By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: National & International News  ब्रिटेनदेशस्य नव-मन्त्रिमण्डलस्य निर्माणम्, एन्जेला रेनर: उपप्रधानमन्त्री नियुक्ता
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > अन्ताराष्ट्रीयवार्ताः > National & International News  ब्रिटेनदेशस्य नव-मन्त्रिमण्डलस्य निर्माणम्, एन्जेला रेनर: उपप्रधानमन्त्री नियुक्ता
अन्ताराष्ट्रीयवार्ताःराष्ट्रीयवार्ताः

National & International News  ब्रिटेनदेशस्य नव-मन्त्रिमण्डलस्य निर्माणम्, एन्जेला रेनर: उपप्रधानमन्त्री नियुक्ता

डॉ मनोज शैल
Last updated: 2024/07/07 at 11:19 AM
डॉ मनोज शैल
Share
6 Min Read
SHARE

National & International News

ब्रिटेनदेशस्य नव-मन्त्रिमण्डलस्य निर्माणम्, एन्जेला रेनर: उपप्रधानमन्त्री नियुक्ता।

हिमसंस्कृतवार्ता: ।

१४ वर्षाणाम् अनन्तरं ब्रिटेनदेशे सत्तापरिवर्तनं जातम्।  अस्मिन् समये कंजर्वेटिव-पक्षस्य मर्दनपराजयः अभवत्। १४ वर्षाणां निर्वासनस्य अनन्तरं लेबर-पार्टी इति पक्षः  पुनः सत्तां प्राप्तवान्। दलेन ऐतिहासिकं प्रदर्शनं कृत्वा ४१९ आसनानि प्राप्तानि। लेबरपार्टी इत्यस्य कीर-स्टार्मर: ब्रिटेनस्य नूतनः प्रधानमन्त्री अभवत्। प्रधानमन्त्रित्वमात्रेण सः स्वस्य मन्त्रिपरिषदः घोषणां कृतवान्। नव सः उपप्रधानमन्त्री अपि नियुक्तवान्। मन्त्रिमण्डलस्य निर्माणात् पूर्वं सः राज्ञा चार्ल्स-तृतीयेन सह मिलितवान्। तदनन्तरं सः देशवासिनां कृते सम्बोधनमपि कृतवान्। एतत् कीर-स्टार्मरस्य मन्त्रिमण्डलम् अस्ति। ब्रिटिशप्रधानमन्त्री कीर-स्टार्मरेन एन्जेला-रेनर: उपप्रधानमन्त्री नियुक्ता। सः डेविड-लैम्मी इत्यस्य ब्रिटेनस्य नूतनविदेशमन्त्री नियुक्तवान्। तस्मिन् एव काले जॉन-हीलो रक्षामन्त्रीरूपेण चयनितः अस्ति। कीर-स्टार्मर: यवेट-कूपरं गृहसचिवरूपेण नियुक्तवान् अस्ति। गृहमन्त्री ब्रिटेनदेशे गृहसचिवः इति उच्यते, यस्य दायित्वं देशस्य आन्तरिकसुरक्षापुलिसव्यवस्थायाः कृते अस्ति। स्टार्मर: रेचल-रीव्सम वित्तमन्त्रीरूपेण नियुक्तवान्। रीव्स: देशस्य प्रथमा महिला अस्ति या वित्तमन्त्री अभवत्। 

 

जनसेवा एव ब्रिटेन-सर्वकारस्य मुख्यधर्मः- कीर-स्टार्मर:

 

