By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: National News  – राष्ट्रीयवार्ताः  PM Modi : सर्वकाराय निर्देशं दातुं दीपस्तम्भमिव अस्ति संविधानम् – प्रधानमंत्री
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > अन्ताराष्ट्रीयवार्ताः > National News  – राष्ट्रीयवार्ताः  PM Modi : सर्वकाराय निर्देशं दातुं दीपस्तम्भमिव अस्ति संविधानम् – प्रधानमंत्री
अन्ताराष्ट्रीयवार्ताःराष्ट्रीयवार्ताः

National News  – राष्ट्रीयवार्ताः  PM Modi : सर्वकाराय निर्देशं दातुं दीपस्तम्भमिव अस्ति संविधानम् – प्रधानमंत्री

डॉ मनोज शैल
Last updated: 2024/07/03 at 10:36 PM
डॉ मनोज शैल
Share
7 Min Read
SHARE

National News  – राष्ट्रीयवार्ताः 

  • PM Modi : सर्वकाराय निर्देशं दातुं दीपस्तम्भमिव अस्ति संविधानम् – प्रधानमंत्री

हिमसंस्कृतवार्ता: । 

प्रधानमन्त्री नरेन्द्रमोदी अद्य काङ्ग्रेस्दलम् आक्षिप्तवान् यत् एतत्वलं संविधानविरोधिदलमस्ति। राज्यसभायां संसदः संयुक्तसम्मेलने राष्ट्रपतिनः द्रोपदीमुर्मूवर्यायाः अभिभाषणस्य धन्यवादप्रस्तावस्य प्रत्युत्तरे असौ आरोपितवान् यत् काङ्ग्रेस्-पक्षस्य मनोवृत्तिः अनुसूचितजातिम्, अनुसूचितजनजातिम् अन्यवञ्चितवर्गान् च विरोधं करोति इति। विपक्षदलं पूर्वराष्ट्रपतेः रामनाथ कोविन्दस्य अपमानम् अकरोत् इति अपि आरोपितवान्, अपि च राष्ट्रपति-द्रौपदी- मुर्मू-वर्यायाः अपमानाय अपि विपक्षीदलेन सर्वविधप्रयासः क्रियते इति अवोचत्। श्री मोदी अग्रे अवदत् यत् संविधानम् न केवलं लेखानां सङ्ग्रहणमस्ति, अपितु तस्य भावाः शब्दाः च सर्वकारस्य कृते बहुमूल्ययुताः सन्ति इति। सः अवदत् यत् संविधानम् सर्वकाराय निर्देशं दातुं दीपस्तम्भः अस्ति इति। बाबासाहेव् भीमराव् अम्बेड्करवर्यस्य योगदानस्य प्रशंसां कुर्वन् प्रधानमन्त्री अवदत् यत् संविधानस्य पञ्चसप्ततिः वर्षाणि आगच्छन्ति इति। तृतीये कार्यकाले एन्. डी. ए. सर्वकारस्य दूरदृष्टेः विषये श्रीमोदी अवदत् यत् दारिद्रं विरुद्धय युद्धं सर्वकारस्य प्रमुखकार्यम् भविष्यति तथा च देशः निर्धनात् विजयी भविष्यति इति। यदा प्रधानमन्त्रिणः वक्तव्यं प्रचलन् आसीत् तदा काङ्ग्रेस्, डी. एम्. के., टी. एम्. सी., आम आदमी पार्टी, आर्. जे. डी., इत्यादीनि विपक्षदलानि कोलाहलं कृत्वा सदनमध्ये प्रविष्टवन्तः। अध्यक्षः जगदीप् धनखडः तान् स्वस्थानानि पुनः ग्रहीतुं पृष्टवान्। पश्चात् विपक्षदलानि सभातः बहिर्गतानि। उत्तरप्रदेशस्य हाथरस्-नगरे ह्यः दुःखदघटनायां मृतानां जनानां कृते सभया श्रद्धाञ्जलिः प्रदत्ता। अध्यक्षः जगदीप् धनखडः अवदत् यत् अस्यां घटनायां प्राणहानिः क्षतयः च दुर्भाग्यपूर्णानि च सन्ति इति। सः अवदत् यत्, व्रणितेभ्यः चिकित्सासाहाय्यं प्रदातुं सर्वे आवश्यकोपायाः च विधीयन्ते । सः अवदत् यत् अधिकारिणः विषयस्य अन्वेषणार्थं समितेः निर्माणं कृतवन्तः।

