By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: National News : हिमसंस्कृतवार्ता: – राष्ट्रीयवार्ता:  संसदः उभयोः सदनयोः राष्ट्रपतेः द्रौपदीमुर्मूवर्यायाः अभिभाषणानन्तरं धन्यवादप्रस्तावे चर्चा सञ्जाता
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > अन्ताराष्ट्रीयवार्ताः > National News : हिमसंस्कृतवार्ता: – राष्ट्रीयवार्ता:  संसदः उभयोः सदनयोः राष्ट्रपतेः द्रौपदीमुर्मूवर्यायाः अभिभाषणानन्तरं धन्यवादप्रस्तावे चर्चा सञ्जाता
अन्ताराष्ट्रीयवार्ताःराष्ट्रीयवार्ताः

National News : हिमसंस्कृतवार्ता: – राष्ट्रीयवार्ता:  संसदः उभयोः सदनयोः राष्ट्रपतेः द्रौपदीमुर्मूवर्यायाः अभिभाषणानन्तरं धन्यवादप्रस्तावे चर्चा सञ्जाता

डॉ मनोज शैल
Last updated: 2024/07/01 at 10:23 PM
डॉ मनोज शैल
Share
5 Min Read
SHARE

National News : हिमसंस्कृतवार्ता: – राष्ट्रीयवार्ता:

राष्ट्रीयवार्ताः

  • संसदः उभयोः सदनयोः राष्ट्रपतेः द्रौपदीमुर्मूवर्यायाः अभिभाषणानन्तरं धन्यवादप्रस्तावे चर्चा सञ्जाता

हिमसंस्कृतवार्ता: – नवदेहली। 

संसदः सदनयोः राष्ट्रपतेः द्रौपदीमुर्मूवर्यायाः अभिभाषणानन्तरं धन्यवादप्रस्तावे चर्चा अभवत्। भारतीयजनता पार्टीतिदलस्य सांसदः अनुरागसिंहठाकुरः चर्चावां प्रातिभाग्यं कुर्वन् गतदशनषेषु प्रशासनद्वारा विभिन्न क्षेत्रेषु कृतोपक्रमाणां प्रशंसाम् अकरोत्। तेनोक्तं यत् अर्थव्यवस्थायां वृद्धिः, जनकल्याणकार्याणि च प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे प्रशासनद्वारा समुत्थापितपदक्षेपस्य परिणामः वर्तत। इतः पूर्व विपक्षीयनेत्रा राहुलगांधिना नीटाख्यायां परीक्षायां कथितरूपेण सञ्जातानियमिततानां प्रसङ्‌गोऽपि समुत्थापितः। तेनोक्तं यत् राष्ट्रस्य संसदा विद्यार्थिभ्यः एकः सन्देशः गच्छेन् यत्र नीटेति विषयः संसदेऽपि महत्वपूर्णः अस्तीति। श्री राहुलगांधी स्वीकीये बक्तव्ये अग्निवीर-मणिपुरादि विषयानपि उत्थापितवान्। उभाभ्यां सदनाभ्यां भारतीयक्रिकेटदलद्वारा विंशति प्रति विंशतिः पुरुषविश्वचषकम्पजिये भारतीयदलाय वर्धापनानि प्रदत्तानि।

 

  • प्रधानमन्त्रिणा डिजिटल इण्डिया इत्यस्य आङ्‌ङ्ककीय-भारतोपक्रमस्य सफलतायाः नववर्षाणां सम्पूर्त्यवसरे प्रसन्नताम् अभिव्यक्ता

