By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: National News : राष्ट्रीयवार्ताः – प्रधानमंत्रिण: रूस-आस्ट्रिया-देशयोः यात्रा 
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > अन्ताराष्ट्रीयवार्ताः > National News : राष्ट्रीयवार्ताः – प्रधानमंत्रिण: रूस-आस्ट्रिया-देशयोः यात्रा 
अन्ताराष्ट्रीयवार्ताःराष्ट्रीयवार्ताः

National News : राष्ट्रीयवार्ताः – प्रधानमंत्रिण: रूस-आस्ट्रिया-देशयोः यात्रा 

डॉ मनोज शैल
Last updated: 2024/07/04 at 10:41 PM
डॉ मनोज शैल
Share
6 Min Read
SHARE

National News : राष्ट्रीयवार्ताः – प्रधानमंत्रिण: रूस-आस्ट्रिया-देशयोः यात्रा 

 

प्रधानमंत्री ०८ जुलाईत: रूस-आस्ट्रिया-देशयोः आधिकारिकभ्रमणं करिष्यति

हिमसंस्कृतवार्ता: – प्रवीण कुमार:

 

प्रधानमन्त्री नरेन्द्रमोदी अस्मिन् मासे ०८, ०९ दिनाङ्कयो: रूसदेशस्य आधिकारिकयात्रायां भविष्यति। विदेशमन्त्रालयेन उक्तं यत् मोदीमहोदयः रूसराष्ट्रपते: व्लादिमीर पुतिनस्य आमन्त्रणेन २२ तमे भारत-रूस-वार्षिक-शिखरसम्मेलने भागं ग्रहीतुं मास्कोनगरं गमिष्यति। द्वयोः नेतारयोः परस्परहितस्य समकालीनक्षेत्रीयवैश्विकविषयेषु अपि चर्चा कर्तुं कार्यक्रम: निश्चित:। तदनन्तरं प्रधानमन्त्री मोदी अस्मिन् मासे ९, १० दिनाङ्कयो: आस्ट्रियादेशं गमिष्यति। विगत ४१ वर्षेषु भारतीयप्रधानमन्त्री आस्ट्रियादेशस्य प्रथमा यात्रा भविष्यति।  मोदीमहोदयः आस्ट्रियादेशस्य राष्ट्रपतिः अलेक्जेण्डर वैन डेर बेलेन इत्यनेन सह मेलनम् करिष्यति। सः कुलपतिः कार्ल नेहॅमर इत्यनेन सह अपि वार्तालापं करिष्यति। उभौ नेतारौ भारतस्य आस्ट्रियादेशस्य च व्यापारिकनेतृभ्यः अपि सम्बोधयिष्यतः। प्रधानमन्त्री मास्को-वियना-नगरयोः भारतीयसमुदायेन सह अपि वार्तालापम् करिष्यति।

 

आतङ्कवादः कस्मिन्नपि रूपे उत्त आतंकवादस्य कथमपि प्रकटीकरणं न्याय्यं समुचितं वा अस्ति इति अनुमोदनं कर्तुं न शक्यते 

हिमसंस्कृतवार्ता: । 

प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् आत‌ङ्कवादः कस्मिन्नपि रूपे उत आतंकवादस्य कथमपि प्रकटीकरणं न्याय्यं समुचितं वा अस्ति इति अनुमोदनं कर्तुं न शक्यते। सः अवदत् यत् अन्ताराष्ट्रीयसमुदायेन ते देशाः ये आतङ्कवादिनां कृते आश्रयं ददति, आतंकिभ्यः सुरक्षितस्थानानि प्रदातुं, आतङ्कवादस्य अनुमोदनं च कुर्वन्ति, तेषां देशानां पृथक्करणपूर्वकं मुखाच्छादकम् अपाकरणीयम् ।

एषा टिप्पणी विदेशमन्त्रिणा डॉ. एस. जयश‌ङ्करेण कृता। विदेशमन्त्री सम्प्रति कजाकिस्तानस्य आस्तानानगरे आयोज्यमाने एस.सी.बो. इति शिखरसम्मेलने परिचर्चावसरे भाषते स्म। विदेशमन्त्रिणा अत्र सम्मेलने चीनदेशस्य विदेशमन्त्रिणा वांग-यी इत्यमुना सहापि मेलनं कृतम् ।

