By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Himachal News : प्रदूषणनियन्त्रणमण्डलं जनान् दीपावलीदिने केवलं हरितास्फोटकानां प्रयोगं कर्तुं परामर्शमददत्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > Himachal News : प्रदूषणनियन्त्रणमण्डलं जनान् दीपावलीदिने केवलं हरितास्फोटकानां प्रयोगं कर्तुं परामर्शमददत्
हिमाचलवार्ता

Himachal News : प्रदूषणनियन्त्रणमण्डलं जनान् दीपावलीदिने केवलं हरितास्फोटकानां प्रयोगं कर्तुं परामर्शमददत्

डॉ मनोज शैल
Last updated: 2024/10/25 at 9:13 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Himachal News : प्रदूषणनियन्त्रणमण्डलं जनान् दीपावलीदिने केवलं हरितास्फोटकानां प्रयोगं कर्तुं परामर्शमददत्

हिमसंस्कृतवार्ता: – शिमला।‌

राज्यप्रदूषणनियन्त्रणमण्डलेन जनाः अनुकृतास्फोटकानां विषये अवगताः भवेयुः, हरितास्फोटकानां प्रयोगं च कर्तुं परामर्शं दत्तवान्। एते आस्फोटका: अधिकं प्रदूषणं जनयन्ति। आस्फोटकै: वायुतले विषाक्तरसायनानि, धूलिः, धूमः च मुक्ता: भवन्ति इति कारणेन स्वास्थ्यसमस्याः अपि वर्धन्ते। एतेन विशेषतः श्वसनरोगग्रस्तानां जनानां समस्याः भवन्ति।

हरितास्फोटकानां सामान्यास्फ़टकानां च भेदः

हरितास्फोटका: सामान्यास्फोटकापेक्षया ३० प्रतिशतं न्यूनं प्रदूषणं जनयन्ति। एतेषु बेरियम नाइट्रेट इत्यादीनां हानिकारकरसायनानां उपयोगः न भवति ये पारम्परिकास्फोटकेषु बृहत् परिमाणेन वर्तन्ते। एतेषां आस्फोटकानाम् उपयोगेन नाइट्रोजन- आक्साइड्, सल्फर-डाय-आक्साइड् इत्यादीनां प्रदूषकाणां उत्सर्जनम् अपि न्यूनीकरोति। एते आस्फोटका: शब्दप्रदूषणमपि नियन्त्रयन्ति। तेषाम् उत्सर्जितः कोलाहलः ११० तः १२५ डेसिबेल यावत् भवति। सामान्याः आस्फोटका:१६० डेसिबेल् यावत् ध्वनिं उत्सर्जयन्ति। भारतीय- वैज्ञानिक- संशोधनपरिषदि, राष्ट्रियपर्यावरण- इञ्जिनीयरिङ्ग- अनुसन्धानसंस्थायां च हरितास्फोटका: विकसिताः सन्ति। आस्फोटका: पर्यावरणसौहृदः भवेयुः इति सुनिश्चित्य सर्वोच्चन्यायालयस्य निर्देशानुसारं एते विकसिता: सन्ति।

 

एवं भवति अनुकृतास्फोटकानां परिचयः

विपण्याम् अनुकृतहरितास्फोटका: अपि बहु सन्ति। वास्तविकहरितास्फोटकानां पैकेटमध्ये लोगो, QR-सङ्केतः च भवति। स्मार्टफोनेन एतत् QR कोडं अन्वीक्षणं कृत्वा उत्पादेन सह सम्बद्धा सम्पूर्णा सूचना प्राप्यते, यथा निर्माणस्थानम्, अनुज्ञापत्रसूचना, प्रदूषणप्रमाणपत्रं च। यदि QR कोडस्य स्कैनिङ्गविषये कोऽपि सूचना न प्राप्यते तर्हि आस्फोटका: अनुकृता: इति गणयितुं शक्यते।

निर्माणसमये आस्फोटकानां परीक्षणं भवति यत् आस्फोटकेषु सम्यक् रसायनानि प्रयुक्तानि सन्ति वा न वा इति। हरितास्फोटकानां उपयोगः न केवलं पर्यावरणस्य रक्षणाय सहायकः भवति अपि तु उत्तरदायी समाजस्य निर्माणे अपि योगदानं ददाति। उपभोक्तृणां कृते विपण्याम् अनुकृतोत्पादानां परिहाराय सतर्कता आवश्यकी अस्ति।

-मनोजचौहान:, मुख्यवैज्ञानिक- अधिकारी, राज्यप्रदूषणनियन्त्रण,मण्डलम्।

You Might Also Like

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, HP NEWS, दिव्य हिमाचल समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HPRCA Hamirpur: हिमाचल प्रदेशराज्य- चयनायोगेन पदकूटसंख्या ९३९ इत्यस्य परिणाम: घोषित:
Next Article राष्ट्रीयवार्ताः- प्रधानमन्त्री नरेन्द्रमोदी जर्मनीदेशीयः शासनाध्यक्षः ओलाफ्-शोल्ज़ इत्यनेन सहाध्यक्षतां कृतवान्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?