By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: National News : लोकसभा-निर्वाचनस्य मङ्गलवासरे भविष्यमाणायै मतगणनायै सर्वाः व्यवस्थाः सज्जताश्च सम्पूरिताः।
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > National News : लोकसभा-निर्वाचनस्य मङ्गलवासरे भविष्यमाणायै मतगणनायै सर्वाः व्यवस्थाः सज्जताश्च सम्पूरिताः।
राष्ट्रीयवार्ताः

National News : लोकसभा-निर्वाचनस्य मङ्गलवासरे भविष्यमाणायै मतगणनायै सर्वाः व्यवस्थाः सज्जताश्च सम्पूरिताः।

डॉ मनोज शैल
Last updated: 2024/06/03 at 11:00 PM
डॉ मनोज शैल
Share
6 Min Read
SHARE

National News :

  • लोकसभा-निर्वाचनस्य मङ्गलवासरे भविष्यमाणायै मतगणनायै सर्वाः व्यवस्थाः सज्जताश्च सम्पूरिताः। आन्ध्रप्रदेश-ओडिसा-विधानसभयोः विधानसभासनानाम् मतगणना अपि भविष्यति।
  • लोकसभा-निर्वाचने चतुष्षष्टिः कोट्यधिकैः मतदातृभिः निज-मताधिकारस्य प्रयोगं कृत्वा कीर्तिमानं संस्थापितम्। एतस्मिन् लोकसभा-निर्वाचने एकत्रिंशत्-महिला-मतदात्र्यः मतदानं कृतवत्यः यत् विश्वस्मिन् सर्वाधिकम् अस्ति।
  •  प्रधानमन्त्रिणा नरेन्द्रमोदिना समुदीरितं यत् एकविंशतिशताब्द्याः विश्वं बहुभिः आशाभिः सह भारतं प्रति पश्यति।
  • मध्यप्रदेशराज्ये ह्यः राजस्थान-राजगढ-सीम्नि कर्षयानस्य परिवृतात् त्रयोदशजनाः दिवंगताः जाताः पञ्चदश च व्रणिताः।
  • मतगणनानुमानात् प्राक् भारतीय-पीठ-सूचकांकः ‘निफ्टी’ सेंसेक्स उभयोः त्रिप्रतिशताधिकं वृद्धिः जाता। एतादृशी वृद्धिः प्रथमवारमेव अवलोक्यते।

 

 

भारतस्य लोकसभानिर्वाचने ६४ कोटिभ्यः अधिकाः मतदातारः भागं गृहीतवन्तः, येन विश्वविक्रमः निर्मितः- मुख्यनिर्वाचनायुक्तः राजीवकुमारः

हिमसंस्कृतवार्ता:- प्रवीणकुमार:

मुख्यनिर्वाचनायुक्तः राजीवकुमारः उक्तवान् यत् भारतस्य लोकसभानिर्वाचने भागं गृहीत्वा ६४ कोटिभ्यः अधिकाः मतदातारः विश्वविक्रमं निर्मितवन्तः। अद्य नवदिल्लीनगरे पत्रकारसम्मेलनं सम्बोधयन् कुमारमहोदयः अवदत् यत् जी-७-देशेभ्यः सर्वेभ्यः अमेरिका, इंग्लैंड, फ्रान्स, जर्मनी, इटली, जापान, कनाडादेशेभ्यः मतदातृनां संख्यायाः सार्धगुणा अस्ति। सः अवदत् यत् विश्वे सर्वाधिकनिर्वाचने अस्मिन् लोकसभानिर्वाचने ३१ कोटिभ्यः अधिकाः महिलामतदातारः मतदानं कृतवन्तः। सः अपि अवदत् यत् २०१९ तमस्य वर्षस्य सामान्यनिर्वाचने ५४० पुनर्निर्वाचनानां विपरीतम् अस्मिन् निर्वाचने केवलं ३९ पुनर्निर्वाचनानि एव अभवन्।