प्रधानमन्त्रित्वानन्तरं कीर-स्टार्मर: राष्ट्रं सम्बोधितवान्। नवनिर्वाचितः प्रधानमन्त्री कीर-स्टार्मर: अवदत् यत् जनानां व्रणाः वचनैः चिकित्सितुं न शक्यन्ते, तेषां व्रणाः कर्मणा निरामयाः भविष्यन्ति। अद्यतः कार्यम् आरभ्यते इति अस्माकं कृते बहु-आवश्यकम् इति स्टार्मर: अवदत्। आङ्ग्लसर्वकारः प्रत्येक-देशवासिनः आदरं करोति। जनसेवा एव सर्वकारस्य मुख्यधर्मः। सः जनान् प्रतिज्ञां कृतवान् यत् पुनः संसाधनाः सुदृढाः भविष्यन्ति इति।  स्टार्मर: वदति यत् भवद्भिः अस्मान् बहुमतं प्रदत्तम्। वयं जनादेशस्य साहाय्येन ब्रिटेनदेशे परिवर्तनम् आनेष्यामः। देशे परिवर्तनम् आनेतुं सुलभं कार्यं न भवति। परिवर्तनं तत्क्षणं आनेतुं न शक्यते। परिवर्तनम् आनेतुं समयः स्यात्। परिवर्तनं लघुपदैः आरभ्यते। 

 

२६ भारतीय-मूलस्य सांसदाः विजयं प्राप्तवन्तः।

निर्वाचने भारतीयानां तर्जनं दृष्टम् अस्ति। निर्वाचने विजयं प्राप्य भारतीयमूलस्य २६ नेतारः “हाउस- आफ- कॉमन्स” इत्यस्य कृते नामाङ्किताः सन्ति। ब्रिटिशसंसद: “हाउस- आफ- कॉमन्स” इत्यत्र भारतीयमूलस्य सांसदानां वर्चस्वं वर्धितम् अस्ति। कंजर्वेटिव-पक्षस्य मर्दनपराजयस्य अभावेऽपि ऋषिसुनकः रिचमण्ड-नॉर्थालरटन-आसनम् प्राप्तवान् अस्ति। सुनकः रिचमण्ड नॉर्थलर्टन-नगरस्य जनानां प्रति कृतज्ञतां प्रकटितवान्।

 

राष्ट्रपतिः द्रौपदी मुर्मू  ओडिशा-राज्यस्य चतुर्दिवसीययात्रायामस्ति

हिमसंस्कृतवार्ताः। राष्ट्रपतिः द्रौपदी मुर्मू ओडिशा-राज्यस्य चतुर्दिवसीययात्रायां वर्तते। राष्ट्रपतिः गतसायं भुवनेश्वरे उत्कलमणिपण्डितगोपबन्धुदासस्य पण्णवति तमे पुण्यतिथिसमारोहे आयोजिते कार्यक्रमे भागं गृहीतवती। अद्य राष्ट्रपति मुर्मू भगवान् जगन्नाथ, बलभद्र, देवी सुभद्रा, भगवतः सुदर्शनस्य च विश्वप्रसिद्धा रथयात्रायाः साक्षि भविष्यति यत् अद्य पवित्रतटीय-पुरीनगरे भविष्यति। स्वीय यात्रावधौ राष्ट्रपतिः सोमवासरे भुवनेश्वरस्थस्य उदयगिरी-खण्डगिरी-गुहयोः यात्रां करिष्यति, विभूति-कानुनगो-कला-शिल्प-महाविद्यालयस्य, उत्कल-संस्कृति-विश्वविद्यालयस्य च छात्रैः सह संवादं करिष्यति। भुवनेश्वरसमीपे हरिदमदाग्रामे ब्रह्मकुमार्याः दिव्यनिवृत्तिकेन्द्रस्य उद्घाटनं तस्मिन् एव दिने स्थिरतायै जीवनशैली’ इति अभियानस्य आरम्भं करिष्यति। राष्ट्रपतिः दिल्लीं प्रत्यागमनात् पूर्व मंगलवासरे भुवनेश्वरनगरे राष्ट्रियविज्ञानशिक्षा- अनुसंधानसंस्थायाः (NISER) इत्यस्य त्रयोदशतमे स्रातकसमारोहे भागं भजिष्यति।

 