 

  • हाथरस-दुर्घटना : हाथरससर्वकारीचिकित्सालये पीडितैः सह मेलनं कृतवान् उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः

हिमसंस्कृतवार्ता: ।

उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः अद्य हाथरससर्वकारीचिकित्सालये दुरापन्नायां दुर्घटनायां पीडितैः सह मेलनं कृत्वा मन्त्रिभिः मुख्यसचिवेन च मनोजकुमारसिंहेन सह समिक्षोपवेशनं कृतवान्। मुख्यमंत्री घटनास्थलं अपि गतवान्। अस्मिन् घटनायां ये एकविंशत्यधिकैकशतं जनाः मृत्युमुपगताः ते उत्तर प्रदेशस्य, हरियाणायाः, मध्यप्रदेशस्य, राजस्थानस्य च निवासिनः आसन्। एकविंशत्यधिकैकशतं मृतकेषु षड् अन्यराज्याणां आसन्। एकत्रिंशत् व्रणितानां उपचारः सम्प्रति चिकित्सालये चलति, प्रायः सर्वे अपि संकटात् बहिः सन्ति। आकाशवाणी संवाददात्रानुसारं मुख्यमंत्री योगी आदित्यनाथः अवदत् यत् राज्यसर्वकारेण एडीजी आगरायाः नेतृत्वे विशिष्टान्वेषण-दलस्य गठनं कृतम् अस्ति।

 

  • विदेशमंत्री एस. जयशंकर: रूसदेशस्य विदेशमन्त्रिणा सर्गेय् लावरोव इत्यनेन सह वर्तमानकाले युद्धक्षेत्रीय-स्थितानां सहैव भारतीयनागरिकाणां विषये महतीं चिन्तां प्रकटितवान्।

हिमसंस्कृतवार्ता: ।

विदेशमन्त्री डा. एस्. जयशङ्करः अद्य कज़ाख्स्तान् देशस्य अस्ताना-नगरे स्वीयसमकक्षेण रूसदेशस्य विदेशमन्त्रिणा सर्गेय् लावरोव् इत्यनेन सह वर्तमानकाले युद्धक्षेत्रे स्थितानां भारतीयनागरिकाणां विषये महतीं चिन्तां प्रकटितवान्। डा. जयशङ्करः तेषां सुरक्षितं शीत्रं च पुनरागमनार्थं आग्रहमपि अकरोत्। उभौ मन्त्रिणौ शङ्घाई-सहयोग- शिखरसम्मेलनेतर भारत-रूसयोः द्वैपाक्षिकसह‌भागित्वविषये समकालीनविषयेषु च विस्तृतं वार्तालापम् अकुरूतां ।

 

  • New Delhi AI Conference : नवदेहल्यां आरब्धं वैश्विक-भारत-एआई-शिखर सम्मेलनम्, केन्द्रीयमन्त्री अश्विनीवैष्णवः उद्घाटनम् अकरोत्

हिमसंस्कृतवार्ता: ।

इलेक्ट्रॉनिक्स एवं सूचना प्रौद्योगिक-मन्त्री अश्विनी वैष्णवः प्रोक्तवान् यत् कृत्रिम बुद्धिमत्तायाः क्षमताम् उपयोक्तुं भारतस्य दृष्टिकोणोद्देश्यं प्रौद्योगिक्याः लोकतन्त्रीकरण इत्यस्ति। अद्य नवदिल्ल्यां वैश्विक भारत-एआई-शिखर सम्मेलनं समुद्घाटयन् श्री वैष्णवः सबलं प्रतिपादितवान् यत् प्रौद्योगिकी समेषां कृते सुलभा स्यात्। तेन प्रोक्तं यत् सर्वकारेण अनतिचिरमेव भारत-एआई-अभियानं विमोचयिष्यते। इदं अभियानं दशसहस्त्रकोटि-रुप्यात्मकं भविष्यति। तेनोदीरितं यत् समस्यानां समाधाने एआई-एकं बृहत्तमं उपकरणं भवितुमर्हति। द्विदिवसात्मके अस्मिन् सम्मेलने एआई-अनुप्रयोगः, शासन सम्बद्ध-पक्षाः समेत्य विविध विषयाणमुपरि चर्चा भविष्यति।

 

  • राहुलगान्धिनः समुदायविशेषस्योपरि टिप्पणी मालक्ष्य लोकसभायां विरोधं प्रकटितवन्तः भाजपानेतारः