मेलनेस्मिन् उभयोः देशयोः सीमावर्ति क्षेत्राणां विवादस्य शीघ्रसमाधान-विषये मन्त्रणा जाता। उभावपि पक्षौ राजनयिकमाध्यमेन सैन्यमाध्यमेन च विवाद-समाधानार्थं सहमतौ जातौ । डॉ.एस. जयशङ्करेण प्रोक्तं यत् वास्तविक नियन्त्रणरेखायाः सम्माननम्, सीमावर्तिक्षेत्रेषु शान्तिसन्धारणं च निश्चप्रचं कर्तुं नितान्तमावश्यकमस्ति । अमुना प्रोक्तं यत् परस्पर-सम्माननम्, मिथः संवेदनशीलता उभयोः हितसाधनं च भारत-चीनयोः द्विपाक्षिक-सम्बन्धानां नेतृत्वं करिष्यन्ति।

 

प्रधानमन्त्री श्रीनरेन्द्रमोदी नवीदिल्लीनगरे स्वनिवासस्थाने विंशतिम् प्रतिविंशति-विश्व- चषक-विजेत्रा भारतीय-पुरुष-क्रिकेट्दलेन सह मिलितवान्।

हिमसंस्कृतवार्ता: । 

प्रधानमन्त्री श्रीनरेन्द्रमोदी नवीदिल्लीनगरे स्वनिवासस्थाने विंशतिम् प्रतिविंशति- विश्व-चषक-विजेत्रा भारतीय-पुरुष-क्रिकेट्दलेन सह मिलितवान्। भारतीय क्रिकेट-दल-नायकः रोहित शर्मा, प्रशिक्षकः राहुल द्रविडः, विराट कोहली, हार्दिक पाण्डया, सूर्यकुमार यादवः, जसप्रीत बुमराहसदृशाः अन्ये क्रीडकाः उपस्थिताः आसन्। प्रधानमन्त्री क्रीडकैः सह संवादं कृतवान् यत्र ते स्वस्य अनुभवान् विनिमयी-कृतवन्तः। भारतीयक्रिकेटदलम् गुरुवासरे प्रातः नवदिल्लीं सम्प्राप्तम्, तेषां भव्यं स्वागतं जातम्। भारतीय-पुरुष-क्रिकेट्-दलं बार्वडोस्-नगरात् स्ववदेशं प्रत्यागतम्, अपि च विश्वविजयीभूय दलस्य पुनरागमनं भव्यं जातम्। गतशनिवासरे जूनमासस्य ऊनत्रिंशे दिनाङ्‌के दक्षिण आफ्रिका-विरुद्धं रोमाञ्चकर्याम् अन्तिम-क्रीडायां भारतीय-दलेन विश्वचषकं स्वायत्तीकृतम्। एतस्मिन् विशेषे क्षणे दलं प्रधानमन्त्रिणा नरेन्द्रमोदिना मिलितम्। क्रीडकैः मोदिना सह प्रातः भोजनं कृतम्। अत्रावसरे श्रीमोदिना तेषां क्रीडकानां विजयस्य प्रशंसा कृता। तदनन्तरं दलं पथप्रदर्शनार्थं मुम्बईनगरं प्रति निर्गतम्। दलनायकः रोहितशर्मा प्रशंसकानां कृते उत्सवे सम्मिलितुं हृदयहारि आह्वानं कृतवान्। अवधेयमस्ति यत् तेषां क्रीडकानां भारतं पुनरागमनं झञ्झावातेन विलम्बितम् चेदपि सर्वे प्रशंसकाः उत्सुकतापूर्वकं स्वदलस्य प्रतीक्षां कृतवन्तः।

 

झारखण्ड-मुक्ति-मोर्चायाः कार्यकारि-अध्यक्षः हेमन्तसोरेनः झारखण्डस्य मुख्यमन्त्रित्वेन शपथं स्वीकृतवान्

हिमसंस्कृतवार्ता:।

झारखण्ड-मुक्ति-मोर्चायाः कार्यकारि-अध्यक्षः हेमन्तसोरेनः गुरुवासरे झारखण्डस्य मुख्यमन्त्रित्वेन शपथं स्वीकृतवान्। राज्यपालेन सि. पी राधाकृष्णन् वर्येण राजभवने तस्मै पदगोपनीयतायाः शपथवचनं कारितम्। अवधेयमस्ति यत् हेमन्तसोरेनः तृतीयवारं मुख्यमन्त्रिपदम् आरोहति।

