By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: हिमसंस्कृतवार्ता: – National News  – राष्ट्रीयवार्ता:  प्रधानमंत्री मोदी मनोगते कार्यक्रमे देशस्य विदेशेषु च जनैः सह स्वविचारं प्रकटयिष्यति।
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > हिमसंस्कृतवार्ता: – National News  – राष्ट्रीयवार्ता:  प्रधानमंत्री मोदी मनोगते कार्यक्रमे देशस्य विदेशेषु च जनैः सह स्वविचारं प्रकटयिष्यति।
राष्ट्रीयवार्ताः

हिमसंस्कृतवार्ता: – National News  – राष्ट्रीयवार्ता:  प्रधानमंत्री मोदी मनोगते कार्यक्रमे देशस्य विदेशेषु च जनैः सह स्वविचारं प्रकटयिष्यति।

डॉ मनोज शैल
Last updated: 2024/06/29 at 9:42 PM
डॉ मनोज शैल
Share
4 Min Read
SHARE

हिमसंस्कृतवार्ता: – National News  – राष्ट्रीयवार्ता:

प्रधानमंत्री मोदी मनोगते कार्यक्रमे देशस्य विदेशेषु च जनैः सह स्वविचारं प्रकटयिष्यति।

लद्दाख-दुर्घटना – एकस्मिन् युद्धाभ्यासोपक्रमे टैंकाख्ये युद्धोपकरणात्मके वाहने संजाते संकटे पञ्चसैनिकाः वीरगतिम् अलभन्

हिमसंस्कृतवार्ता: – कार्यालीय: प्रतिनिधि:। 

 

लद्दाखक्षेत्रे एकस्मिन् युद्धाभ्यासोपक्रमे टैकाख्ये युद्धोपकरणात्मके वाहने संजाते संकटे पञ्चसैनिकाः वीरगतिम् अलभन्‌ अभ्यासोपक्रमे आकस्मिकरूपेण आगतेन जलाप्लावेन दुर्घटनेयं जाता। यत्र टैकाखवं-वाहनं श्योक इति नद्यां पतितम्‌ प्रकरणेऽस्मिन् शोकं प्रकटयन् रक्षामन्त्री राजनाथसिंहः उक्तवान् यत् देशवासिनः वीरसैनिकानाम् अनुकरणीयां सेवां कदापि न विस्मरिष्यन्तीति।

 

अमरनाथयात्रा –  उभाभ्यां मार्गाभ्यां पहलगाम-बालटाल इत्येताभ्यां समारब्धाअमरनाथयात्रा

हिमसंस्कृतवार्ता: – कार्यालीय: प्रतिनिधि:। 

 

हिमालयस्य उन्नतपर्वतशृंखलायाः कश्मीरघाट्यां, श्रीअमरनाथस्य पवित्रगुहामंदिरस्य वार्षिकतीर्थयात्रा अद्य औपचारिकरूपेण समारब्धा। द्विपञ्चाशददिनान्तं यावत् प्रचाल्यमानेयं यात्रा अस्य वर्षस्य अगस्तमासस्य एकोनत्रिंशद्दिनाङ्‌के श्रावणपूर्णिमायाः शुभावसरे समाप्तिं यास्यति। श्रीअमरनाथ-यात्रायाः द्वितीयः समूहः, यो हि अद्य प्रातः जम्मोः आधारशिविरात् प्रस्थितः, अद्यापराह्ने कश्मीरघाटीं प्रविष्टा। प्रथमसमूहतः त्रिसहस्राधिकैः यात्रिभिः पवित्रगुहायां भगवतः अमरनाथस्य दर्शनं विहितमिति पूर्वसूचना वर्तते। अद्य दर्शनकर्तारः अधिकांशयात्रिणः उदग्रसेवाधारिणः आसन्निति सूचनास्ति। दृढसुरक्षा-संरक्षणे प्रतिवर्ष जायमानायाः अस्याः अमरनाथयात्रायाः द्वौ मार्गों स्तः, अनंतनागजनपदीयः पारंपरिकः अष्टचत्वारिंशत् (48) किलोमीटर-परिमाणात्मिकः सुदीर्घश्च नुनवान-पहलगाम-मार्गः, गांदरबलजनपदीयश्च चतुर्दश किलोमीटर-परिमाणात्मिकः, लघुः

परं उन्नतः बालटालमार्गः।

 

