By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: National & International News :  जगन्नाथपूरी रथ-यात्रा – राष्ट्रपतिः दौपदी मुर्मुः पूरीरथयात्रासमारोहे भागम् स्वीकृतवती
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > अन्ताराष्ट्रीयवार्ताः > National & International News :  जगन्नाथपूरी रथ-यात्रा – राष्ट्रपतिः दौपदी मुर्मुः पूरीरथयात्रासमारोहे भागम् स्वीकृतवती
अन्ताराष्ट्रीयवार्ताःराष्ट्रीयवार्ताः

National & International News :  जगन्नाथपूरी रथ-यात्रा – राष्ट्रपतिः दौपदी मुर्मुः पूरीरथयात्रासमारोहे भागम् स्वीकृतवती

डॉ मनोज शैल
Last updated: 2024/07/07 at 11:15 PM
डॉ मनोज शैल
Share
5 Min Read
SHARE

 National & International News : 

जगन्नाथपूरी रथ-यात्रा – राष्ट्रपतिः दौपदी मुर्मुः पूरीरथयात्रासमारोहे भागम् स्वीकृतवती

हिमसंस्कृतवार्ता: ।

यत्र रविवासरे साय‌ङ्काले पंचवादने रथम् आकर्ण्य भगवतः पवित्रं दर्शनं प्राप्तुं विश्वस्य विभिन्नेभ्यः भागेभ्यः लक्षशः भक्ताः समागताः सन्ति। श्री-जगन्नाथ-मन्दिरस्य सिंहद्वारस्य पुरतः रथः स्थितः अस्ति। अयं उत्सवः पवित्रस्त्रीत्वस्य स्वमातुल्या गुण्डिचा-देव्याः मन्दिरं प्रति यात्रां निर्दिशति, अष्टदिनानन्तरं तेषां पुनरागमनात् समाप्यते च। ओडिशाराज्यस्य पुरी- नगरस्य द्वादश शताब्याः श्री जगन्नाथदेवालयात् भगवतः जगन्नाथः, भगवतः बलभद्रः, देवी सुभद्रा, भगवतः सुदर्शनः च बाह्यलोकं प्रति दिव्ययात्रा रविवासरे अपराह्णे आरब्धा। ‘ढाडी पहण्डी’ इति नाम्नः विस्तृतविधिना सह यस्य शाब्दिकः अर्थः अस्ति यत् घण्टायाः, काहली इत्यस्य, तेङ्गी इत्यस्य च वाद्यानां नादस्य ध्वन्या सह अनेकानां भक्तानां सहगमनार्थं क्रमेण अग्रे गमिष्यताम् इति। पुरीगजपति-दिव्यसिंह-देवः, त्रयाणां रथानाम् उपरि सुवर्ण-सम्मर्जनीद्वारा त्रयाणां रथानां पीठस्थानानि स्वच्छं कृत्वा, ‘चेरापाहन्रा’ इति प्रदर्शनं करिष्यति।  सायङ्काले चतुर्थदिनाङ्कपर्यन्तं विधिः अवसीयते। राष्ट्रपति-द्रौपदी-मुर्मू-वर्यायाः कृते विशिष्टसुरक्षाव्यवस्था आसीत्, ओडिशाराज्यस्य राज्यपालस्य, मुख्यमन्त्रिनः, केन्द्रीय-मन्त्रिणां, अन्य-विशिष्टजनानां च कृते अति विशिष्टसुरक्षाव्यवस्थापि कृतासीत्।

 

प्रधानमन्त्री मोदी रूस-आस्ट्रिया-देशयो: यात्रायां प्रस्थास्यति

हिमसंस्कृतवार्ता: ।

प्रधानमन्त्री नरेन्द्रमोदी सोमवासरात् रूस-आस्ट्रिया-देशयोः आधिकारिकप्रवासक्रमे रतः स्यात्। प्रधानमन्त्री नरेन्द्रमोदी जूनमासस्य अष्टमे दशमे च दिनाङ्कयोः रशियादेशस्य द्वि दिनात्मके यात्राक्रमे देशद्वयगते शिखर सम्मेलने भागं गृह्णीयात्। तत्र द्वयोः देशयोः बह्वायामपरस्य संबंधस्य विस्तृत समीक्षायाः संभावाना अस्ति। एतस्य अनन्तरं प्रधानमंत्री नरेंद्र मोदी ओस्ट्रिया देशं प्रति गन्तुं सिद्धं स्यात्। भ्रमणस्यास्य प्रथमचरणे श्री मोदी रूसदेशस्य राष्ट्रपतिव्लादिमीर् पुतिन् इत्यस्य आमन्त्रणेन द्वाविंशतिः तमे भारत-रूस- वार्षिकशिखरसम्मेलने भागं गृह्णीयात्। अस्यायोजनं मास्कोनगरे भविता। नेतारः द्वयोः देशयोः बहुपक्षीयसम्बन्धानां विषये समीक्षां कुर्युः तथा च परस्परहितस्य समकालीनक्षेत्रीयवैश्विकविषयेषु विचाराणां आदानप्रदानं कुर्युः। रूसयात्रायाः समापनानन्तरं प्रधानमन्त्री मंगलवासरे आस्ट्रियादेशं यास्यति। एकचत्वारिंशत् वर्षानन्तरं भारतीयप्रधानमन्त्रिणः आस्ट्रियादेशस्य प्रथमा यात्रा भवेत्।