हिमसंस्कृतवार्ता: ।

 

भाजपानेतारः राहुलगान्धिनः समुदायविशेषस्योपरि टिप्पणी मालक्ष्य लोकसभायां विरोधं प्रकटितवन्तः। वार्ताहरैः सह संवादे भाजपा-सांसदः बांसुरी स्वराजः आरोपितवती यत् राहुल- गान्धिना तुष्टिकरणस्य राजनीति प्रोत्साहयितुं एतादृशः आलापः कृतः। अपरत्र श्रीगान्धिना आरोपाणां निराकरणं कुर्वता कथितं यत् तस्य टिप्पण्यः भाजपायाः कृते आसन् न तु कर्त्यांचत् समुदायविशेषस्य कृते।

 

  • ISRO –  प्रथमां प्रभामण्डलकक्षां सम्पन्नं कृतवत् सौराभियानम् आदित्य- एल-1 इति अन्तरिक्षयानम्

हिमसंस्कृतवार्ता: ।

 

भारतस्य प्रथमं सौराभियानम् आदित्य- एल-1 इति अन्तरिक्षयानम् सूर्य-पृथिव्योः एल-1 इति केन्द्रं परितः प्रथमां प्रभामण्डलकक्षां सम्पन्नं कृतवत्। भारतीयान्तरिक्षानुसन्धानसङ्गठनेन, इसरो इत्यनेन ख्यापितं यत्, ह्यः अभियानेन द्वितीय-प्रभामण्डल-कक्षायां निर्विव्रतया स्थानम् सुनिश्विकृतम्। आदित्य एल-1 अभियानम्, यत् लैग्रेन्जियन-बिन्दु एल-1 इत्यत्र ‘संप्रेशितम् भारतीयसौराभियानमस्ति’ तत् गतवर्षस्य सितम्बर्-मासस्य द्वितीये दिने प्रक्षेपितं, अस्मिन् वर्षे जनवरी-मासस्य षड् दिनाङ्के निर्धारितप्रभामण्डल-कक्षायां प्रविष्टम्।

 

  • मणिपुर-जलप्रलय: – राज्यसर्वकारेण प्रभावितानाम् जनानां कृते उद्धारकार्याणि आरब्धानि

हिमसंस्कृतवार्ता: ।

 

मणिपुरे अत्यधिकवृष्ट्या आकस्मिकजलाप्लवेन च तत्रस्थेषु मण्डलेषु विनाशः उत्पन्नः अस्ति अपि च राज्यसर्वकारेण प्रभावितानाम् जनानां कृते उद्धारकार्याणि आरब्धानि। आगामिदिनद्वये राज्ये प्रचण्डवृष्टिः भविष्यति इति ऋतु विभागेन पूर्वानुमानितः अस्ति। मणिपुरे गतसोमवासरात् प्रचण्डवृष्टिः जायमाना वर्तते, अधुना नद्यः संकटस्तरात् उपरि प्रवहन्ति। इम्फालस्य ऋतुविभागेन उक्तं यत् ह्यः मणिपुरस्य पञ्श्वसु मण्डलेषु वर्षा अभवत् अपि च बिष्णुपुरमण्डले पञ्चाशीति मिलीलीटरमितवृष्ट्या सर्वाधिकवृष्टियुक्तम् मण्डलम् अभवत्। इम्फाल- उपत्यकायां प्रवहन्ति नद्यः इदानीं इम्फाल्-नगरस्य निस्रक्षेत्रं प्रभावयन्ति। राज्यसर्वकारेण अद्य सर्वासां प्रशासनिकसंस्थानां सार्वजनिकावकाशस्य घोषणा कृता, श्वः यावत् विद्यालयाः पिहिताः भविष्यन्ति। उद्धार-पुनर्वास-प्रयासान् कर्तुं, प्रचण्डवृष्ट्या, जलप्रलयेन, भूस्खलनेन च प्रभावितानां जनानां आवश्यकतां सम्पूरयितुं अहर्निशम् -नियन्त्रणकक्षं स्थापितं वर्तते। नदीघट्टानां कृते जीर्णोद्धारकार्य सम्प्रति प्रचलति।

 

  • MP News : इन्दौरनगरस्थिते श्रीयुगपुरूषधामबौधिकविकासकेन्द्रे खाद्यविषाक्ततायाः आश‌ङ्कायाः घटनायां पञ्च बालकाः मृत्युमुपगताः

