By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: International Minjar Fair Chamba: चम्बा राज्यस्य प्रथमं हरितहाइड्रोजन आधारितं गतिशीलतास्थानकं प्राप्स्यति- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > International Minjar Fair Chamba: चम्बा राज्यस्य प्रथमं हरितहाइड्रोजन आधारितं गतिशीलतास्थानकं प्राप्स्यति- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
हिमाचलवार्ता

International Minjar Fair Chamba: चम्बा राज्यस्य प्रथमं हरितहाइड्रोजन आधारितं गतिशीलतास्थानकं प्राप्स्यति- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

डॉ मनोज शैल
Last updated: 2024/08/06 at 9:22 AM
डॉ मनोज शैल
Share
3 Min Read
SHARE

International Minjar Fair Chamba: चम्बा राज्यस्य प्रथमं हरितहाइड्रोजन आधारितं गतिशीलतास्थानकं प्राप्स्यति- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

हिमसंस्कृतवार्ता: – शिमला। 

 

मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः सोमवासरे शिमलातः आभासीयमाध्यमेन अन्ताराष्ट्रीय- मिञ्जरमेला- समापनसमारोहस्य अध्यक्षतां कृतवान्। अस्मिन् अवसरे सः १२०.४४ कोटिरूप्यकाणां विविधविकासपरियोजनानाम् उद्घाटनं, आधारशिला: च अस्थापयत्। अस्मिन् अवसरे विधानसभाध्यक्षः कुलदीपसिंह पठानिया अपि मुख्यमन्त्रिणा सह आसीत्। मुख्यमन्त्री प्रतिकूलवातावरणस्य कारणात् मिञ्जरमेलासमापनसमारोहे उपस्थातुं न शक्तवान् इति उक्तवान्। मेलापकस्य सफलतया आयोजनार्थं जनानां, मण्डलप्रशासनस्य च प्रयत्नस्य प्रशंसाम् अकरोत्। प्रायः १४ कोटिरूप्यकाणां व्ययेन निर्माणाधीनस्य चम्बानगरे हरितहाइड्रोजन आधारितं गतिशीलतास्थानकस्य (ग्रीन- हाइड्रोजन- मोबिलिटी स्टेशन) प्रायोगिक- परियोजनायाः आधारशिला  स्थापयित्वा मुख्यमन्त्री उक्तवान् यत् चम्बा हिमाचलप्रदेशस्य प्रथमं मण्डलं भवितुम् अर्हति यत् एतादृशी परियोजना प्राप्नोति। एषा महत्त्वपूर्णा हरितपरिकल्पना वर्तमानराज्यसर्वकारस्य नेतृत्वे राष्ट्रियजलविद्युत्निगमेन (NHPC) निर्मितं भविष्यति, अगस्त २०२५ यावत् च सम्पन्नं भविष्यति। मुख्यमन्त्री उक्तवान् यत् एषा परियोजना एनएचपीसी-संस्थायाः चमेरा- ३- विद्युत्केन्द्रस्य समीपे स्थास्यति, ऊर्जा- आवश्यकतानां पूर्तये ३०० किलोवाट-भारस्य ग्रिडसम्बद्धं सौरविद्युत्संस्थानं च अन्तर्भवति।  संयंत्रे प्रतिदिनं २० किलोग्रामं हरितहाइड्रोजनस्य उत्पादनं भविष्यति, यत् हरितहाइड्रोजनबसयानस्य ईंधनार्थं ४५० बारं अथवा अधिकप्रभावे संगृहीतं भविष्यति। एतदतिरिक्तं बसयानानां ईंधनपूरणस्य सुविधायै हाइड्रोजनवितरक-युनिट अपि स्थापिता भविष्यति। सः अवदत् यत् एषा अपूर्वपरियोजना क्षेत्रे प्रथमवारं हरितहाइड्रोजनबसयानानां प्रवर्तनं करिष्यति, यस्य उद्देश्यं भारतस्य दूरस्थेषु क्षेत्रेषु हरित- हाइड्रोजनविषये जागरूकतां वर्धयितुं वर्तते। मुख्यमन्त्री उक्तवान् यत् एनएचपीसी इत्यनेन चम्बा-जनपदस्य हरित- हाइड्रोजन- बस- क्रयणस्य निविदाप्रक्रिया आरब्धा एव, यत् प्रायोगिकपरियोजनायाः कार्यानुष्ठानानन्तरं तस्य उपलब्धता सुनिश्चिता भवति। चम्बामण्डले अस्याः परियोजनायाः आरम्भेण राजस्वं वर्धते, रोजगारस्य अवसराः च सृज्यन्ते, येन क्षेत्रस्य आर्थिकविकासे योगदानं भविष्यति इति अपेक्षा अस्ति।  