अमरनाथयात्रा – प्रधानमंत्रिणा गृहमन्त्रिणा च शुभकामना: प्रदत्ता: 

हिमसंस्कृतवार्ता: – कार्यालीय: प्रतिनिधि:। 

 

पवित्र-अमरनाथयात्रायाः शुभारम्भावसरे श्रीमता मोदिना एकस्मिन् सामाजिकसंदेशप्रसारतन्त्रवाले प्रसारिते सन्देशे तीर्थयात्रिणः वर्धापिताः, शुभाशंसिताश्च। श्रीमोदी उक्तवान् यत् बाबा-बरफानी इत्यस्य भगवतः शंकरस्य दर्शनपूजाभ्यां सन्नद्धेयं यात्रा भक्तेषु अप्रतिम-उर्जायाः संचारों विदधतीति। सः अपेक्षितिवान् यत् भगवतः शंकरस्य शुभाशीवदिः समेषां भक्तानां स्वस्तिरस्त्विति। गृहमन्त्रिणा अमितशाहेन च भक्तान्प्रति शुभकामनाः प्रयच्छता उक्तं यत् श्री-अमरनाथयात्रा भारतीयसंस्कृतेः पारम्परिकताचाः निरन्तरतायाश्च शास्वतप्रतीकास्तीति। तेनोक्तं यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे प्रशासनं श्रद्धालूनां सुरक्षित-सुगम-सुखदयात्रायै च प्रतिबद्धमस्तीति।

 

भारतीय-ऋतुविज्ञान-विभागेन प्रोक्तं यत् दक्षिण-पश्चिम-वर्षा सम्प्रति उत्तरभारतस्य कतिपय भागेषु प्रवर्धते

हिमसंस्कृतवार्ता: – कार्यालीय: प्रतिनिधि:। 

 

भारतीय-ऋतुविज्ञान-विभागेन प्रोक्तं वत् दक्षिण-पश्चिम-वर्षा सम्प्रति राजस्थान-पश्चिमी-उत्तरप्रदेश-हरियाणा-दिल्ली- मध्यप्रदेशस्य अवशिष्टभागेषु, छत्तीसगढ़, पश्चिम बंगाल, झारखण्ड, बिहारस्य कतिपय भागेषु च प्रवर्धते। विभागेनोक्तं यत् अद्य हिमाचलप्रदेश, उत्तराखण्ड, हरियाणा, चण्डीगढ़, दिल्ली, उत्तरप्रदेश, पूर्वीराजस्थान, मध्यप्रदेश, ओडिशा, कोंकण, गोवा, मध्य-महाराष्ट्रस्य कतिपयभागेषु च भूरिशः वर्षायाः सम्भावना बर्तते।

प्रधानमंत्री मोदी मनोगते कार्यक्रमे देशस्य विदेशेषु च जनैः सह स्वविचारं प्रकटयिष्यति।

हिमसंस्कृतवार्ता:- प्रवीण कुमार:

प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रातः ११ वादने अखिलभारतीयरेडियोमध्ये ‘मनोगते’ कार्यक्रमे देशस्य विदेशजनैः सह स्वविचारं प्रकटयिष्यति। एषः मासिकरेडियोकार्यक्रमस्य १११तमः प्रकरणः भविष्यति।  मोदीमहोदयेन तृतीयवारं प्रधानमन्त्रिपदं स्वीकृत्य ‘मन की बात’ इत्यस्य एषः प्रथमः प्रकरणः भविष्यति।  कार्यक्रमस्य प्रसारणं अखिलभारतीयरेडियो, दूरदर्शनस्य सम्पूर्णजालपुटे, अखिलभारतीयरेडियोजालस्थले, न्यूसोनएयरमोबाइल अनुप्रयोगे च भविष्यति। अखिलभारतीयरेडियो, राष्ट्रीय दूरदर्शन समाचार, पीएमओ, सूचनाप्रसारणमन्त्रालयस्य यूट्यूब इत्यादिषु च अपि अस्य साक्षात- प्रसारणं भविष्यति।  हिन्दी-प्रसारणस्य तत्क्षणमेव क्षेत्रीयभाषासु अपि कार्यक्रमस्य प्रसारणं भविष्यति।

जनता-दल-युनाइटेड् इत्यनेन राज्यसभा सांसदः संजयः झाः राष्ट्रियकार्यकारी अध्यक्षत्वेन नियुक्तः