हिमसंस्कृतवार्ता: – नवदेहली। 

प्रधानमन्त्री नरेन्द्रमोदी आङ्ङ्ककीय-भारतोपक्रमस्य डिजिटल इण्डिया-इत्यभिनामधेयकस्य सफलतायाः स्ववर्षाणां सम्पूत्यैवसरे प्रसन्नताम् अभिव्यक्तवान्। एकस्मिन् सामाजिक-सञ्चारमाध्यम-पटले श्रीमोदी प्रत्यपादयत् यत् डिजिटलइण्डिया इति एकः सुदृढभारतस्य प्रतीको वर्तते । यः मानवजीवने सरलतां पारदर्शितां च संवर्धयत्ति। व्यतीतेषु दशवर्षेषु उल्लिखितां प्रगतिमपि असी विनियमीकृतवान् ।

 

  • New Criminal Laws : नूतनापराधिकविधयः त्वरितन्यायेन सह पीडितानाम् अधिकारान् सुनिश्चयिष्यन्ति-अमितशाहः 

हिमसंस्कृतवार्ता: – नवदेहली। 

त्रयोविंशत्यधिकद्विसहस्रतमवर्षस्य त्र्यः नूतन आपराधिक विधयः भारतीय-न्याय-संहिता, भारतीय नागरिक-सुरक्षा- संहिता, भारतीयनागरिक सुरक्षाधिनियमश्च अद्यारभ्य प्रवर्तन्ते। केन्द्रीयगृहमन्त्रिणा अमितशाहेन प्रोक्तं यत् त्रयोऽपि आपराधिकविधयः राष्ट्र सर्वातिनूततमां आपराधिकन्यायप्रणाली समारप्स्यन्ति। तेनोक्तं यत् आपराधिकन्यायप्रणाली सम्प्रति पूर्णतया स्वदेशीया वर्तते, स्वातन्त्र्यानन्तरञ्च भारतीयलोकाचारे अन्तर्निहिता चर्तते। विधित्रयस्य विषये भाषमाणः गृहमन्त्री नवदिल्ल्यां वार्ताहरान् अवोचत् यत् नूतनविधयः त्वरितन्यायेन सह पीडितानाम् अधिकारान् निश्चविस्यन्ति। गृहमन्त्रिणा प्रोक्तं यत् प्रशासनेन नूतन प्रावधानैस्सह राजद्रोहविधिः समापितोऽस्ति। महिला. शिशवश्च प्राथमिकतायां सन्ति, एतदर्थ पञ्चत्रिंशदुपभागैस्सह त्रयोदशप्रावधानयुतः एकः विशिष्टाध्यायः संयोजितोऽस्तिा।

श्रीशाहेनोक्तं यत् सामूहिक-दुराचाराय जघन्यापराधत्वात् विशतिवर्षाणां कारावासः उत्तो वा आजीवनकारावासस्य दण्डः सुनिर्धारितोऽस्ति, अवयस्कैस्सह कृतदुराचाराय मृत्युदण्डः सुनिश्चितोऽस्ति। श्रीशाहेनोक्तं यत् पीडितायाः वक्तव्यं तस्याः एवं गृहे स्वजनैस्सह संस्थाप्यैव अधिकारिभिः गृहीच्यते। विधिषु आन्तर्जालिकमाध्यमैरपि प्राथमिक्या‌ङ्कनस्य व्यवस्था वर्तते। श्रीशाहेन विधिविषयेषु दुष्प्रचाराय विपक्षिणोऽपि गर्हिताः। तेनोक्तं यत् विषयेऽस्मिन् नवहोराधिकं लोकसभायां षड्‌होराधिकञ्च राज्यसभायां चर्चा अस्ति सञ्जाता।

 

