By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP Cloudburst Search Operation-  समेजे चतुर्थदिने अपि प्राचलत् अन्वेषणकार्यक्रमः, राजबने अन्वेषणकार्यक्रमस्य चतुर्थे दिने एकस्याः महिलायाः बालिकायाः च मृतशरीरे प्राप्ते
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > HP Cloudburst Search Operation-  समेजे चतुर्थदिने अपि प्राचलत् अन्वेषणकार्यक्रमः, राजबने अन्वेषणकार्यक्रमस्य चतुर्थे दिने एकस्याः महिलायाः बालिकायाः च मृतशरीरे प्राप्ते
हिमाचलवार्ता

HP Cloudburst Search Operation-  समेजे चतुर्थदिने अपि प्राचलत् अन्वेषणकार्यक्रमः, राजबने अन्वेषणकार्यक्रमस्य चतुर्थे दिने एकस्याः महिलायाः बालिकायाः च मृतशरीरे प्राप्ते

डॉ मनोज शैल
Last updated: 2024/08/04 at 10:06 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

HP Cloudburst Search Operation –  समेजे चतुर्थदिने अपि प्राचलत् अन्वेषणकार्यक्रमः, अद्यापि ३३ जनाः अदृश्याः सन्ति

हिमसंस्कृतवार्ता: – शिमला ।

हिमाचलप्रदेशस्य रामपुरस्य समेजे मेघविस्फोटस्य घटनायाः अनन्तरं ३३  लुप्तान् जनान् अन्वेष्टुम् अभियानं चतुर्थदिने अपि प्राचलत्। अन्वेषणकार्यक्रमस्य तृतीयदिने अपि लुप्तानां जनानां कोऽपि सूचकः न प्राप्तः। एतादृशे सति अधुना अन्वेषणकार्यक्रमे लाइवडिटेक्टर- उपकरणस्य, स्निफर-शुनकस्य च साहाय्यं गृह्यते। राष्ट्रीय- आपदुद्धारकदलं (एनडीआरएफ), राज्य-आपदुद्धारकदलं (एसडीआरएफ,) पुलिस:, आईटीबीपी, गृहरक्षककर्मचारिणः च प्रायः ८५ किलोमीटरक्षेत्रे अन्वेषणकार्यक्रमे संलग्नाः सन्ति। गृहरक्षाया: समादेशक: आरपी नेपटा इत्यनेन उक्तं यत् गतसायं समीक्षासमागमः अभवत्। यस्मिन् सर्वेभ्यः उद्धारदलेभ्यः भिन्नानि कार्याणि दत्तानि सन्ति। सः अवदत् यत् गतदिवसे नदीं तर्तुं सेतुनिर्माणार्थं किञ्चित् समयः अभवत्, परन्तु अद्य बेलीसेतुः निर्मीयते। अन्वेषणकार्यक्रमस्य चतुर्थे दिने अधिकाधिकशरीराणां पुनः प्राप्तेः सम्भावना वर्तते ।

 

HP Cloudburst Search Operation : मण्डी जनपदस्य राजबने अन्वेषणकार्यक्रमस्य चतुर्थे दिने एकस्याः महिलायाः बालिकायाः ​​च मृतशरीरे प्राप्ते

हिमसंस्कृतवार्ता: – लघ्वीकाशी मण्डी।

मण्डी-जनपदस्य पधर-उपमण्डलस्य राजबनग्रामे क्रियमाणस्य अन्वेषणकार्यक्रमस्य चतुर्थे दिने राष्ट्रीय-आपदुद्धारकदलं (एनडीआरएफ), राज्य-आपदुद्धारकदलं (एसडीआरएफ,) इत्येते द्वौ अपि मृतशरीरौ अन्वेष्टुं सफलौ अभवताम्। उपायुक्तः मण्डी अपूर्व देवगनः अवदत् यत् राजबने अगस्तमासस्य प्रथमदिनाङ्के घटितायां दुर्घटनायां अधुना यावत् ८ लुप्तानां जनानां मृतशरीराणि प्राप्तानि सन्ति। दुर्घटनासमये १० जनाः अदृश्याः, एकः गम्भीररूपेण घातितः च आसीत्। लुप्तानां १० जनानां मध्ये ८ जनानां शवा: प्राप्ता: सन्ति। रविवासरे मृतद्वयस्य मानवी (३ मासाः) सोनम (२३ वर्षाणि) च इत्येतयो: शवौ प्राप्तौ। उपायुक्तः मण्डी अपूर्वदेवगनः अवदत् यत् अधुना केवलं खुदड्डीदेवी, हरदेवः च अदृश्यौ स्त:। तान् अन्वेष्टुं प्रयत्नाः क्रियन्ते। तेषां अन्वेषणपर्यन्तं अन्वेषणकार्यक्रमः निरन्तरं भविष्यति। एनडीआरएफ इत्यनेन लुप्तानां जनानां अन्वेषणार्थं स्निफर-कुक्कुराः नियोजिताः। गुरुशिलासु लुप्तानां जनानां अवरोधस्य सम्भावनायाः दृष्ट्या आकस्मिकजलप्रलये आगताः बृहत्शिलाः विस्फोटद्वारा भग्नाः क्रियन्ते।

सः अवदत् यत् जिलाराजस्वाधिकारी हरीशशर्मा इत्यस्य उपस्थितौ एनडीआरएफ, एसडीआरएफ, पुलिस, गृहरक्षकाणां सहाय्येन चतुर्थदिनं यावत् अन्वेषणकार्यक्रमः प्रचलति। कार्यवाहक: एसडीएम व तहसीलदार: पधर डॉ भावनावर्मा दुर्घटनादिवसाद् एव तत्र उपस्थिता अस्ति। सा दुर्घटनातः आरभ्य उद्धार-आश्रय-कार्यक्रमयोः निरीक्षणं कुर्वती अस्ति। सः अवदत् यत् प्रभावितपरिवारानाम् सहायता निरन्तरं वर्तते। अद्यत्वे अपि तेषां कृते खाद्यान्नसामग्रय: प्रेषिता: सन्ति।

You Might Also Like

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

अनूपसिंहजसयालः पुस्तकालयविज्ञानविषये विद्यावारिधेः (पीएच.डी) उपाध्याः अलङ्कृतः

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, HP Cloud Brust, HP NEWS, Search Operation, दिव्य हिमाचल समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Kangra News : पशुचिकित्साक्षेत्रे अविश्वसनीययोगदानाय पुणेनगरे पुरस्कारं प्राप्तवती पालमपुरस्य पुत्री
Next Article Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?