वर्तमानराज्यसर्वकारस्य लक्ष्यं हिमाचलप्रदेशं ३१ मार्च २०२६ पर्यन्तं हरित ऊर्जाराज्ये परिणतुं वर्तते, यत्र याचनापूर्तये हरित ऊर्जायाः सदुपयोगं कर्तुं केन्द्रितम् अस्ति। मुख्यमन्त्री उक्तवान् यत् राज्यसर्वकारः अपि अस्याः दृष्टेः अनुरूपं हरित-उद्योगस्य प्रचारं कुर्वन् अस्ति। अस्याः उल्लेखनीयाया: हरितहाइड्रोजन- परियोजनायाः अतिरिक्तं मुख्यमंत्री सुक्खुः अन्येषां विविधानां विकासपरियोजनानां उद्घाटनम्, आधारशिला: च अकरोत्। सः ३५.३८ कोटिरूप्यकाणां व्ययेन निर्माणाधीनस्य चम्बानगरे लघुसचिवालयस्य भवनस्य, ११.१२ कोटिरूप्यकाणां व्ययेन निर्माणाधीनस्य पुलिसग्राउण्ड चम्बा इत्यत्र इण्डोर- क्रीडाङ्गणस्य च शिलान्यासं कृतवान्। ५ कोटिरूप्यकाणां व्ययेन निर्माणाधीनस्य चम्बानगरे पार्किङ्ग-सह-वाणिज्यिकसङ्कुलस्य निर्माणकार्यमपि प्रारब्धवान्, चम्बापार्किङ्गस्य निर्माणं १८ मासाभ्यन्तरे सम्पन्नं भविष्यति इति च अवदत्। सरुक्षेत्रस्य जिला- शैक्षिकप्रशिक्षणसंस्थानस्य (DIET) बहु- उद्देश्यभवनस्य पुस्तकालयस्य च शिलान्यासः कृतः यस्य निर्माणं ४.६४ कोटिरूप्यकाणां व्ययेन भविष्यति। मुख्यमन्त्री पं. जवाहरलालनेहरू मेडिकल कॉलेज एण्ड हॉस्पिटल (JLNMC&H), चम्बा इत्यत्र नवनिर्मितस्य ट्रॉमा केयर केन्द्रस्य अपि उद्घाटनं कृतवान् यस्य व्ययः १०.३८ कोटिरूप्यकाणां अभवत्। अस्मिन् एव चिकित्सालये विद्युत् उपकेन्द्रस्य अपि उद्घाटनं कृतम्, यस्य व्ययः २०.५८ कोटिरूप्यकाणां वर्तते। एतदतिरिक्तं ११.५७ कोटिरूप्यकाणां व्ययेन राजकीय-उपाधिमहाविद्यालय चम्बा इत्यत्र निर्मितस्य पीजी-खण्डस्य, तीसा- क्षेत्रस्यस्य भगीगढे १.६८ कोटिरूप्यकाणां व्ययेन निर्मितस्य प्राथमिकस्वास्थ्यकेन्द्रस्य (पीएचसी) च  भंजरारु (तीसा) इत्यत्र ६.११ कोटिरूप्यकाणां व्ययेन निर्मितस्य नूतनस्य बसस्थानकस्य च उद्घाटनं कृतवान्। सः अवदत् यत् चम्बा हेलीपोर्टस्य शिलान्यासः शीघ्रमेव भविष्यति तथा च क्षेत्रे विमानयानानां कृते अनुदानं प्रदत्तं भविष्यति तदतिरिक्तं चम्बा-चुवाड़ी-जोत कन्दराया: निर्माणार्थं परामर्शदातृसेवानां कृते ४ कोटिरूप्यकाणि विनियोजितानि सन्ति। सुक्खुः चम्बामण्डलस्य सर्वा: विकासात्मका: आवश्यकता: चरणबद्धरूपेण पूरयितुम् आश्वासनं दत्तवान्। सः अवदत् यत् चम्बा चिकित्सा- महाविद्यालयाय १६५ कोटिरूप्यकाणि विनियोजितानि सन्ति, तस्य भवनस्य निर्माणं शीघ्रमेव सम्पन्नं भविष्यति। वैद्यस्य, पैरामेडिकलकर्मचारिणां च सर्वाणि पदानि पूरयिष्यन्ते।

 

You Might Also Like

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, HP NEWS, International Minjar Fair Chamba, दिव्य हिमाचल समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Next Article HP Weather: जोबरङ्गग्रामस्य फाण्डीनालिकायां जलप्रलयः, अनेकेषु भागेषु पञ्चदिनानि यावत् प्रचण्डवृष्टेः पीत- नारङ्गवर्णीया सचेतना
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?