By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: संस्कृतशिक्षकैः धर्मशालातः कृतः संस्कृतसप्ताहस्य शुभारम्भः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > संस्कृतशिक्षकैः धर्मशालातः कृतः संस्कृतसप्ताहस्य शुभारम्भः
राष्ट्रीयवार्ताःसंस्कृतगतिविधयःहिमाचलवार्ता

संस्कृतशिक्षकैः धर्मशालातः कृतः संस्कृतसप्ताहस्य शुभारम्भः

डॉ.अमनदीप शर्मा
Last updated: 2024/08/17 at 7:20 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
3 Min Read
SHARE

संस्कृतशिक्षकैः धर्मशालातः कृतः संस्कृतसप्ताहस्य शुभारम्भः

संस्कृतं वैदिकभाषा अस्ति, तस्मात् एव सद्विचाराः आगच्छन्ति- हरीशगज्जू: अतिरिक्तजिलादण्डाधिकारिः कांगड़ा

16 अगस्ततः 22 पर्यन्तं हिमाचलस्य सर्वेषु विद्यालयेषु संस्कृतस्य कार्यक्रमाः भविष्यन्ति,- डॉ.मनोजशैलः

हिमसंस्कृतवार्ताः, 17 अगस्त। हिमाचलप्रदेशराजकीयसंस्कृतशिक्षकपरिषदः भाषासंस्कृतिविभागः कांगड़ा इत्येतयोः सौजन्येन शुक्रवासरे शासकीय वरिष्ठमाध्यमिकविद्यालये (छात्राः)धर्मशालायां संस्कृतसप्ताहस्य शुभारम्भः संस्कृतशोभायात्रया जातः। अस्यां शोभायात्राणां राजकीयउच्चविद्यालयः भनाला, राजकीयउच्चविद्यालयः भित्तलू, राजकीयमाध्यमिकविद्यालयः भरमात, राजकीयविद्यालयः सुधेड़, राजकीयविद्यालयः कण्डबगियाड़ा, चामुण्डासंस्कृतमहाविद्यालयः इत्यादीनां विद्यालयानां छात्रैः सहितं केन्द्रीयविश्वविद्यालयस्य संस्कृतविभागस्य छात्रैः शिक्षकैश्च भागः ग्रहीतः। कार्यक्रमस्य शुभारम्भे जिलादण्डाधिकारिः कांगड़ा हरीशगज्जूः मुख्यातिथिः रूपेण उपस्थितः अभवत्।चामुण्डात्रिगर्तसंस्कृतमहाविद्यालयस्य छात्रैः वैदिकमंगलाचारणेन अतिथीनां स्वागतं कृतम्, अस्मिन्नावसरे अतिथिभिः दीपप्रज्ज्वलनपुरस्सरं भगवत्याः सरस्वत्याः पूजनं कृतम्।
मुख्यातिथिः कार्यक्रमस्य अध्यक्षता केन्द्रीयविश्वविद्यालयस्य संस्कृतविभागाध्येण प्रो.योगन्द्रवर्येण कृता, डॉ.वृहस्पतिमिश्रवर्यः कार्यक्रमे मुख्यवक्तारूपेण चोपस्थितः जातः। कार्यक्रमस्य विषये सूचयन् हिमाचलराजकीयसंस्कृतशिक्षकपरिषदः प्रदेशाध्यक्षः डॉ.मनोजशैलः अवदत् यत् 16 अगस्ततः 22 पर्यन्तं हिमाचलस्य सर्वेषु विद्यालयेषु संस्कृतस्य कार्यक्रमाः भविष्यन्ति, यत्र शिक्षणसंस्थासु संस्कृतशिक्षकस्य सहयोगेन छात्राः संस्कृते चित्राणि, भाषणप्रतियोगिता, श्लोकपाठः, लेखनकार्यं, संस्कृतप्रदर्शनी चेत्यादिषु कार्यक्रमेषु भागग्रहणं करिष्यन्ति। कार्यक्रमे मुख्यातिथिः संस्कृतेन स्वभाषणस्य आरम्भं कृत्वा अवदत् यत् संस्कृतं वैदिकभाषा अस्ति, तस्मात् एव सद्विचाराः आगच्छन्ति, विद्यालयेषु अपि तस्य प्रचारः करणीयः इति। सः अवदत् यत् संस्कृतं जीवने महत्त्वपूर्णा सरणिः, ज्ञानपरम्परायाः निधिः च अस्ति। कार्यक्रमस्य अध्यक्षः आचार्ययोगेन्द्रकुमारः हिमाचलप्रदेशस्य केन्द्रीयविश्वविद्यालयस्य धर्मशालायाः संस्कृतप्राकृत-पालीविभागस्य प्रमुखः अवदत् यत् अद्य संस्कृतस्य विज्ञानस्य च समन्वयस्य आवश्यकता वर्तते, तदा एव संस्कृतं मुख्यधारायां पुनः आगमिष्यति।
मुख्यवक्ता आचार्यबृहस्पतिमिश्रः उक्तवान् यत् संस्कृतं व्यवहारभाषा भवेत् तदा एव विकसितभारतस्य अवधारणा सम्भवति। परिषदः प्रदेशाध्यक्षः डॉ.मनोजशैलः अवदत् यत् सर्वकारेण संस्कृतशिक्षकाणां कृते टीजीटी पदं दत्तं किन्तु ते अद्यापि पद्दोन्नतिः नियमस्य अवसरात् वंचिताः सन्ति। एतादृशौ परिस्थितौ राज्यसर्वकारेण शास्त्रीशिक्षकाणां नियुक्तिनियमेषु परिवर्तनं करणीयः,येन भविष्ये कार्यरताः संस्कृतशिक्षकाः उत्थानं पदोन्नतिं च प्राप्नुयुः। एतेन सह वर्षाणां यावत् वृत्ते प्रतीक्षां कुर्वन्तः वृत्तिहीनाः शास्त्री उपाधिधारकाः अन्यायस्य सम्मुखीकरणं न कुर्युः। विषयविशेषज्ञानां समितिं निर्माय नियुक्तिः-पदोन्नति-नियमाः कार्यान्विताः भवेयुः। कार्यक्रमे छात्रैः सांस्कृतिकाः कार्यक्रमाः प्रस्तुताः।