 

दक्षिणकश्मीरस्य कुलगामजनपदे सुरक्षाबलेन आतंकवादिभिः सह संघर्षे षडातंकवादिनः व्यापादिताः।

हिमसंस्कृतवार्ता: ।

दक्षिणकश्मीरस्य कुलगामजनपदे सुरक्षाबलेन आतंकवादिभिः सह संघर्षे षडातंकवादिनः व्यापादिताः। फ्रिसल चिन्नीगामक्षेत्रे एवं मोटेरगामजनपदे अयं संघर्षः ह्यः मध्याह्ने समारब्धः, यदा आरक्षिदलेन आतंकवादिनां आस्थानस्य सूचना प्राप्ता, आरक्षक-महानिदेशकेन आर. आर. स्वैनेन वार्ताहरैः सह संवादे एतत् पुष्टीकृतम्। अस्मिन् संघर्षे द्वौ सुरक्षाधिकारिणौ अपि मृत्युं प्राप्तवन्तौ। अत्रान्तरे मोटेरगामस्थले एवं क्रिसलचिनीगामक्षेत्रे इत्युभयोः संघर्षस्थलयोः अद्यापि अभियानं यथावस्थमेव प्रचालितम्।

 

आर्मस्ट्रांग इत्यस्य हनन प्रकरणे बसपा प्रमुख मायावती सी-बी-आई- अन्वेषणस्य याचनाम् अकरोत्

हिमसंस्कृतवार्ता: ।

तमिलनाडुराज्ये आर्मस्ट्रांग इत्यस्य हनन प्रकरणे बसपा प्रमुख मायावती सी-बी-आई- अन्वेषणस्य याचनाम् अकरोत्। रविवासरे चेन्नईनगरे पार्थिवदेहाय पुष्पांजलिः समर्पणानन्तरं तया कथितं यत् तस्याः दलं अस्य प्रकरणस्य निष्पक्षान्वेषणार्थं बलं प्रदास्यति। मायावतीम् अतिरिच्य इतोऽपि विभिन्न दलीयाः नेतारः दिवंगतनेतारं श्रद्धांजलिं समर्पयितुं समागताः।

 

द्वाविंशतिः दिनाङ्कात् भविष्यति संसदः वित्तसंकल्पनासत्रस्य आरम्भः

हिमसंस्कृतवार्ता: ।

संसदः वित्तसंकल्पनासत्रस्य आरम्भः अस्य मासस्य द्वाविंशतिः दिनाङ्कात् भविष्यति। संसदीयकार्याणां मन्त्री किरेन रिजिजुः एकस्मिन् सामाजिकान्तर्जालीय सन्देश माध्यमेन सूचितवान् यत् सत्रं अगस्त मासस्य द्वादश दिनांकपर्यन्तं निरन्तरं भविष्यति। सः अवदत्, चतुर्विंशत्यधिक द्विसहस्र पञ्चविंशत्यधिक द्विसहस्र तम वर्षस्य केन्द्रीय वित्तसंकल्पनापत्रं जुलाई त्रयोविंशति दिना‌ङ्के लोकसभायां प्रस्तुतं भविष्यति। श्रीरिजिजुः अवदत् यत्, राष्ट्रपतिः द्रौपदी मुर्मू भारतसर्वकारस्य अनुशंसया वित्तसंकल्पनासत्राय संसदः द्वयोः सदनयोः आह्वानस्य प्रस्तावस्य अनुमोदनं कृतवति।

 

ऋतुविज्ञानविभाग: – आगामिषु पञ्चदिवसेषु उत्तर-पश्चिम मध्य भारतयोः मेघगर्जन सहितं प्रचण्डवृष्टेः सम्भावना वर्तते

हिमसंस्कृतवार्ता: ।

भारतीय ऋतु विज्ञान विभागेन उत्तराखंडे प्रचण्डवृष्टेः अनुमानः कृतः। सममेव उत्तरप्रदेश-ओडिशा-मध्यप्रदेश, दक्षिण कर्नाटक राज्येषु च प्रचण्डवृष्टेः अनुमानः कृतः। आगामिषु पञ्चदिवसेषु उत्तर-पश्चिम मध्य भारतयोः मेघगर्जन सहितं प्रचण्डवृष्टेः सम्भावना वर्तते। विभागस्यानुसारं श्वः यावत् असम-मेघालयोः, बुधवासर पर्यन्तं पश्चिमबङग-सिक्किम- बिहार राज्येषु अथ गुरुवासरपर्यन्तं नागालैण्ड मणिपुर-मिजोरम-त्रिपुरा राज्येषु च प्रचण्डवृष्टिः भवितुमर्हति। 

