By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: हिमसंस्कृतवार्ता: – National News – राष्ट्रीयवार्ता:  राष्ट्रपतिः द्रौपदी मुर्मू: संसदः उभे सदने संयुक्तोपवेशने सम्बोधितवती
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > हिमसंस्कृतवार्ता: – National News – राष्ट्रीयवार्ता:  राष्ट्रपतिः द्रौपदी मुर्मू: संसदः उभे सदने संयुक्तोपवेशने सम्बोधितवती
राष्ट्रीयवार्ताः

हिमसंस्कृतवार्ता: – National News – राष्ट्रीयवार्ता:  राष्ट्रपतिः द्रौपदी मुर्मू: संसदः उभे सदने संयुक्तोपवेशने सम्बोधितवती

डॉ मनोज शैल
Last updated: 2024/06/27 at 9:34 PM
डॉ मनोज शैल
Share
4 Min Read
SHARE

हिमसंस्कृतवार्ता: – National News – राष्ट्रीयवार्ता: 

राष्ट्रपतिः द्रौपदी मुर्मू: संसदः उभे सदने संयुक्तोपवेशने सम्बोधितवती।

हिमसंस्कृतवार्ता: – नवदेहली। 

राष्ट्रपतिः द्रौपदी मुर्मूः संसदः उभे सदने संयुक्तोपवेशने सम्बोधितवती। सा अवदत् अद्यतन परीक्षापत्रस्रवणस्य घटनाम् अन्वेषयितुम् अपराधिनः दण्डयितुम् च सर्वकारः प्रतिबद्धः अस्ति। राष्ट्रपतिः द्रौपदी मुर्मूः उक्तवती यत् परीक्षापत्रस्रवणस्य निष्पक्षतया परीक्षणाय दोषिभ्यक्ष कठोरः दण्डः स्वात्। एतदर्थं प्रशासनं प्रतिबद्धम् अस्ति। राष्ट्रपतिः अवदत् यत् प्रतियोगि-परीक्षा भवेत् अथवा सर्वकारीयनियुक्तिप्रक्रिया स्यात् सर्वेषु विषयेषु पूर्णपारदर्शितायाः, सत्यनिष्ठतायाः आवश्यकता वर्तत। मम प्रशासनम् एतादृशानां चिन्ताप्रदानां परीक्षा- पत्राणाम् प्राकासारण- घटनानां निष्पक्षतया अन्वेषणं कृत्वा अपराधिभ्यः कठोरं दण्डं दातुं प्रतिबद्धम् अस्ति। परीक्षासु अनियमिततानां विरोधे संसदा अपि कठोरम् संविधानम् निर्मितम्। राष्ट्रपतिः मुर्मूः उक्तवती यत् जम्मू-कश्मीरस्य जनाः सद्यः सम्पन्ने लोकसभानिर्वाचने मतदानानि दत्वा देशस्य शत्रुभ्यः समुचितं उत्तरं दत्तवन्तः। कश्मीर उपत्यकायां मतदानेन बहुदशकानां मतदानस्थ अभिलेखाः भग्नाः जाताः। संशोधन- प्रदर्शन- परिवर्तनानाम् सङ्कल्पेन भारतस्य द्रुततरा वर्धमाना अर्थव्यवस्था कृता इति उक्तवती। राष्ट्रपतिः द्रौपदी मुर्मूः। राष्ट्रपतिः द्रौपदी मुर्मूः उक्तवती यत् संशोधनस्य, प्रदर्शनस्य, परिवर्तनस्य च संकल्पेन भारतं विश्वस्य द्रुततरा वर्धमाना अर्थव्यवस्थारूपेण जातम्।

 

राष्ट्रपति-नारी-सशक्तिकरणे किम् अवदत् 

 

नारी सशक्तिकरण विषये राष्ट्रपत्तिः प्रोक्तवती यतः नारी-नेतृत्वे विकासः दरीदृश्यते। नारी-शक्ति-वन्दन-अधिनियमे लोकसभायां राज्य- सभायाम् च आरक्षणेन एतत्।

 