कार्यक्रमस्यान्ते प्रतिभागिनः छात्राः शिक्षकाश्च प्रमाणपत्रपुरस्सरं स्मृतिचिह्नेन सम्मानिताः।

हिमाचलप्रदेशसंस्कृतशिक्षकपरिषदः महासचिवः अमित शर्मा इत्यनेन कार्यक्रमे सहकार्यं कृत्वा जिलाभाषासंस्कृतिविभागः कांगडा इत्यस्य जिलाभाषाधिकारिणः अमितगुलेरी वर्यस्य धन्यवादः ज्ञापितः, तस्मिन्नेव क्रमे धर्मशालाशासकीयबालवरिष्ठमाध्यमिकविद्यालयस्य प्राचार्यस्य यशपालमनकोटियावर्यस्य मीडियाबन्धुजानानाञ्च धन्यवादमपि कृतम्। कार्यक्रमसंयोजकः कांगड़ाजनपदस्य अध्यक्षः डॉ.अमनदीपशर्मा सर्वेषां कांगड़ाजनपदस्य सहयोगीशिक्षकाणां धन्यवादं कृतवान, तेनोक्तं यत् सर्वैः शिक्षकैः मिलित्वा न्यूनैव काले कार्यक्रमस्य सफलायोजना कृता।
संस्कृतभारतीपक्षतः संस्कृतविज्ञानप्रदर्शन्याः प्रस्तुतीकरणं विस्तारकस्य सुनीलकुमारस्य निर्देशने अभवत्। कार्यक्रमे विशेषतया परिषद् पक्षतः महासचिवः पुनीतशर्मा, कोषाध्यक्षः अमरसिंहः, सम्पर्कप्रमुखः नितिशर्मा, आईटी.सैलप्रमुखः विजयः उपाध्यक्षः मदनशर्मा, जिलामीडियाप्रमुखः कुन्दनशर्मा, सतीवशर्मा, अनुजशर्मा, राजकुमारः, हमीरपुरस्य अध्यक्षः नरेशमलोटिया, मण्डीजनपदस्य अध्यक्षः लोकपालः, देवेन्द्रकुमारः, संजीवशर्मा, अभिषेकशास्त्री, रविशास्त्री इत्यादयः जनाः उपस्थिताः आसन् तत्रैव केन्द्रीयविश्वविद्यालयतः डॉ.रणजीतकुमारः डॉ.अर्चना, डॉ. नरेन्द्रपाण्डेयः, डॉ.कुलदीपः, डॉ.विवेकशर्मा उपस्थिता अभवन्।

You Might Also Like

*कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये सर्वदर्शनविभागे आचार्यपदे उमामहेश्वरी बी नियुक्ता* 

प्रधानमन्त्री नरेन्द्रमोदी जर्मन जांसलर फ्रेडरिक मर्ज च गुजरात-राज्ये गांधीनगरे एकं उच्चस्तरीयं सम्मेलनं सहभागितवन्तौ

पंचायतनिर्वाचने उच्चन्यायालयस्य निर्णयस्य अध्ययनं कुर्वन्नस्ति सर्वकार: – मुख्यमंत्री सुक्खुः

HP Govt Administrative Transfers – हिमाचले प्रशासनिकं परिवर्तनं गंधर्वराठौर: उपायुक्त: हमीरपुरं नियुक्त:

Mandi Bus Accident – मण्ड्यां निजीबसयानस्य दुर्घटना एका महिला मृता, चत्वारः यात्रिकाः घातिताः। Koldam Accident News- कोलबन्धजलाशये कारयानं पतितम्, द्वौ युवकौ मृतौ

TAGGED: केन्द्रीय विश्वविद्यालय धर्मशाला, धर्मशाला, संस्कृत शिक्षक परिषद् हिमाचल, संस्कृतभारती, संस्कृतसप्ताह, हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article HP School Sports News : उच्चाशंकायुतेषु जनपदेषु बृहत् निर्णयः, काङ्गड़ायां ऊनायां च प्रतिबन्धः अपि स्थापितः
Next Article लखनऊस्थविविधविद्यालयानां संयुक्ततत्त्वावधानेन संस्कृतदिवससमारोहः अनुष्ठितः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?