 

असम-जलौघे जलौघ-जनोद्धार कार्यक्रमेषु भारतीयसेना सक्रियरूपेण संलग्ना 

हिमसंस्कृतवार्ता:।

गतमासस्य ऊनत्रिंशत्-दिनाङ्कात् आरभ्य अविरामवृष्ट्या भृशं प्रभावितेषु असमस्य धेमाजीमण्डलस्य सिवागुरी-ग्रामेषु, अरुणाचलप्रदेशस्य पूर्व-सियाङ्ङ्गमण्डलस्य मेर-ग्रामेषु च व्यापकरूपेण जलौघ-जनोद्धार कार्यक्रमेषु भारतीयसेना सक्रियरूपेण संलग्ना अस्ति। भारतीयसैन्यबलेन राज्य आपदा-मोचन-बलेन च सम्भूय जलौघ-प्रभावितक्षेत्रेषु जलौघपीडितानां जनानां समुद्धाराय तीव्राभियानं प्रचालितमस्ति। अस्मिन् अभियाने सिवागुरी, नामसिङ्गघाट्, पगलाम, ओरियानघाट् इत्येतेषु क्षेत्रेषु अष्टचत्वारिंशत् नागरिकाः ससुरक्षं निष्कासिताः । येषु सप्तदश बालकाः, विंशति-महिलाः, एकादश वृद्धाः नागरिकाः च समाविशन्ति। ततः परं इमे समुद्धारिताः जनाः अस्थायी आश्रयस्थानेषु संस्थापिताः। जलप्रलयग्रस्तानाम् एतेषां सर्वेषां कृते भोजनं, जलं, चिकित्सासाहाय्यं च सैन्यबलेन प्रदत्तम् अस्ति।

 

विम्बल्डन्-टेनिस्-स्पर्धायां भारतस्य चूकी-भांबरी फ्रान्स-वेशीयेन अल्बानो-ओलीवेटी इत्यनेन सह सम्भूय स्पर्धिष्यते

हिमसंस्कृतवार्ता:।

विम्बल्डन्-टेन्निस्-स्पर्धायां भारतस्य यूकी-भांबरी फ्रान्स-देशीयेन अल्बानो-ओलीवेटी इत्यनेन सह सम्भूय कजाकिस्थानदेशस्य अलेक्जेण्डर-बुब्लिकस्य अलेक्जेण्डर-शेवचेंको इत्यस्य च युगलं विरुद्ध्य स्पर्धिष्यते। एन. श्रीराम बालाजीब्रिटेनस्य ल्यूक-जोन्सनेन समं सम्मिल्य क्रोएषिया देशस्य मेट्-पाविचस्य अथ अल्-साल्वाडोरस्य मार्सेलो अरेवलो इत्यस्य च युगलं सम्मुखीकरिष्यति । अपि च रोहन बोपन्ना निज-आस्ट्रेलिया-देशीयेन सह-क्रीडकेन मेध्यू-एब्डेन् इत्यमुना सह सम्भूय जर्मन् देशीयस्य हेण्ड्रिक-जेबेंसस्य, कोन्स्टण्टिनस्य च युगलं विरिद्ध्य क्रीडिष्यति ।

 

संयुक्त-अरब-अमीराते यू-पी-आई क्यू-आर-कोड इति विधिना च धनस्य आदान-प्रदानं कर्तुं शक्नुवन्ति यात्रारताः भारतीयाः प्रवासिजनाः च