मुख्यनिर्वाचन- आयुक्तः अवदत् यत् अस्मिन् लोकसभानिर्वाचने हिंसायाः कोऽपि प्रमुखः घटना न अभवत्। सः अवदत् यत् २०१९ तमे वर्षे ३५०० कोटिरूप्यकाणां तुलनायां १०,००० कोटिरूप्यकाणि गृहीतानि। अस्मिन् सामान्यनिर्वाचने आदर्शाचारसंहितायां उल्लङ्घनस्य ४९५ विपत्तिसु ९० प्रतिशताधिकानां निराकरणं कृतम्।

सुदृढगणनाप्रक्रियायाः सम्बद्धविवरणानि प्रकाशयन् मुख्यनिर्वाचनआयुक्तः अवदत् यत् गणनाकेन्द्रेषु केन्द्रीयसशस्त्रपुलिसबलस्य त्रिस्तरीयसुरक्षा आरोपिता अस्ति। प्रत्येकं गणना-उत्पीटिकाया: सूक्ष्मपर्यवेक्षकैः सह गणनाकेन्द्रेषु होरा-चतुर्विंशतिभ्य: सीसीटीवी- निरीक्षणं भविष्यति। सः अवदत् यत् विपक्षदलप्रतिनिधिमण्डलेन आयोगस्य समक्षं ये विषयाः उद्धृताः सर्वे विषयाः निराकृताः। केन्द्रीयगृहमन्त्री अमितशाहः निर्वाचनाधिकारिणः आहूतवान् इति काङ्ग्रेसनेता जयरामरमेशस्य आरोपस्य विषये सः अवदत् यत् मिथ्याप्रचारं  सम्यक् न अस्ति।

Election Results : लोकसभा-निर्वाचनस्य मङ्गलवासरे भविष्यमाणायै मतगणनायै सर्वाः व्यवस्थाः सज्जताश्च सम्पूरिताः

हिमसंस्कृतवार्ता – नवदेहली। 

लोकसभा-निर्वाचनस्य श्वः भविष्यमाणायै मतगणनायै सर्वाः व्यवस्थाः सज्जताश्च सम्पूरिताः। आन्ध्रप्रदेश-ओडिसा-विधानसभयोः केषाञ्चित् विधानसभा सनानाम् उप- निर्वाचनस्यापि मतगणना श्वो भविष्यति। मतगणना-प्रक्रिया प्रात अष्टवादने समारप्स्यते। निर्वाचनायोगेन प्रोदीरितं यत् परिणामाः आयोगस्य अन्तर्जालपटले results.eci.gov.in इत्यत्र उतवा मतदातृ-साहाय्य-अनुप्रयोगेऽपि उपलब्धाः भविष्यन्ति।

जम्मूकश्मीरे त्रिस्तरीया सुरक्षा

जम्मूकश्मीरे लोकसभा-निर्वाचनस्य मतगणनायाः एकदिनात् पूर्व जम्मू-कठुआ-जनपदयोः मतदानकेन्द्राणि परितः त्रिस्तरीया सुरक्षा व्यवस्थिता जाता। आकाशवाण्याः जम्मू-वार्ताहरः सूचनां प्रख्यापितवान् यत् जम्मूजनपदस्य निर्वाचनाधिकारी सचिनकुमारवैश्यः मतगणनास्थलेषु सुरक्षोपयानां आवश्यक-सौविध्यानाञ्च व्यापकीं समीक्षां कृतवान्। प्रशासनेन कर्मचारिणः सम्पूर्णरूपेण प्रशिक्षिताः कृताः। अथ च मतगणनाकेन्द्रेषु निगूढ-परिदर्शि-यन्त्राणि स्थापितानि दृश्याङ्कव्यवस्थापि विहितास्ति। कठुआ-जनपदे उधमपुर-कठुआ-लोकसभा- क्षेत्रायापि त्रिस्तरीय सुरक्षाव्यवस्था सम्पादिता। वरिष्ठारक्षि-अधीक्षकः अनायतअली-चौधरी अवोचत् यत् सुरक्षायाः व्यापक प्रबन्धनं कृतमस्ति। राष्ट्र-विरोधिने तत्वाय सूक्ष्म दृष्टिरपि स्थापिता।

PM Modi : प्रधानमन्त्रिणा नरेन्द्रमोदिना समुदीरितं यत् एकविंशतिशताब्द्याः विश्वं बहुभिः आशाभिः सह भारतं प्रति पश्यति