हिमसंस्कृतवार्ता: ।

 

मध्यप्रदेशस्य इन्दौरनगरस्थिते श्रीयुगपुरूषधामबौधिकविकासकेन्द्रे खाद्यविषाक्ततायाः आश‌ङ्कायाः घटनायां पञ्च बालकाः मृत्युमुपगताः। इन्दौरस्य मण्डलाधिकारी आशीषसिंहः वार्ताहरान् सूचितवान् यत् अष्टत्रिंशत् यावत् बालकाः चिकित्सकीयनिरीक्षणे उपचाररताः सन्ति। आगामिषु अष्टचत्वारिंशत् होरासु वयं आश्रमे सूक्ष्मतया निरीक्षणं करिष्यामः यदि कस्मिन् अपि बालके किमपि लक्षणं दृश्यते तर्हि तस्मै तत्क्षणमेव चिकित्सालये नेश्यामः इति सः अवदत्।

 

  • अमेरिकीराष्ट्रपतिना जो बायडनेन स्वीकृतं यत् राष्ट्रपतिपदाय वादविवादे तस्य प्रदर्शनं सर्वोत्तमम् नासीत्।

हिमसंस्कृतवार्ता: ।

 

अमेरिकीराष्ट्रपतिना जो बायडनेन ह्यः स्वीकृतं यत् राष्ट्रपतिपदाय वादविवादे तस्य प्रदर्शनं सर्वोत्तमम् नासीत्। व्हाइट हाउस इत्यस्य वार्तासचिवया कैरिन् जीन्-पियरे इत्यनय स्वकीयस्य दैनिक-वार्ताहर-सम्मेलने वार्ताहराः प्रोक्तम् यत् राष्ट्रा 4/4 वादविवादः सम्यग्राभवत्, परन्तु सा प्रतिपादितवती यत् सः कार्याणि कथं सम्पादनीयं हो सम्यक्तया जानाति, आगामिभ्यः चतुर्थ्यः वर्षेभ्यः देशस्य संचालनाय सज्जः अस्ति इति। सा बाइडनस्य स्वास्थ्यस्य, तस्य मानसिकस्वास्थ्यस्य स्थितेः, आगामिचतुर्वर्षपर्यन्तं देश संचालनस्य क्षमतायाः च विषयेऽपि कचितवती ।

  • राज्यसभा अध्यक्षः जगदीप धनखड: संसदीयसत्रे विपक्षस्य आचरणं प्रति निराशां प्रकटितवान्।

हिमसंस्कृतवार्ता: – प्रवीण कुमार:

 

राज्यसभा अध्यक्षः जगदीप धनखरः ह्य: संसदीयसत्रे विपक्षस्य आचरणं प्रति निराशां प्रकटितवान्।  सत्रस्य समाप्तेः अनन्तरं समापनभाषणे धनखडमहोदयः विपक्षस्य नेतारं सदनस्य वेल-आगमनं संसदीय आचरणस्य शिष्टाचारस्य च अपमानं इति वर्णितवान्।  सदनं विचार- विमर्श- संवाद- विमर्शमन्दिरम् इति वर्णयन् सः अपि अवदत् यत् सदनस्य सदस्याः तस्य आचरणस्य अनुकरणं कुर्वन्तु इति अपेक्षा अस्ति। उपराष्ट्रपति सूचितवान् यत् राष्ट्रपते: सम्बोधनस्य धन्यवादप्रस्तावे ७६ सदस्याः भागं गृहीतवन्तः, यत्र १९ नवनिर्वाचितसदस्यानां प्रथमभाषणं च अभवत्।

You Might Also Like

*गाजोल-महाविद्यालये अन्तरराष्ट्रीय-सेमिनार् (संगोष्ठी) मानव–प्रकृति-सम्बन्धस्य दार्शनिक-साहित्यिक्-अन्वेषणम्*

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

त्रिपञ्चाशत-तमं विश्व-पुस्तक-मेलापकं नवदेहल्याम् आरब्धम्

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, India News, International news, National News, national News Headlines, अन्तर्राष्ट्रीय समाचार, अन्ताराष्ट्रीय समाचार, इण्डिया न्यूज़, राष्ट्रीय वार्ता, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Next Article राजस्थानस्य किरोड़ीलालमीणा स्वपदात् त्यागपत्रं दत्तवान्।
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?