हिमसंस्कृतवार्ता:।

अधुना यूएई इति संयुक्त अरब अमीरात-देशे यात्रारताः भारतीयाः प्रवासिजनाः च विक्रयण-यन्त्र-माध्यमेन यू-पि-आई क्यू-आर-कोड इति विधिना च धनस्य आदान-प्रदानं कर्तुं शक्नुवन्ति। एन.पी.सी.आई. इन्टरनेशनल् पेमेंट्स् लिमिटेड् इत्यनेन सम्पूर्ण मध्यपूर्वे आफ्रिकादेशे च मुख्यतया डिजिटल-वाणिज्य-सक्षम-कर्तृणा नेटवर्क इन्टरनेशनल् इत्यनेन सह सहयोगत्वेन विक्रयस्थानेषु QR-कोड्-आधारितस्य एकीकृत-धनविनिमय-अन्तरफलकीयं सौविध्यं यूएई-देशे भारतीयेभ्यः यत्रिभ्यः सुलभायितम् अस्ति। अस्य उपक्रमस्य उद्देश्यं यूएई-देशे भारतीयपर्यटकानाम् कृते निर्विघ्नव्यवहार-अनुभवं प्रदातुं वर्तते। सामान्यापणेषु, आतिथ्य- परिवहन-सुपरमार्केट्-चेत्यादिषु विविधक्षेत्रेषु प्रसारितानां द्विलक्षाधिकेषु विपण्यकेन्द्रेषु एतत् सौविध्यं प्रदत्तमस्ति । अवधेयमस्ति यदत्र लोकप्रिय पर्यटनस्य अवकाश-आकर्षणस्य च विविध- प्रतिष्ठान-श्रेणयः अपि समाविष्टाः भवन्ति ।

 

राजनाथसिंह: आस्ट्रेलियादेशस्य उपप्रधानमन्त्रिणा रक्षामन्त्रिणा च रिचर्ड मार्लेस् इत्यनेन सह  दौरभाषिक-मन्त्रणां कृतवान्

हिमसंस्कृतवार्ता:।

गुरुवासरे रक्षामन्त्री राजनाथसिंहः आस्ट्रेलियादेशस्य उपप्रधानमन्त्रिणा रक्षामन्त्रिणा च रिचर्ड मार्लेस् इत्यनेन सह दूरभाषेण वार्तालापं कृतवान्। समाजिक संजालीय-सन्देशे सिंह्महोदयः अवदत् यत् द्विपक्षीय-रक्षा-सहकार्य-सम्बद्धानां विविध विषयाणां समीक्षा कृता, यत्र भारत-प्रशांत-क्षेत्रे द्वयोः देशयोः निकटतर-सहकार्यं केन्द्रीकृतम् आसीत्। सः अवदत् यत्, भारतं ऑस्ट्रेलिया-देशेन सह व्यापक-रणनीतिक-सह्योग-विषये महत् मूल्यं ददाति। रक्षामन्त्रालयस्य अनुसारं द्वयोः मन्त्रिणोः व्यापक-रणनीतिक-सहमतेः अन्तर्गतं रक्षा-सहकार्यस्य परिवर्तनकर-प्रगतिः अवलोकिता ।

 

उपराष्ट्रपतिः जगदीपधनखड: शनिवासरात्  केरलस्य द्विदिवसीयभ्रमणम् करिष्यति 

हिमसंस्कृतवार्ता:।

उपराष्ट्रपतिः जगदीपधनखडः शनिवासरात् केरलस्य द्विदिवसीयभ्रमणं करिष्यति। स्वस्य भ्रमणस्य प्रथमदिने धनखड-महोदयः भारतीय-अन्तरिक्ष-विज्ञान-प्रौद्योगिकी-संस्थायाः द्वादशे दीक्षान्तसमारोहे मुख्यातिथिरूपेण दीक्षान्तसम्बोधनं करिष्यति। सः उत्कृष्ट-छात्राणां कृते संस्थायाः उत्कृष्टता-पदकं अपि प्रदास्यति। जुलैमासस्य सप्तमे दिनाङ्के कोल्लम-अष्टमुदी- पृष्ठजलयोः भ्रमणं कर्तुं उपराष्ट्रपतिना निश्चितम् अस्ति

You Might Also Like

*गाजोल-महाविद्यालये अन्तरराष्ट्रीय-सेमिनार् (संगोष्ठी) मानव–प्रकृति-सम्बन्धस्य दार्शनिक-साहित्यिक्-अन्वेषणम्*

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

त्रिपञ्चाशत-तमं विश्व-पुस्तक-मेलापकं नवदेहल्याम् आरब्धम्

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, India News, International news, National News, अन्तर्राष्ट्रीय समाचार, अन्ताराष्ट्रीय समाचार, इण्डिया न्यूज़, प्रधानमंत्री, प्रधानमन्त्री नरेन्द्र मोदी, राष्ट्रीय वार्ता, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Next Article Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?