  • NTA : चलदूरभाषीय-तन्त्रांशे अपि उपलब्धो भविष्यति नीटपरीक्षापरिणामः

हिमसंस्कृतवार्ता: – नवदेहली। 

राष्ट्रियपरीक्षाभिकरणेन एनटीए इत्यनेन अद्य नीटयूजी इत्यस्याः पुनः परीक्षायाः अनन्तरम् त्रिषष्ट्यधिकपञ्चशतोन्तरक- सहस्र परीक्षार्थिनां संशोधित-परिणामः समुद्धोषितः । नवीन परिणामम् आनन्तर्यं एनटीए इत्यनेन सर्वेषा परीक्षार्थिनां उत्तीर्णश्रेण्यः अपि परिमार्जिताः। अनेन अभिकरणेन एकस्यां विज्ञप्तौ समुदीरितं यत् समेषां परीक्षार्थिनां संशोधिताङ्‌ङ्कतालिकापि अन्तर्जालपटले उपलब्धास्ति। एतस्यां विज्ञप्ती उल्लिखितमस्ति यत् त्रिषष्ट्यधिकपञ्चशताधिकैकसहस्रं परीक्षार्थिषु त्रयोदशाधिक-अष्टशतं परीक्षार्थिनः पुनः परीक्षां प्रदत्तवन्तः। परीक्षार्थिनः exame.nta.ac.in/NEET इत्यस्मिन् पटले संशोधिता‌ङ्कतालिकां द्रष्टुं शक्नुवन्ति। अवधेयं वर्तते यत् एतस्यां परीक्षायां सञ्जातप्रवञ्चनाम् अभिलक्ष्य गुजरातराज्ये केन्द्रियान्वेषणाभिकरणेन एकस्य सर्वकारीयेतर-विद्यालयस्य स्वामी निगडितः अयं विद्यालयः तेषु केन्द्रेषु अन्यतमो वर्तते यत्र मईमासस्य पञ्चमे दिनाङ्‌के नीटयूजी इति परीक्षा आयोजिता आसीता

 

  • BJP -पश्चिम बङ्गाले उपद्रविनः प्रसारयन्ति तृणमूल काङ्ग्रेसदलम्

हिमसंस्कृतवार्ता: ।

भारतीय जनतापार्टीतिदलम् अद्य पश्चिमबंगाले शासनारूढे तृणमूल काङ्ग्रेसदले आरोपं साधयत् प्रोक्तवत् यत् एतद्दलम् अस्मिन् राज्ये उपद्रविनः प्रसारयन्ति। नवदिल्ल्यां सञ्चारमाध्यमैः सह वार्ता साधयन् दलप्रवक्ता गौरव भाटियाः आरोपितवान् यत् तृणमूलकाङ्ग्रेसप्रमुखा पश्चिम ब‌ङ्गालस्य च मुख्यमन्त्री ममताबनर्जी संविधाने अपि च तस्य मूल्येषु नैव विश्वास प्रकटयति। असौ अग्रे आक्षिप्तवान् यत् सा उपद्रविभ्यः सर्वविधमुक्तिमपि अयच्छत्। सन्देशखाली प्रकरणसादृशं पश्चिमब‌ङ्गाले ममताशासनस्य कुमुखः प्रत्येकं दिक्षु प्रकटयन् अस्ति।

 

  • सूचनाप्रौद्योगिकी मन्त्रालयेन तृतीयेदिनाङ्‌के नवदिल्ल्यां द्विदिवसात्मकस्य वैश्विक-भारत-कृत्रिम-प्रज्ञासम्मेलनम् आयोज्यते

हिमसंस्कृतवार्ता:। 

सूचनाप्रौद्योगिकी मन्त्रालयेन मासस्यास्य तृतीयेदिनाङ्‌के नवदिल्ल्यां द्विदिवसात्मकस्य कृत्रिम-प्रज्ञा-सम्मेलनम् आयोज्यते। मन्त्रालयः विज्ञापितवान् यत् अस्य सम्मेलनस्य उद्देश्यं कृत्रिम प्रज्ञा-प्रौद्योगिकीनां नैतिक-प्रेरक-विकासौ प्रति भारतस्य समर्पणं प्रख्यापयन् सहयोगज्ञानयोः आदानप्रदानस्य संवर्धनमिति। भारतं कृत्रिमप्रज्ञायां वैश्विक सहभागित्वस्य प्रमुखाध्यक्षेत्वेन कार्य करिष्यति। एतस्मिन् शिखरसम्मेलने प्रौद्योगिक क्षेत्राणाम् अग्रगण्य-नीति-निर्मातारः सम्मिलिताः भविष्यन्ति, येषु सूचनाप्रौद्योगिकीमन्त्री अश्विनवैष्णवः राज्यमन्त्री जितिनप्रसादः सचिवश्च एस्. कृष्णन् इत्यादयः सन्ति।

