By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: National & International News :  PM Modi Tour : प्रधानमन्त्री श्रीनरेन्द्रमोदी रूस-आस्ट्रिया-देशयोः च त्रिदिवसीय आधिकारिक- यात्रायाः प्रथमे चरणे मॉस्कोनगरं प्राप्तवान्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > अन्ताराष्ट्रीयवार्ताः > National & International News :  PM Modi Tour : प्रधानमन्त्री श्रीनरेन्द्रमोदी रूस-आस्ट्रिया-देशयोः च त्रिदिवसीय आधिकारिक- यात्रायाः प्रथमे चरणे मॉस्कोनगरं प्राप्तवान्
अन्ताराष्ट्रीयवार्ताःराष्ट्रीयवार्ताः

National & International News :  PM Modi Tour : प्रधानमन्त्री श्रीनरेन्द्रमोदी रूस-आस्ट्रिया-देशयोः च त्रिदिवसीय आधिकारिक- यात्रायाः प्रथमे चरणे मॉस्कोनगरं प्राप्तवान्

डॉ मनोज शैल
Last updated: 2024/07/08 at 11:26 PM
डॉ मनोज शैल
Share
5 Min Read
SHARE

National & International News :

PM Modi Tour : प्रधानमन्त्री श्रीनरेन्द्रमोदी रूस-आस्ट्रिया-देशयोः च त्रिदिवसीय आधिकारिक- यात्रायाः प्रथमे चरणे मॉस्कोनगरं प्राप्तवान्।

हिमसंस्कृतवार्ता:।

मोदिनः रूसाँस्ट्रिया यात्रा प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्य रूस-आस्ट्रिया-देशयोः च त्रिदिवसीय आधिकारिक-यात्रायाः प्रथमे चरणे मॉस्कोनगरं प्राप्तवान्। तत्र प्राप्तेः अनन्तरं मॉस्कोविमानपत्तने श्रीमोदिनः भव्यं राजकीयं स्वागतं जातम्। अस्मिन् अवसरे रूस-देशस्य उप-प्रधानमन्त्रिणा डेनिस मन्टूरोव इत्यमुना तत्रैव विमानपत्तने उपस्थाय श्रीमोदिनः अभ्यागमनं सत्कृतम्। रूस देशम्प्रति प्रस्थानात् पूर्व प्रधानमन्त्रिणा श्रीमोदिना एकस्मिन् सामाजिक सञ्जालीये सन्देशे लिखितं यत् यात्रेयं रूसदेशेन ऑस्ट्रियादेशेन च साकं सम्बन्धानां प्रगाढीकरणे एकः समुत्कृष्टः अवसरः भविष्यति। एताभ्यां देशाभ्यां साकं भारतस्य मित्रता समयस्य निकषे सुदृढं जातमस्ति। श्रीमोदी उक्तवान् यत् सः एतयोः देशयोः निवसद्भिः भारतीय समुदायस्य जनैः समम् अपि सम्भाषणार्थं पर्युत्सुकीभवति। रूसदेशे प्रधानमन्त्री श्रीमोदी द्वाविंशे भारत-रूस- वार्षिकशिखर सम्मेलने भागं भजिष्यति। अपरत्र च असी ऑस्ट्रियादेशस्य प्रथमयात्रायां गमिष्यति। अस्माकं वार्ताहरो वर्णयति यत् भारत-रूस-सम्बन्धानां विषये प्रधानमन्त्री प्रावोचत् यत् तेन राष्ट्रपतिः ब्लादिमिर पुतिनेन साकं द्वैपाक्षिक-सहयोगस्य सर्वे अपि पक्षाः समीक्ष्यन्ते, सहैव श्रीमोदी विभिन्न क्षेत्रीयेषु वैश्विकेषु च विषयेषु स्वीयं दृष्टिकोणमपि विनिमयीकरिष्यति।

 