हिमसंस्कृतवार्ता । 

प्रधानमन्त्रिणा नरेन्द्रमोदिना समुदीरितं यत् विश्वं एकविंशतिशतकस्य बहुभिः आशाभिः भारतं प्रति पश्यति। सः अकथयत् यत् भारतस्य शासनप्रतिरूपं विश्वस्य अनेकेभ्यः देशेभ्यः उदाहरणमस्ति। पत्रमाध्यमेन देशस्य जनैः सह स्वविचारान् प्रस्तुतं कुर्वन् मोदी महोदयः अवदत् यत् अद्यत्वे जनसमर्थकसुशासनं, आदर्शजनपदं, आदर्शखण्डं च इत्यादिविषयेषु वैश्विकस्तरे चर्चा विधीयते। तेनोदीरितं यत् केवलं दशवर्षेषु पंचविंशतिकोटिः निर्धनजनानां सशक्तिकरणं महत्वपूर्ण वर्तते। श्रीमोदी अब्रवीत् यत् भारतप्रशासनं निर्धनानां सशक्तिकरणात् अन्तिमं कार्यं पर्यन्तं स्वकीयमुत्तमं प्रकारेण योगदानं प्रदत्तम् येन विश्वस्मिन् अपि विश्वे भारत्तं श्रेष्ठतमं स्थानं भजते। असौ चतुषु दिक्षु गतिः, मापनं, अवसरः, स्तरः इत्येतेषु द्रुतगत्या कार्यान्वयनस्यावश्यकता वरीवर्ति।

मध्यप्रदेश-दुर्घटना : मध्यप्रदेशराज्ये ह्यः राजस्थान-राजगढ-सीम्नि कर्षयानस्य परिवृतात् त्रयोदशजनाः दिवंगताः पञ्चदश च व्रणिताः

हिमसंस्कृतवार्ता। 

मध्यप्रदेशराज्ये जनसम्मर्दकाले ह्यः राजस्थान-राजगड-सीम्न्नि कर्षयानस्य परिवृतात् त्रयोदशजनाः दिवंगताः जाताः पञ्चदश च व्रणिताः। राजगढस्य अधिकारिणा हर्ष-दीक्षितेन वार्ताहराः संसूचिताः यत् केचन् जनाः राजस्थान-राज्यात् मध्यप्रदेश राज्यं प्रति कर्षयानेन एकस्मै विवाहसमारोहाय गच्छन्तः आसन्, मार्गे राजस्थान-राजगढ़-सीम्नि कर्षयानं परिवृत्तम्, परिणामतः त्रयोदशजनाः मृताः पञ्चदश च व्रणिताः अभवन्। द्वौ जनौ गभीरावस्थायां चिकित्सालये उपचाररतौ स्तौ। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अवदत् यत् राज्यप्रशासनं राजस्थान-प्रशासनस्य सम्पर्क अस्ति इति। व्रणितानां जनानाम् उपचारः राजगढ़स्य जनपदीय-चिकित्सालये प्रचलति। गभीरावस्थायां निहिताः जनाः भोपालं प्रति सम्प्रेषिताः।

Sensex : मतगणनानुमानात् प्राक् भारतीय-पीठ-सूचकांकः ‘निफ्टी’ सेंसेक्स उभयोः त्रिप्रतिशताधिकं वृद्धिः जाता। एतादृशी वृद्धिः प्रथमवारमेव अवलोक्यते।

