यान्तरे मार्गसुविधया सम्बद्धः भविष्यति बडाभङ्गालक्षेत्रम् मुख्यमंत्री सुक्खुः कार्यस्य त्वरिततायै निर्देशं दत्तवान्

हिमसंस्कृतवार्ता: – शिमला।

लोकनिर्माणविभागस्य कार्याणां समीक्षां कुर्वन् मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् अस्मिन् वित्तवर्षे विभागाय २८०६ कोटिरूप्यकाणि विनियोजितानि सन्ति तथा च २०२४ तमस्य वर्षस्य सितम्बरमासस्य ३० दिनाङ्कपर्यन्तं १२३८ कोटिरूप्यकाणि विभिन्नकार्येषु व्ययितानि सन्ति। विभागेन चालितानां विविधानां परियोजनानां त्वरिततां कर्तुं अधिकारिभ्यः निर्देशं दत्त्वा स्वकार्यक्षमतायां नूतनप्रौद्योगिकीम् अङ्गीकुर्वन्तु इति च आह। सः अवदत् यत् अभियंतॄणां वित्तीयशक्तिः सर्वकारेण वर्धिता, निविदाप्रक्रिया अपि त्वरिता कृता, येन विकासकार्यम् अधिकगतिं दातुं शक्यते।

मुख्यमन्त्री उक्तवान् यत् राज्यसर्वकारः राज्यस्य दुर्गमक्षेत्रेषु मार्गसुविधाः प्रदातुं प्राथमिकताम् ददाति। सः अवदत् यत् स्वातन्त्र्यानन्तरं प्रथमवारं डोडरा क्वारं धातुमार्गसुविधाया: माध्यमेन सम्बद्धं कर्तुं गच्छति। अस्य कृते डोडराक्वारमार्गे टायरिंग इति कार्यं द्रुतगत्या सम्पन्नं भवति। सः अवदत् यत् वर्षद्वयाभ्यान्तरे काङ्गड़ामण्डलस्य बड़ाभङ्गलास्य दुर्गमक्षेत्रं मार्गेण सम्बद्धं भविष्यति। सः अधिकारिभ्यः एतत् कार्यं शीघ्रं कर्तुं निर्देशं दत्तवान्।

सुखविन्दरसिंहसुक्खुः अवदत् यत् विभागस्य आधुनिकीकरणाय सर्वसम्भवा सहायता प्रदत्ता भविष्यति। राज्यस्य प्रकृतिं भौगोलिकस्थानं च मनसि कृत्वा कन्दरानिर्माणस्य सम्भावनानां अन्वेषणं कर्तुं सः बलं दत्तवान्। सः अवदत् यत् राज्ये परिवहनसाधनानि सीमितानि सन्ति येन मार्गाः राज्यस्य जीवनरेखा इति प्रसिद्धाः सन्ति। राज्यसर्वकारः हिमाचले पर्यटनस्य विस्तारं कुर्वन् अस्ति, मार्गस्य आधारभूतसंरचना अपि सुदृढाः क्रियन्ते येन पर्यटकानां कृते सुलभयानसुविधाः प्रदातुं शक्यन्ते। सः मार्गपार्श्वसुविधापरियोजनानां निर्माणं शीघ्रं कर्तुं निर्देशं दत्तवान्।

मुख्यमन्त्री राज्यसर्वकारः भूभुजोत निर्माणाय प्रतिबद्धः इति उक्तवान्। शीघ्रमेव प्राप्तिमार्गस्य विस्तृतपरियोजनाप्रतिवेदनं निर्मातुं अधिकारिभ्यः निर्देशं दत्तवान्। भूभुजोत् कन्दरापरियोजनायै राज्यसर्वकारः पर्याप्तं धनं प्रदास्यति इति सः अवदत्। सः भूमिगत- उपयोगितानलिकां परियोजनायाः अपि समीक्षां कृत्वा अवदत् यत् एषा परियोजना शिमलानगरस्य प्राकृतिकवैभवं वर्धयिष्यति, तदर्थं च १५० कोटिरूप्यकाणि विमोचितानि सन्ति। सः अवदत् यत् स्थानीयजनानाम् पर्यटकानाञ्च सुविधां दातुं छोटाशिमलातः चोड़ा मैदानपर्यन्तं, राजभवनतः ओकओवरपर्यन्तं, शेर-ए-पञ्जाबतः सीटीओ चौकपर्यन्तं भूमिगततन्त्र्य:, नलिका: च विन्यस्यन्ते।

मुख्यमन्त्री प्रधानमन्त्री ग्रामसड़कयोजना, नाबार्ड, सीआईआरएफ, आश्रयपरियोजना, राजीवगांधी-आदर्श-दिवसबोर्डिंग-विद्यालया:, हेलीपोर्ट सहितानाम् अन्येषां विकासकार्याणां समीक्षा: अपि अकरोत्। विभागस्य कार्यव्यवस्थाम् अधिकप्रभाविणीं कर्तुं लोकनिर्माणमन्त्री विक्रमादित्यसिंहः बहुमूल्यं परामर्शम् अयच्छत्। अस्मिन् अवसरे अतिरिक्तमुख्यसचिवः के. के. पन्त:, लोकनिर्माणविभागस्य मुख्य अभियंता एन. पी. सिंह सहितं विभागस्य अन्ये वरिष्ठाधिकारिण: उपस्थिता आसन्।

You Might Also Like

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

पिथौरागढे स्थिते विवेकानन्द-विद्यामन्दिरे प्रान्तस्तरीय-प्रबोधनवर्गस्य सम्पूर्तिः

भारतीयसंस्कृते: मूलमस्ति संस्कृतम्- के. एल. ठाकुर:

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, HP Government, HP NEWS, HPCM, hpgovt, दिव्य हिमाचल समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Kailash Mansarovar Yatra : पुनः आरप्स्यते कैलाश-मानसरोवरयात्रा
Next Article चम्बायाः देवनगर्यां भरमौरे गूञ्जिताः संस्कृतस्वराः, छात्रविद्वत्सम्मेलनम् 2024 इत्यस्य भव्यायोजनम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?