अमरीकी-कांग्रेस-दलस्य निम्न सदनेन पाकिस्ताने जायमानः सामान्य निर्वाचनस्य स्वतन्त्रान्वेषणस्य कृते प्रस्तावः पारितः

हिमसंस्कृतवार्ता: ।

अमरीकी-कांग्रेस-दलस्य निम्न सदनेन पाकिस्ताने जायमानस्य सामान्य-निर्वाचनस्य स्वतन्त्र-अन्वेषणस्य प्रस्तावः स्वीकृताः। पाकिस्ताने लोकतन्वाय मानवाधिकारं प्रति च समर्थानाय प्रदीयमाने प्रस्तावे चतुर्विशत्याधिक द्विसहखतं वर्षस्य सामान्य-निर्वाचने अनियमिततायाः प्रकरणे स्वतन्त्र, निष्पक्ष च निर्वाचनस्य महत्व-विषये बलं प्रदत्तम्। अत्रान्तरे प्रस्तावे विषये प्रतिक्रियां प्रकटयन् पाकिस्तानस्य रक्षामन्त्री अस्य आलोचनां कृतवान्। एषः प्रस्तावः पञ्चाशितिः प्रतिशतं सदनस्य सदस्यानां सहयोगेन स्वीकृतः। अष्टनवतिः प्रतिशतं सदस्यैः अस्य समर्थनन मतदानं कृतम्। पाकिस्ताने अस्मिन् वर्षे फरवरी मासस्य अष्ट-दिनांक सामान्य-निर्वाचनम् कारितम्।

 

Meteorological Department : ऋतु-विज्ञान-विभागेन मध्यमा-वृष्ट्याः पूर्वानुमानं कृतम्।

हिमसंस्कृतवार्ता: – नवदेहली।

ऋतु-विज्ञान-विभागेन अद्य जम्मू-कश्मीर, लद्दाख, गिलगित-बाल्टिस्तानः, मुजफ्फराबादः, हिमाचलप्रदेशः, पंजाब, हरियाणा, चंडीगढ़, पश्चिमी-राजस्थानः एतेषु राज्येषु मध्यमा वृष्टयाः पूर्वानुमानं कृतवान्। विभागस्य अनुसारेगण असम, मेघालय, अंडमान-निकोबार द्वीप-समूह, पश्चिम-बंगाल, सिक्किम, बिहार च राज्येषु अतिवृष्टयः संभावनां व्यक्ता। विभागेन प्रोक्तं यत् आगामि दिवसात् जूनमासस्य त्रिंशत् दिनांक पर्यन्तं झारखण्डः, ओडिशा, उत्तराखण्डः, पूर्वी-राजस्थानः, पूर्वी-पश्चिमी उत्तरप्रदेशः, हिमाचलप्रदेशः, हरियाणा, पंजाब च राज्येषु अवधानेन अतिवृष्टेयः सम्भावना अस्ति। दिल्ली-नगरे न्यूनतम तापमानम् अष्टाविंशति डिग्री सेल्सियसपरिमितम् अधिकतम तापमानः नवत्रिंशत् डिग्री सेल्सियस्सपरिमितं भवतुं शक्यते इति।

 

राज्यसभायां निर्वाचितानां नूतनसांसदानां शपथवचनम्

हिमसंस्कृतवार्ता: – नवदेहली।

गुरुवासरे बिहार-झारखण्ड-मध्यप्रदेश राज्याणां नवनिर्वाचिताः षड् सांसदाः राज्यसभायाः सदस्यत्वेन शपथं गृहीतवन्तः। राज्यसभायाः अध्यक्षः जगदीप-धनखड़े एतान् नवनिर्वाचितान् सांसदः शपथवचनं दापितवान्। कांग्रेसदलस्य सासदः अखिलेश-प्रसाद-सिंहः झारखण्ड- मुक्ति-मोर्चा इत्यस्य नेता डी. सरफराज अहमदः भारतीय जनता पार्टीति-दलस्य नेता प्रदीप कुमार वर्मा, बंशीलाल गुर्जर, माया नारोलिया बालयोगी उमेशनाथः च उच्चसदनस्य सदस्यरूपेण शपथं गृहीतवन्तः।

 