संसद-बजटसत्रम् : द्वाविंशति दिनाङ्कात्  संसदः वित्तसंकल्पनासत्रस्य आरम्भः 

हिमसंस्कृतवार्ताः। संसदः वित्तसंकल्पनासत्रस्य आरम्भः अस्य मासस्य द्वाविंशति दिनाङ्कात् भविष्यति। संसदीयकार्याणां मन्त्री किरेन रिजिजुः एकस्मिन् सामाजिकान्तजालीय सन्देश माध्यमेन सूचितवान् यत् सत्रं अगस्त मासस्य द्वादश दिनांकपर्यन्तं निरन्तरं भविष्यति। सः अवदत्, चतुर्विंशत्यधिक द्विसहस्र पञ्चविंशत्यधिक द्विसहस्र तम वर्षस्य केन्द्रीय वित्तसंकल्पनापत्रं जुलाई त्रयोविंशति दिनाङ्के लोकसभायां प्रस्तुतं भविष्यति। श्रीरिजिजुः अवदत् यत्, राष्ट्रपतिः द्रौपदी मुर्मू भारतसर्वकारस्य अनुशंसया वित्तसंकल्पनासत्राय संसदः द्वयोः सदनयोः आह्वानस्य प्रस्तावस्य अनुमोदनं कृतवती।

 

सर्वकारः अग्रिमेषु पञ्चवर्षेषु प्रायः द्विलक्षं यावत् ग्राम पञ्चायतेषु बहुद्देश्यीय- प्राथमिक कृषि ऋण समिति-पैक्स इत्यस्य स्थापनां करिष्यति-अमितशाहः

हिमसंस्कृतवार्ताः। गृहमन्त्रिणा अमितशाहेनोक्तं यत् सर्वकारः अग्रिमेषु पञ्चवर्षेषु प्रायः द्विलक्षं यावत् ग्राम पञ्चायतेषु बहुद्देश्यीय- प्राथमिक कृषि ऋण समिति-पैक्स इत्यस्य स्थापनां करिष्यति। पैक्स इत्येषां स्थापना तेषु ग्राम-पंचायतेषु भविष्यति ये अधुना यावत् सहकारिता क्षेत्रात् बहिः सन्ति। श्रीशाहेन द्वयाधिकैकशततमे अन्ताराष्ट्रिय सहकारिता दिवसावसरे गांधीनगरस्य महात्मा मन्दिरे आयोजिते “सहकारेण समृद्धिः” इति कार्यक्रमावधौ घोषणैषा कुता। सहकारी क्षेत्रस्य सशक्तिकरणाय केन्द्र सर्वकारस्य विभिन्नानां योजनानां विषये प्रवदता श्रीशाहेन समितीनां व्यावहारिकी करणाय सहकारी संजालस्य विस्तारे बलं प्रदत्तम। अस्मिन् अवसरे गृहमन्त्री अमितशाहः नैनो-यूरिया-इत्युर्वरकस्य क्रयणे कृषकाणां कृते गुजरात सर्वकारस्य विशिष्ट साहाय्योजनायाः शुभारम्भं कृतवान्। श्रीशाहेन दिल्ल्यां अमूलेत्यस्य प्रथमं जैविक भण्डारस्य आभासीय माध्यमेन उद्घाटनं विहितम्। कार्यक्रमावधौ राष्ट्रिय सहकारी-जैविक-समित्याः भारत जैविक-गोधूम चूर्णस्याऽपि शुभारम्भो अभवत् ।

 

ईरान-राष्ट्रपति-निर्वाचनम्-मसूद पेज़ेशकियानेन राष्ट्रपति-निर्वाचनम् विजितम्

हिमसंस्कृतवार्ताः।  ईरानस्य परिष्कारवादी-प्रत्याशिना मसूद पेज़ेशकियानेन राष्ट्रपति-निर्वाचनम् विजितम्। तेन अतिरुडिबादी सईद जलीली इत्येपः पराजितः। पेजेशकियान इत्येषः हृदयशल्यचिकित्सकः अपि वर्तते। ईरानदेशे जूनमासस्य अष्टाविंशे दिनांके निर्वाचनम् अभवत् यत्र पेज़ेशकियान इत्यमुना द्विचत्त्वारिंत् दशमलव षड्प्रतिशतं मतदानानि संप्राप्तानि अपरत्र जलीली इत्यमुना अष्टत्रिंशत् दशमवल अष्टप्रतिशतं मतदानानि संप्राप्तानि।

 