झारखण्डविधानसभायाम्  हेमन्त-सोरेन-सर्वकारेण विश्वासमतम् अधिगतम्

हिमसंस्कृतवार्ता:।

झारखण्ड-विधानसभायाम् अद्य हेमन्त-सोरेन-सर्वकारेण विश्वासमतम् अधिगतम्। झारखण्ड-मुक्तिमोर्चायाः नेतृत्व-युतस्य संयुतेः पञ्चचत्वारिंशद् विधायकैः विश्वास-प्रस्तावस्य पक्षे मतदानम् आचरितम्। अतः पूर्व मुख्यमन्त्री हेमन्तः सोरेनः राज्यविधानसभायां विश्वास- प्रस्तावं प्रस्तुतवान्। यस्मिन् भूरि चर्चाः सञ्जाताः। मतविभाजनस्य अवसरे विपक्षेण भृशं कोलाहलः समाचरितः। सोरेन-सर्वकारं विरुध्य घोषोच्चारणं कृतम्। विश्वासमतस्य अनन्तरं सदनम् अनिश्चित-कालावधये स्थगितं जातम्। अष्टचत्वारिंशद्-वर्षीयः सोरेनः कथित-भूमि- प्रवञ्चनायां अवैध-धनाहरण-प्रसंगे प्रत्याभूति-प्राप्तेरनन्तरं एक-सप्ताहाभ्यन्तरे जुलाई- चतुर्थ्यां मुख्यमन्त्रित्वेन शपथ-वचनं स्वीकृतवान् आसीत्। अत्रान्तरे मुख्यमन्त्रिणा मन्त्रिमण्डलस्य विस्तारिकरणप्रसङ्गे द्वौ कांग्रेसदलीयौ नेतारौ एकश्च झारखण्ड- मुक्तिमोर्चायाः नेता मन्त्रिमण्डले समावेशिता सूच्यन्ते इति।

 

मुम्बय्याः विविधेषु भागेषु अत्यधिकवृष्ट्याः कारणेन सामान्यं जनजीवनं प्रभावितम्

हिमसंस्कृतवार्ता:।

मुम्बय्याः विविधेषु भागेषु अद्य त्रिशतं मिलीमीटरमितायाः अत्यधिकवृष्ठ्याः कारणेन सामान्यं जनजीवनं प्रभावितं जातम्। अतिवृष्ट्या मुम्बय्याः अपि च उपनगराणां निम्नक्षेत्रेषु जलं एकत्रितम् अभवत्। नगरस्य जीवनरेखाः उपनगरीय रेलसेवाः अपि सङ्कटग्रस्ताः सन्ति। वडाला-मानखुर्दयोः मध्ये हार्बर-पट्टिकायां रेलयानानि अस्थायिरूपेण स्थगितानि। एतदतिरिच्य बसयानसेवामार्गाः परिवर्तिताः। विद्यालयेषु महाविद्यालयेषु च प्रथमसत्राय अवकाशः अपि उद्घोषितः। मुम्बई-विश्व-विद्यालयस्य कतिपय-परीक्षाः स्थगिताः। अत्रान्तरे भारतुर्त-विज्ञान-विभागेन-मुम्बईनगयाँ महतीं वृष्टि समीक्ष्य नारड्रङ्गसञ्चेतनापि प्रख्यापिता।

 

पूर्वोत्तरीय-भागेषु धारासार-वृष्टेः पूर्वानुमानम् – ऋतुविज्ञानविभाग:

हिमसंस्कृतवार्ता:।

अरुणाचलप्रदेश-नागालैण्ड-राज्ये समेत्य देशस्य पूर्वोत्तरीय-भागेषु धारासार-वृष्टेः पूर्वानुमानः कृतः ऋतु-विज्ञान-विभागेन। आकाशवाण्या सह सम्भाषमाणः ऋतु-विज्ञान- विभागस्य वरिष्ठः वैज्ञानिकाः सोमासेनरॉयः विज्ञापितवती यत् अद्य मध्यभारतस्य अनेकानि क्षेत्राणि अत्यधिकवृष्टेः अवलोकनार्थं साक्षिणो भविष्यन्ति। अपि च, पूर्वोत्तरभारतेऽपि महतीवृष्टिः भविष्यत्येव।

 

राहुलगांधी राज्यस्य जलप्लावनेन प्रभावितैः जनैः सह मेलनं कृतवान्

हिमसंस्कृतवार्ता:।

नेताप्रतिपक्षः राहुलगांधी स्वीयैकदिवसीय यात्रान्तर्गतं मणिपुरं सम्प्राप्तवान् असौ सोमवासले प्रातः असमस्य कछारक्षेत्रं सम्प्राप्य राज्यस्य जलप्लावनेन प्रभावितैः जनैः सह मेलनं कृतवान्। तदनु असौ मणिपुरस्य जिरीबामजनपदं प्रति अगच्छत् तत्रासौ जनपदे हिंसया प्रभावितैः परिवारैः सह वार्ता कृतवान्। इम्फालस्य यात्रानन्तरं श्रीगांधी चुराचांदपुरं प्रति गतवान्। इम्फालस्य प्रस्थानात् पूर्वं कांग्रेसनेता एषः मणिपुरस्य राज्यपालेन अनुसुइया उइके इत्यनया सहापि मेलनं करिष्यति।

 

