By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP Politics :  विपक्षस्य नेता जयरामठाकुरः अवदत्– मुख्यमन्त्री सुक्खुः अष्टहोरापर्यन्तं काङ्ग्रेसनेतारं बन्धकं कृतवान्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > HP Politics :  विपक्षस्य नेता जयरामठाकुरः अवदत्– मुख्यमन्त्री सुक्खुः अष्टहोरापर्यन्तं काङ्ग्रेसनेतारं बन्धकं कृतवान्
राजनैतिकवार्ताहिमाचलवार्ता

HP Politics :  विपक्षस्य नेता जयरामठाकुरः अवदत्– मुख्यमन्त्री सुक्खुः अष्टहोरापर्यन्तं काङ्ग्रेसनेतारं बन्धकं कृतवान्

डॉ मनोज शैल
Last updated: 2024/06/21 at 11:46 AM
डॉ मनोज शैल
Share
2 Min Read
SHARE

HP Politics :  विपक्षस्य नेता जयरामठाकुरः अवदत्– मुख्यमन्त्री सुक्खुः अष्टहोरापर्यन्तं काङ्ग्रेसनेतारं बन्धकं कृतवान्

हिमसंस्कृतवार्ता: – नालागढ़म्। हिमाचलविधानसभाया: उपनिर्वाचने अद्यत्वे नामाङ्कनस्य क्रम: प्रचलति। अस्मिन्नैव क्रमे भाजपाप्रत्याशी के. एल. ठाकुर: गुरुवासरे नालागढ़े नामांकनपत्रं प्रस्तुतवान्। तदनन्तरं नालागढनगरे जनसभा अभवत्, यस्मिन् भाजपानेतारः काङ्ग्रेससर्वकारे आक्रमणं कृतवन्तः। मुख्यमन्त्रिणः एकाधिपत्यकारणात् एतत् उपनिर्वाचनं भवति इति विपक्षनेता जयरामठाकुरः अवदत्। सः विधायकैः सह यया क्रूरतायाः व्यवहारं कृतवान् तस्य कारणात् के. एल. ठाकुरेण सहितम् अन्यै: विधायकै: त्यागपत्रं दत्तम्। गतदिवसे एव सम्पूर्णं राज्यं दृष्टवान् यत् एकं काङ्ग्रेसनेतारं मुख्यमन्त्री अष्टहोरापर्यन्तं बन्धकरूपेण धारयित्वा तस्य वचनं बलात् कर्तुं प्रयतितवान् इति आरोपं कृतवान्। अस्य सर्वकारस्य एकाधिपत्यविरुद्धं विपक्षः आरम्भादेव स्वरं उत्थापयति। सांसद: अनुरागठाकुरः अवदत् यत् सम्प्रति काङ्ग्रेसकार्यालयस्य बहिः महिलानां दीर्घाः पङ्क्तयः स्थिताः सन्ति। यदा ता: एकैकं लक्षरूप्यकाणि याचन्ते परन्तु तेषां वित्तकोषसंख्यासु धनं न निक्षिप्तम्। नालागढस्य जनाः भाजपया सह सन्ति, काङ्ग्रेसेन केवलं मिथ्याप्रतिज्ञाः कृताः, एकामपि प्रतिज्ञां न पूरितवती। भाजपाप्रदेशाध्यक्ष: डॉ. राजीवबिन्दल: इत्यनेन उक्तं यत् अस्य सर्वकारस्य नूतनं पदं प्राप्तम्। अयं सर्वकारः पति-पत्न्यो: मित्राणां च सर्वकारः अस्ति। कोषः जनसामान्यस्य कृते रिक्तः अस्ति, मन्त्रिमण्डलपङ्क्तौ वितरितुं विक्रयणार्थं मन्त्रिमण्डलस्य फलकं स्थापितम् अस्ति। नालागढस्य कृते विद्युत्प्रदानार्थं सर्वकारस्य धनं नास्ति। चौपालक्षेत्रे ११ कन्यानां उत्पीडनस्य प्रकरणं प्रकाशं प्राप्तम् इति उक्तवान्, यत् लज्जाजनकम् अस्ति। राज्ये विधिव्यवस्था अव्यवस्थिता अस्ति।

खननतस्कराणां प्रति काङ्ग्रेसप्रत्याशिन: संरक्षणम्: भाजपा प्रत्याशी

भाजपाप्रत्याशी केएल. ठाकुरः उक्तवान् यत् काङ्ग्रेसस्य प्रत्याशी कुतः धनं प्राप्नोति इति कोऽपि न जानाति। अत्र काङ्ग्रेस-अभ्यर्थिनः बहिः आगच्छन्ति, स्थानीयाः न सन्ति, ते पूर्वमेव अनेकस्थानात् पलायिताः सन्ति। काङ्ग्रेस- अभ्यर्थिनः खनन-तस्कर-सङ्घाय रक्षणं ददति इति आरोपः कृत:।

You Might Also Like

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

TAGGED: bjp, BJP Himachal, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himachal news, Himsanskritnews, HP Bye Election, HP Election, HP Politics, Jai Ram Thakur, भाजपा, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल चुनाव
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HPCM : पेखुबेला-सौर-ऊर्जा-परियोजनाया: लोकार्पणम्, प्रतिवर्षं ६.६१ कोटिमात्रकं विद्युतोत्पादनं भविष्यति
Next Article HPBOSE Dharmshala: हिमाचलविद्यालयीयशिक्षामण्डलस्य जालपुटं दुर्घटितं, संदेश- (एस.एम.एस.) द्वारा अनुक्रमाङ्का: उपलभ्यन्ते
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?