महाराष्ट्र-विधानसभायां प्रथमे दिने विपक्षीदलस्य विरोधप्रदर्शनम्

 

महाराष्ट्र-राज्ये विधानसभायाः प्रावृट-सत्रस्य प्रथम-दिने विपक्षि दलेन ऋणक्षमा-प्राकृतिक आपदाभिः प्रभावितानां कृषकाणां समस्यानां विषये विरोध-प्रदर्शनं कृतः। विधानसभायां विपक्षस्य नेत्ता विजय वडेट्टीवारः कांग्रेस-दलस्य नेता जगताप, रवीन्द्र धांगेकर, अनिल-देशमुखः च अनेकेषु विषयेषु सर्वकारस्य आलोचनां कृतवन्तः।

 

देहल्याः जलमन्त्री अतिशी चिकित्सालयात् आनीता

हिमसंस्कृतवार्ताः। दिल्ल्याः जलमंत्रिणा आतिश्याः लोकनायक जयप्रकाश नारायण-अस्पताल इत्यत्र चिकित्सा प्रचलति। सा  चिकित्सालयात् आनीता। अन्नत्यागस्य समये सोमवासरे तस्याः शर्करा स्तरः अपचितः। अतः सा चिकित्सालये पंजीकारिता आसीत्।

 

नवदेहल्यां ‘भारते वन हेल्थ इत्यस्य गतिविधये विधि-पर्यावरण-आकलने राष्ट्रीय-परामर्शः’ इत्यस्मिन् विषये द्विदिवसीय कार्यशालायाः उद्घाटनम्

हिमसंस्कृतवार्ताः। नीति-आयोगस्य सदस्यः डॉ.वी. के. पॉल इत्यनेन  नवदिल्ल्या स्वास्थ्य-परिवार-कल्याण मन्त्रालस्य सचिवः अपूर्व-चन्द्रा इत्यस्य उपस्थितौ द्विदिवसीय कार्यशालायाः उद्घाटनं कृतवान्। कार्यशालायाः शीर्षकं ‘भारते वन हेल्थ इत्यस्य गतिविधये विधि-पर्यावरण-आकलने राष्ट्रीय-परामर्शः’ इति अस्ति। कार्यशालायाः मुख्य उद्देश्यं अस्ति यत् वन हेल्थ इत्यस्य गतिविधिं प्रभावयितुं करणस्य उपलब्ध-विधिनां आकलनं सम्मिलितः अस्ति इति।

 

लालकृष्ण आडवाणी एम्सचिकित्सालयात् अवकाशं प्राप्तवान्, सम्यकस्ति तस्य स्वास्थ्यम्

हिमसंस्कृतवार्ताः। भारतीय जनता पार्टीति दलस्य वरिष्ठ नेता लालकृष्ण आडवाणी अखिल भारतीय आयुर्विज्ञान संस्थाने गतरात्रौ स्वास्थ्य-विकृति कारणात् चिकित्सायां आसीत्। सम्प्रति ततः अवकाश प्रदत्तः। भारतीय आयुर्विज्ञान संस्थानेन (एम्स) उक्तं यत वृद्धावस्थावशात् स्वास्थ्य-समस्या- समागता अस्ति। सम्प्रति सम्यक् निरीक्षणाधीनम् च स्वास्थ्यम् अस्ति।

 

केन्द्रीय-अन्वेषणप्रभागेन नीटप्रपत्रप्रकरणे द्वौ जनौ निगृहीतौ

केन्द्रीय-अन्वेषण प्रभागेन द्वौ-परीक्षा-पत्र-सवस्य प्रकरणे द्वौ जनौ निगृहीती। वार्ताहरेण सूचितं यत् एतौ आरोपिणौ बिहारे पटनाततः निगृहीतौ।

You Might Also Like

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, India News, International news, National News, President of India, अन्तर्राष्ट्रीय समाचार, इण्डिया न्यूज़, राष्ट्रपतिः, राष्ट्रपति द्रोपदी मुर्मू, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Next Article HPCM : प्रारम्भिक-बाल्यकाल-परिचर्या, शिक्षा- अनुशिक्षक- योजना कार्यान्विता भविष्यति
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?