हिमसंस्कृतवार्ता। 

भारतीय-पीठ-सूचकांकः ‘निफ्टी’ सेंसेक्स उभयोः त्रि प्रतिशताधिकं वृद्धिः जाता। एतादृशी वृद्धिः प्रथमवारमेव अवलोक्यते। सेंसेक्स यः त्रयशीतिः अधिक पञ्चशतोत्तर षट्सप्ततिः सहस्र तः उद्घटितं आसीत् अधुना च वर्धित्वा अष्टत्रिंशतोत्तर सप्तशताधिक षट्सप्ततिः सहस्र संजातम्। अयं हि त्रिंशत्-सूचकांकेषु सर्वकालिकः उच्चस्तरः वर्तते। अवधेयं च अंते सेंसेक्स इत्यनेन सप्ताधिक पंचशतोत्तर द्वि सहस्र अंक उतवा त्रि दशमलव त्रीणि 5 नव प्रतिशतं वृद्धिः अजायत। इत्यमेव निफ्टी पञ्चाशत् यः सप्तत्रिंशत् अधिक त्रिशतोत्तर त्रयोविंशतिः सहस्र अ‌ङ्कात् साम्प्रतं हि नवत्रिंशत् अधिक त्रिशतोत्तर त्रयोविंशतिः सहस्र भूत्वा सर्वकालिकः उच्चस्तरः जातः।

ऋतु-विज्ञान-विभागः – दिनद्वये पश्चिमोत्तर-मध्य-पूर्वीय भारते भीषणातपे अपचितिः भविष्यति इति सम्भाव्यते

हिमसंस्कृतवार्ता। 

ऋतु-विज्ञान-विभागेन अग्रिमे दिनद्वये पश्चिमोत्तर-मध्य-पूर्वीय भारते भीषणातपे अपचितिः भविष्यति इति सम्भाव्यते। ऋतु-विभागस्य वरिष्ठ वैज्ञानिकः आर. के. जेनामणिः प्रोक्तवान् यत् एतेषु क्षेत्रेषु जनेभ्यः भीषण-ताप-प्रकोपात् सुखं मेलिष्यति। विभागेन आगामिषु सप्तदिवसेषु विद्युद्ध्वनिना तीव्रवायुनाच सह पश्चिमबंगाले पूर्वोत्तरभारते च मध्यवृष्टेः अनुमानः अभिव्यक्तः। अपि च दक्षिणभारते केरल-लक्षद्वीप-अण्डमान निकोबार-द्वीप- कर्णाटकेषु एतादृशी स्थितिः भविष्यति।

जम्मू-कश्मीरस्य उपराज्यपालेन देशस्य विभिन्न क्षेत्राणां व्यापारोद्योग- जगतोः नेतृभिः सह संवादः विहितः

हिमसंस्कृतवार्ता। 

जम्मूकश्मीरराज्ये उपराज्यपालेन मनोजसिन्हा इत्यनेन राजभवने वाराणसी-कानपुर- कोलकाता-बेंगलुरू-प्रयागराज-स्थलानि समेत्य देशस्य विभिन्न क्षेत्राणां व्यापारोद्योग- जगतोः नेतृभिः सह संवादः विहितः। अत्रावसरे उपराज्यपालेन जम्मूकश्मीरस्य परिवर्तनकारिणी यात्रा विनिमयीकृता। तेनोक्तं यत् विगतेषु केषुचित् वर्षेषु जम्मूकश्मीरे यः अद्वितीयो विकासो जातः तत्सर्वमपि जम्मू-कश्मीरे शान्तिं-समृद्धिं च आनेतुं अपि च कर्तव्ययुत शासनस्य स्थापनस्य अस्माकं संकल्पस्य प्रमाणे वर्तते। अग्रे असौ निगदितवान् यत् राज्यस्य अर्थव्यवस्था इतोऽपि अग्रे प्रवर्धते अपि च निवेशकेभ्यः समुचितावसरान् प्रददाति।

भारतीय-राष्ट्रिय-राजमार्ग-प्राधिकरणेन सीमामार्गशुल्के पञ्चप्रतिशतं यावत् वृद्धि कृता

हिमसंस्कृतवार्ता। 

भारतीय-राष्ट्रिय-राजमार्ग-प्राधिकरणेन आराष्ट्रे सीमामार्गशुल्के पञ्चप्रतिशतं यावत् वृद्धि कृता। प्राधिकरणस्य एकेन अधिकारिणा संसूचितं यत् नवं उप उपयोगकर्तृ-शुल्कम् अद्यतः क्रियान्वितं भविष्यति।

You Might Also Like

स्वामीविवेकानन्दः : व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

TAGGED: election news, election results, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, International news, LokSabha Election, National News, अन्तर्राष्ट्रीय समाचार, अन्ताराष्ट्रीय समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Next Article Himsanskritnews Headlines: विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?