सर्वोच्च न्यायालयः-नीट परीक्षा-सम्बद्धानां नैकासां याचिकानां वादश्रवणं कृतवान् 

हिमसंस्कृतवार्ता:।

शीर्ष-न्यायालयः नीट परीक्षा-सम्बद्धानां नैकासां याचिकानां वादश्रवणं कुर्वन्नस्ति। अत्रावसरे न्यायालयेन प्रोक्तं यत् परीक्षायाः निरस्तीकरणम् अन्तिमोपायः स्यात् किन्तु पुनः परीक्षायाः आदेशात् प्राक् प्रश्नपत्राणामुद्घाटनस्य उत्सज्ञानं नूनं कर्तव्यम् । अस्मिन् वादश्रवणे ऐषमो नीट-परीक्षायां कथितानाम् अनियमिततानां, कदाचाराणाञ्च आरोप-विषयिण्यः, पुनः परीक्षायोजनार्थं निर्देश-प्रदान-विषयिण्यश्च याचिकाः अपि समाविष्टाः आसन्। मुख्य- न्यायाधीशस्य डी.वाई. चन्द्रचूड़स्य न्यायमूर्तेः जे.बी. पारदीवाला वर्यस्य, न्यायमूर्तेः मनोज मिश्रस्य च न्याय-पीठेन आहत्य अष्टत्रिंशद् याचिकानां वादश्रवणं विधीयते। पीठमिदम् सर्वादौ तासां याचिकानां श्रवणं कृतवत् यासु याचिकासु परीक्षाणां कदाचारस्य कारणेन पुनः परीक्षायाः आयोजनं याचितम् आसीत्। एतदनन्तरमेव एन.टी.ए. इति राष्ट्रिय- परीक्षाभिकरणस्य केन्द्रस्य च वादाः श्रोष्यन्ते।

 

मध्यप्रदेश-मन्त्रिमण्डल विस्तारः  रामनिवास रावताय राज्यपालेन मन्त्रित्वेन शपथ-वचनं कारितम्

हिमसंस्कृतवार्ता:।

मध्यप्रदेशे सोमवासरे राज्य-मन्त्रिमण्डलस्य संक्षिप्त-विस्तारे राज्यपालेन ‘मंगू भाई पटेल’ वर्येण रामनिवास रावताय मन्त्रिमण्डलीय-मन्त्रित्वेन शपथ-वचनं कारितम्। सम्प्रति राज्य- मन्त्रिपरिषदि संहत्य एकत्रिंशन्मिताः मन्त्रिणः सञ्जाताः। अस्मिन् अवसरे मुख्यमन्त्री डॉ. मोहनः यादवः, अन्ये च मन्त्रिमण्डलस्य सदस्याः उपस्थिताः आसन्। श्रीरावतः येन अद्य नूतन- मन्त्रित्वेन पद-गोपनीयतायाः शपथवचनं स्वीकृतं, सः चम्बल-क्षेत्रस्य वरिष्ठो नेता वर्तते। असौ विजयपुर-आसनात् षट्‌कृत्वः विधायकत्वेन प्रचितः अस्ति। अत्रेदमपि धेयमस्ति यत् श्रीरावतः कतिपय-मास-पूर्वमेव कांग्रेस-दलात् त्यागपत्रं प्रदाय भाजपादले समाविष्टः नासीत्।

 

कश्मीर-स्वास्थ्य-सेवा-निदेशालयेन श्रीअमरनाथयात्रायै एका विशिष्टा पोनी इति रूग्णवाहनसेवा प्रचालिता

हिमसंस्कृतवार्ता:।

जम्मूकश्मीरे कश्मीर-स्वास्थ्य-सेवा-निदेशालयेन श्रीअमरनाथयात्रायै एका विशिष्टा पोनी इति रूग्णवाहनसेवा प्रचालिता। या हि तीर्थयात्रिभ्यः तेषां यात्रावधी चिकित्सकीसौविध्यानि प्रदास्यति। स्वास्थ्य-चिकित्सा शिक्षा-सचिवस्य डॉ. सैयद आबिद रशीदशाहस्य मार्गदर्शन कश्मीर-स्वास्थ्यसेवा-निदेशकस्य डॉ. मुश्ताक अहमद-राबरस्य अस्य पदक्षेपस्य यात्रिभिः प्रशंसा कृता।

You Might Also Like

*गाजोल-महाविद्यालये अन्तरराष्ट्रीय-सेमिनार् (संगोष्ठी) मानव–प्रकृति-सम्बन्धस्य दार्शनिक-साहित्यिक्-अन्वेषणम्*

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

त्रिपञ्चाशत-तमं विश्व-पुस्तक-मेलापकं नवदेहल्याम् आरब्धम्

TAGGED: him sanskrit varta, him sanskritam, him sanskritam himsanskritnews, HIM SASNSKRIT VARTA, Himsanskritnews, International news, National & International news, अन्तर्राष्ट्रीय समाचार, अन्ताराष्ट्रीय समाचार, राष्ट्रीय वार्ता, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Next Article HPU Shimla BA Final result: हिमाचलप्रदेशविश्वविद्यालयेन घोषित: स्नातक- अन्तिमवर्षस्य परीक्षा-परिणाम:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?