तमिलनाडुराज्ये बहुजन समाजवादी पार्टीति दलस्य राज्य प्रमुखस्य के. आर्मस्ट्रांग इत्यस्य हननप्रकरणे अष्टजनाः निगडिताः

 

हिमसंस्कृतवार्ताः।  तमिलाडुराज्यस्य मुख्यमन्त्रिणा एम. के. स्टालिनेन बहुजन समाजवादी पार्टीति दलस्य राज्य प्रमुखस्य के. आर्मस्ट्रांग इत्यस्य हननप्रकरणे दोषिणांम् अन्वेषणार्थं आरक्षकाधिकरिणः आदिष्टाः। श्रीस्टालिनेन शोकसंतप्त- परिवाराय दलकार्यकर्तृभ्यश्च स्वीयसंवेदना प्रकटीकुर्वता कथितं यत् परह्यः कासुचिदेव होरासु आरक्षकदलेन अस्मिन् प्रकरणे अष्टजनाः निगडिताः। परह्यः सायं के. आर्मस्ट्रांग इत्यस्य हत्या चेन्नईनगरस्य पेरम्बूरस्थाने अभवत्। चेन्नई-चिकित्सालये शवपरीक्षणानन्तरं गतदिने पार्थिवदेहः तस्य परिजनेभ्यः प्रदास्यते। अत्रान्तरे बसपा दलस्य कार्यकर्तृणः सीबीआई अन्वेषण-याचनाम् अधिकृत्य चिकित्सालयात् बहिः एकत्रिताः समभवन्। बसपादलस्य प्रमुखा मायावती अद्य चेन्नई नगरे तमिलनाडु बसपा प्रमुखस्य पार्थिवदेहाय श्रद्धांजलिं समर्पयिष्यति। सुश्री मायावती सामाजिकान्तर्जालिक सन्देशे प्रोक्तती यत् हननमिदं अतीव निन्दनीयं वर्तते सहैव सा दोषिभ्यः दण्डस्यापि याचनां विहितवती।

 

असमराज्ये जलाप्लावेन सामान्यजनजीवनं अस्त-व्यस्तः

असमराज्ये जलाप्लावेन सामान्यजनजीवनं अस्त-व्यस्तः समजायत। त्रिंशज्जन-पदेषु चतुर्विशतिलक्षाधिकाः जनाः जलाप्लावेन संत्रस्ताः सन्ति। यद्यपि विगतासु चतुर्विंशति-होरासु कस्यचिदपि मुत्युसूचना नैवोपलब्धा। अनवरततया वृष्टि-कारणात् गुवाहाटी नगरे केषुचित् जलावरोधः संजातः अस्मात् कारणात् वाहनानां गमनागमनमपि प्रभावितमस्ति। भारतीय-ऋतु-विज्ञान विभागेन असमस्य प्रोन्नतस्थानेषु अतिवृष्टेः भविष्यवाणी विहिता। अस्माकं संवाददात्रा विज्ञापितं यत् काजीरंगा राष्ट्रीयोद्यान प्राधिकरणेन एतावता शतं वन्यप्राणिनः संरक्षिताः, जलाप्लावेन नवतिः जन्तवः मृतास्सन्ति।

 

You Might Also Like

*गाजोल-महाविद्यालये अन्तरराष्ट्रीय-सेमिनार् (संगोष्ठी) मानव–प्रकृति-सम्बन्धस्य दार्शनिक-साहित्यिक्-अन्वेषणम्*

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

त्रिपञ्चाशत-तमं विश्व-पुस्तक-मेलापकं नवदेहल्याम् आरब्धम्

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, India News, International news, National & International news, अन्तर्राष्ट्रीय समाचार, अन्ताराष्ट्रीय समाचार, इण्डिया न्यूज़, राष्ट्रीय वार्ता, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himsanskritnews Headlines : राष्ट्रपतिः द्रौपदीमुर्मूवर्याया: ओडिशा-राज्यस्य चतुर्दिवसीययात्रा आरब्धा
Next Article HP Weather : धर्मशालायां ऋतो: सर्वाधिकवर्षा, हिमाचले भूस्खलनेन १५० मार्गाः अवरुद्धा:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?