By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: International Dussehra Festival Kullu : भव्यया रथयात्रया साकं दशहरामेलापकस्य शुभारम्भ:। कनाडादेशे अपि दशहरा-उत्सवस्य उल्लासः।
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > International Dussehra Festival Kullu : भव्यया रथयात्रया साकं दशहरामेलापकस्य शुभारम्भ:। कनाडादेशे अपि दशहरा-उत्सवस्य उल्लासः।
राष्ट्रीयवार्ताःहिमाचलवार्ता

International Dussehra Festival Kullu : भव्यया रथयात्रया साकं दशहरामेलापकस्य शुभारम्भ:। कनाडादेशे अपि दशहरा-उत्सवस्य उल्लासः।

डॉ मनोज शैल
Last updated: 2024/10/13 at 10:07 PM
डॉ मनोज शैल
Share
3 Min Read
SHARE

International Dussehra Festival Kullu : भव्यया रथयात्रया साकं दशहरामेलापकस्य शुभारम्भ:, सप्तदिनानि यावत् कुल्लौ भविष्यति देवमेलनम्

हिमसंस्कृतवार्ता: – कुल्लू:।

हिमाचलप्रदेशस्य कुल्लूजनपदस्य ढालपुरस्य ऐतिहासिकस्य रथभूमौ भगवान् रघुनाथस्य रथशोभायात्रया साकं अन्ताराष्ट्रीयकुल्लूदशहरामहोत्सवः आरम्भः अभवत्। सहस्राणि जनाः रघुनाथस्य रथं आकृष्य ढालपुरप्राङ्गणं प्राप्तवन्तः।

सप्तदिनानि यावत् भविष्यति देवमेलनम्

दशहरा उत्सवे शतशः देवी-देवताः उपस्थिताः आसन्। अत्र ७ दिवसान् यावत् दशहरा-उत्सवः भविष्यति । रथयात्रायां राज्यपालः शिवप्रतापशुक्लः तस्य धर्मपत्नी उपमुख्यमन्त्री मुकेश अग्निहोत्री च उपस्थिताः आसन्। ते ढालपुरे देवी-देवतानां आशीर्वादं गृहीतवन्त:।

भगवान् रघुनाथः रथं आरुह्य रघुनाथपुरतः ढालपुरस्य रथप्राङ्गणं प्रायः अपराह्णे ३ वादने प्राप्तवान् । अस्मिन्नवसरे भगवत: रघुनाथस्य मुख्ययष्टिधारक: महेश्वरसिंह: एवं राजपरिवारस्य सदस्या: अपि उपस्थिता अभवन्। रथशोभायात्रयां भगवत: रघुनाथेन सह ढोलकताडनेन देवी-देवताः अपि उपस्थिताः आसन् । भगवत: रघुनाथस्य रथशोभायात्रायां माता हिडिम्बा, देव: बिजलीमहादेव:, देव: आदिब्रह्म, भगवान् कार्तिकेय स्वामी, देवनाग: धूमल:, देववीरनाथ:, देवबीरकेला, माता गायत्री , माता त्रिपुर सुन्दरी, माता काली ओडी एवं अन्ये शतशः देवी-देवता: सम्मिलिता: अभवन्।

सहस्रश: जनाः रथशोभायात्रां द्रष्टुं आगता:

रथयात्रायां सहस्रश: जनाः जयश्रीरामस्य घोषै: भगवत: रघुनाथस्य रथं आकर्षितवन्तः। रथप्राङ्गणतः रघुनाथस्य अस्थायी शिबिरं प्रति स्यन्दनं नीतम् । यत्र सहस्रश: जनाः रघुनाथस्य रथस्य पुरतः प्रणामं कृत्वा आशीर्वादं गृहीतवन्तः। रथयात्रायै ढालपुरप्राङ्गणं प्रति सहस्रश: जनाः समुपस्थिताः अभवन्।

भगवत: रघुनाथस्य कार्यकर्ता दानवेन्दरसिंहः अवदत् यत्, “अन्ताराष्ट्रीयदशहरापर्वणि भगवान् रघुनाथः स्वस्य अस्थायी शिबिरे ७ दिवसान् यावत् तिष्ठति, अत्र भगवान् रघुनाथस्य पूजा-अर्चना भविष्यति। श्रद्धालव: अत्र रघुनाथस्य दर्शनार्थं प्राप्नुवन्तिति। लङ्कादहनस्य अनन्तरं भगवान् रघुनाथः पुनः स्वमन्दिरं प्रति प्रत्यागमिष्यति।”