 

असम-जलाप्लावः – चतुर्विंशतिलक्ष-जनाः जलाप्लावेन प्रभाविताः समभवन्।

हिमसंस्कृतवार्ता: ।

असमराज्ये जलौघस्थितौ अद्य किंचित् परिष्कारः समाप्तः। यद्यपि ऋतू-विज्ञान- विभागेन बराकोपत्यकायां अतिवृष्टेः अनुमानं व्यक्तीकृतम्। राज्ये प्रायशः चतुर्विंशतिलक्ष-जनाः जलाप्लावेन प्रभाविताः समभवन्। त्रिंपचाशदधिकी जनै त्रिशताधिकेषु शिविरेषु शरणागतिः स्वीकृतास्ति। राष्ट्रीय-एवं-राज्य आपत्प्रबन्धन-बलं सहैव अन्यानि अभिकरणानि आपदुद्धरण कार्येषु संलग्नानि सन्ति। अत्रान्तरे गुवाहाठ्यां अष्टवर्षीय बालकस्य श्वः त्रिदिवसात्क-अन्वेषणानन्तरं सम्प्राप्त।

 

BJP Delhi Meeting : एनडीए-सर्वकाराय जनादेशः सर्वकारस्य विगतदशवर्षेषु कृतकार्याणां परिणामः – पीयूषगोयलः

हिमसंस्कृतवार्ता: ।

केन्द्रीयमन्त्री एवं वरिष्ठभाजपानेता पीयूषगोयलः प्रोक्तवान् यत् जनैः एनडीए-सर्वकाराय यः जनादेशः प्रदत्तः सः सर्वकारस्य विगतदशवर्षेषु कृतकार्याणां परिणामः अस्ति। दिल्लीभाजपायाः विस्तृत-कार्यकारिण्योपवेशनस्य उद्घाटनसत्रे स्वीयसम्बोधनावसरे श्री गोयलेन कथितं यत् मोदीसर्वकारेण विभित्रयोजनानां कार्यान्वयनेन देशः परिवर्तितः। श्री गोयलेन विज्ञापितं यत् प्रधानमन्त्रिणा स्वीयतृतीय-कार्यकाले देशे त्रिस्तरीयविकासस्य निर्णयः कृतः। कांग्रेसदलम् आलक्ष्य कटाक्षं कुर्वन् श्री गोयलेन कथितं यत् निर्वाचनेषु देशस्य जनैः विपक्षस्य निराकरणं कृतम्। उपवेशनेऽस्मिन् बीजेपीसांसदः मनोज तिवारी, रामवीर-सिंह- बिधूड़ी इत्येतौ समेत्य अन्येऽपि दलनेतारः उपस्थिताः आसन् ।

 

एशियन्-डबल्स्-स्क्वाश्-च्याम्पियन्शिप्-क्रीडायां भारतस्य अभय् सिंहः विजयं अवाप्तवान्

हिमसंस्कृतवार्ता: ।

अद्य एशियन्-डबल्स्-स्क्वाश्-व्याम्पियन्शिप्-क्रीडायां भारतस्य अभय् सिंहः विजयं अवाप्तवान्। पुरुषयुगलस्य अभय-वेलावन्-सेन्थिल्कुमा-युगलम् पुरुषयुगलस्य अन्तिमस्पर्धायां मलेशिया-देशस्य ओङ्ग-साई-हङ्ग् सैफिक्-कमल् इत्युभाभ्यां सह स्पर्धितवान्। उपान्त्यक्क्रीडायां अभय-वेलावन्-युगलेन जपान्-देशस्य टोमोटक-एन्डो- नाओकी-हयाशी इत्येतौ पराजिती।

You Might Also Like

*गाजोल-महाविद्यालये अन्तरराष्ट्रीय-सेमिनार् (संगोष्ठी) मानव–प्रकृति-सम्बन्धस्य दार्शनिक-साहित्यिक्-अन्वेषणम्*

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

त्रिपञ्चाशत-तमं विश्व-पुस्तक-मेलापकं नवदेहल्याम् आरब्धम्

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, India News, International news, National & International news, National News, national News Headlines, अन्तर्राष्ट्रीय समाचार, अन्ताराष्ट्रीय समाचार, इण्डिया न्यूज़, राष्ट्रीय वार्ता, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Next Article Pandoh Dam: पण्डोह-जलबन्धे पूर्व-सचेतना-व्यवस्था स्थापिता भविष्यति, जलबन्ध-द्वाराणाम् उद्घाटितमात्रेण मण्डी-नगरं यावत् हूटर-ध्वनिः भविष्यति
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?