हिमसंस्कृतवार्ता: – कार्यालीय: प्रतिनिधि:।

जनता-दल-युनाइटेड् इत्यनेन अद्य राज्यसभा सांसदः तथा दलस्य नेता संजय झा वलस्य राष्ट्रियकार्यकारी अध्यक्षत्वेन नियुक्तः। अवसरेस्मिन् जदयु सांसदाः मन्त्रिणः कार्यकारिणीसदस्याः महासचिवाः, सचिवाः राज्याध्यक्षाः च उपस्थिताः आसन्, यत्र दलस्य राष्ट्रियकार्यकारीसभायां श्री झाः नियुक्तः। नियुक्तेः अनन्तरं प्रसार-तन्वैः सह संलपन् श्री झाः अवदत् यत् बिहासाज्ये आगामि-वर्षे विधानसभानिर्वाचनं मनसि निधाय दलस्य विस्तारे प्रयासः भविष्यति। पुनः एकवारं जनतादलसंयुक्तस्य सर्वकारः निर्मास्यत्ति इति प्रतिपादयन् सः उक्तवान् यत् सद्यः एवं सम्पन्ने लोकसभानिर्वाचने एनडीए पक्षस्य प्रभावशालिनं प्रदर्शनं जनानां इच्छायाः प्रमाणम् अस्ति इति सः अवदत्। श्रीसंजयः एतदपि घोषितवान् यत् जदयु अस्मिन् वर्षे झारखण्डे विधानसभानिर्वाचने अपि प्रतिस्पर्धा करिष्यत्ति। इदानीं जदयु वलम् अपि बिहारस्य कृते केन्द्रसर्वकारात् विशेष-सहाय्यपुटके अयाचत्। दलस्य राष्ट्रियकार्यकारिणी सभायाः अनन्तरं बिहारमन्त्री जदयु नेता च डॉ. अशोक चौधरी इत्यनेन उक्तंयत् बिहाराय विशेष सहाय्यपुटकस्य अभ्यर्थना जदयु इत्यस्य पुरातनी अपेक्षा अस्ति। सः एतदपि अवदत् यत् लोकसभायां राजसभायां च दलनेतारः शीघ्रमेव प्रधानमन्त्रिणा नरेन्द्रमोदिना सह मिलित्वा स्वविषयं प्रस्तोष्यन्तीति

अस्मदापदुद्धार-बलस्य उपस्थितौ एव संकटग्रस्तानां जनानां मनोबलम् अप्रतिमतया वरीवर्धितं भवति – गृहमंत्री

हिमसंस्कृतवार्ता: – कार्यालीय: प्रतिनिधि:।

गृहमन्त्री अमितशाहेन उक्तं यत् राष्ट्रम् आपदाप्रबन्धनक्षेत्रे सर्वोत्तमरीत्यः स्वीकुर्वदस्ति। तेनोक्तम् यत् एनडीआरएफ इति राष्ट्रिय-आपदुद्धार-बलम् सर्वदैव आपदायाः प्रसंगे शून्यहताहतस्य लक्ष्यं विदधाति। ‘विजय’ इत्याख्यस्य पर्वतारोहणाभियानस्यावसरे भाषमाणः श्रीशाहः उक्तवान् यत् साम्प्रतिके काले न केवलं भारते अपितु विश्वस्मिन् कुत्रापि आपदुद्धारस्य आवश्यकता भवति राष्ट्राणि भारतीय आपदुद्धार-वलस्य मुखापेक्षिणः भवन्ति। श्रीशाहः उक्तवान यत् परिस्थितिः कथमपि कठिनतरा स्यात् परं यदि तत्र अस्मदापदुद्धार-बलस्य एकोऽपि सदस्यः उपस्थितोऽस्ति चेत् संकटग्रस्तानां जनानां मनोबलम् अप्रतिमतया वरीवर्धितं भवति। अवसरेऽस्मिन् केन्द्रीयगृहसचिवः अजयकुमार भल्ला एनडीआरएफइत्यस्य महानिदेशकः पीयूष-आनन्दोऽपि उपस्थितः आसीत्।

You Might Also Like

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, India News, International news, National News, अन्तर्राष्ट्रीय समाचार, इण्डिया न्यूज़, राष्ट्रीय वार्ता, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Next Article Himachal News : मलिनावशेषे वाहनानां मग्नस्य अनन्तरं सर्वकारः सचेष्टितः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?