तत्र दशहरा-उत्सवस्य दर्शनार्थम् आगताः विदेशीयाः, देशीयाः च यात्रिण: अवदन् यत्, “अन्ताराष्ट्रीय-दशहरा-उत्सवस्य विषये ते पूर्वं किञ्चित् श्रुतवन्तः अद्यत्वे च ते देव-संस्कृतिं बहु समीपत: दृष्टवन्तः। कुल्लू-जनपदस्य देवसंस्कृति: अनुपमा अस्ति देवानां मेलनं दृष्ट्वा बहु शोभनम् अलगत्।

 

Dussehra Festival : कनाडादेशे अपि दशहरा-उत्सवस्य उल्लासः

मुख्यमन्त्री सुखविन्द्रसिंहसुक्खुः निवेशाय आमन्त्रितवान्

हिमसंस्कृतवार्ता: – शिमला।

मुख्यमन्त्री सुखविन्द्रसिंहसुक्खुः कनाडादेशस्य ओटावा-संसदीयपर्वते (ओटावा पार्लियामेंट हिल) द्वितीयवर्षं यावत् दशहरा-उत्सवस्य सफलतया आयोजनस्य कृते कनाडादेशस्य हिमाचलप्रवासिनः अभिनन्दनं कृतवान्। सः एकस्य वीडियो सन्देशस्य माध्यमेन विदेशेषु निवसतां हिमाचलस्य जनानां राज्यस्य समृद्धसांस्कृतिकविरासतां रक्षितुं प्रशंसितवान् तथा च ते एव राज्यस्य निश्चितरूपेण अग्रदूता: अर्थात् ब्राण्ड् एम्बेस्डर इति सन्ति इत्यपि अवदत्।

मुख्यमन्त्री उक्तवान् यत् विशेषकार्यक्रमे कनाडादेशस्य ३० तः अधिकानां क्षेत्रीयसङ्घानाम् पूर्णसहकारः अभवत् तथा च प्रवासी हिमाचलीजनाः पूर्णतया उत्साहेन कार्यक्रमे भागं गृहीतवन्तः। सः अवदत् यत् राज्यस्य जनाः कुत्रापि निवसन्ति, एतादृशाः कार्यक्रमाः तेभ्यः राज्यस्य समृद्धसांस्कृतिकपरम्पराणां प्रतिनिधित्वं कर्तुं अवसरं ददति। मुख्यमन्त्री प्रवासी भारतीयानां कृते राज्यस्य विकासे योगदानं दातुं आग्रहं कृतवान्।

सः अवदत् यत् राज्यसर्वकारेण २०२६ तमवर्षपर्यन्तं हिमाचलप्रदेशं हरित ऊर्जाराज्यं कर्तुं लक्ष्यं निर्धारितम् अस्ति तथा च प्रवासिनः अस्मिन् क्षेत्रे निवेशं कर्तुं आमन्त्रिताः। अस्मिन् उपक्रमे भवतः सहभागिता हिमाचलस्य भविष्यं उज्ज्वलं कर्तुं तस्य आर्थिकविकासं च प्रोत्साहयितुं महत्त्वपूर्णं सोपानं सिद्धं भविष्यति। अस्मिन् अवसरे हिमाचलीनाटीनृत्यम्, रामलीला, पर्वतीयसंस्कृतेः आधारेण लोकनृत्यस्य च मञ्चनं प्रस्तुतम् । अतिथिभ्यः हिमाचली धाम इत्यादयः पर्वतीयव्यञ्जनानि प्रदत्तानि आसन्। कनाडादेशस्य सांसद: चन्द्र-आर्यः स्वसम्बोधने सांस्कृतिकधरोहराणां महत्त्वं प्रकाशयन् विजयदशमीमहोत्सवः विभिन्नसमुदायानाम् एकीकरणं करोति, एकतायाः सन्देशं च ददाति इति अवदत्।

You Might Also Like

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

स्वामीविवेकानन्दः : व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP NEWS, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article National & International News :  अल्जीरिया-मॉरिटानिया-मलावी-इत्येतेषां यात्रायाम् अस्ति भारतस्य राष्ट्रपतिः
Next Article राज्यकरभागस्य १४७९ कोटिरूप्यकाणि दत्त्वा प्रधानमंत्री हिमाचलस्य सहायतां कृतवान् – जयरामठाकुरः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?