 

  • LPG : तैल-विपणन-उद्यमैः अनिलकोषस्य पूर्व निर्धारिते मूल्ये त्रिंशत् रूप्यकाणि न्यूनीकृतानि

हिमसंस्कृतवार्ता: ।

तैल-विपणन-उद्यमैः वाणिज्यिकस्य एल.पी.जी. इत्यस्य अनिलकोषस्य पूर्व निर्धारिते मूल्ये त्रिंशत् रूप्यकाणि न्यूनीकृतानि। नवदशकिलोग्राम-मितस्य वाणिज्यिक अनिलकोषस्य मूल्यपरिवर्तनम् अद्यारभ्य क्रियान्वितं भविष्यति। मूल्ये न्यूनतायाः कारणेन दिल्यां अस्य अनिलकोषस्य शकलविक्रय-मूल्यम् अधुना षड्सप्तत्यधिक षड्शतोत्तरैकसहस्रं जातम् ।

 

  • अद्यारभ्य लन्दननगरे समारभते  विम्बल्डन टेनिस-स्पर्धा

हिमसंस्कृतवार्ता:।

विम्बल्डन टेनिस-स्पर्धा अद्यारभ्य लन्दननगरे समारभते। प्रथमे दिवसे साम्प्रतिकविजेतुः स्पेन देशस्य कार्लोस अल्कराज इत्यस्य साम्मुख्यं एस्टोनियायाः मार्क-लोजेल इत्यने सह भवति। भारतस्य सुमितनागलः वर्षेऽस्मिन् स्वकीयं विम्बलडनाभियानं प्रारभते। पुरूषयुगले भारतस्य रोहनबोपन्ना इत्यस्य, अष्ट्रेलियायाः मेथ्यू एब्डन इत्यस्य च साम्मुख्यं फ्रांसस्य मनारिनो-जियोवानि इत्येताभ्यां सह प्रभविष्यति।

 

  • भारतीयमहिला क्रिकेटदलेन अद्यापराह्णे चेन्नैनगरे एकस्याः अपि क्रीडिकायाः हानि विनैव दक्षिण- अफ्रीकादलं विस्तरेण पराजितम्

हिमसंस्कृतवार्ता:।

महिला क्रिकेट निकषस्पर्धायां चेन्नई नगरस्य एम.ए. चिदम्बरम् क्रीडाङ्गणे भारतदक्षिण अफ्रीका देशयोः दलयोर्मध्ये स्पर्धा अभवत्। क्रीडायाः चतुर्थे दिवसे दक्षिण अफ्रीकादेशीयेन दलेन समेषां क्रीडकानां हानी त्रिसप्तत्यधिकत्रिशतम् धावनाङ्कान् विरच्य सप्तत्रिंशत् धावनाङ्‌ङ्कानां लक्ष्यं प्रदत्तम्। भारतीयदलेन च एकस्यापि क्रीडकस्य हानिं विनैव लक्ष्यं सम्प्राप्य स्पर्धेय विजिता।

You Might Also Like

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

*गाजोल-महाविद्यालये अन्तरराष्ट्रीय-सेमिनार् (संगोष्ठी) मानव–प्रकृति-सम्बन्धस्य दार्शनिक-साहित्यिक्-अन्वेषणम्*

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritam, Himsanskritnews, India News, International news, National News, PM Modi, pmo, Rashtrapati, अन्तर्राष्ट्रीय समाचार, इण्डिया न्यूज़, राष्ट्रीय वार्ता, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Next Article HPCM – के. एल. ठाकुर: व्यवसायी, कमलं क्रीत्वा निर्वाचनं स्पर्धयति- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?