By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: National News : प्रधानमन्त्रिणा देशस्य अत्यन्ततापस्य स्थितिं समीक्षितुं सभा आयोजिता। लोकसभानिर्वाचनस्य परिणाममभिलक्ष्य सुरक्षा-व्यवस्था सुदृढ़ा।
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > National News : प्रधानमन्त्रिणा देशस्य अत्यन्ततापस्य स्थितिं समीक्षितुं सभा आयोजिता। लोकसभानिर्वाचनस्य परिणाममभिलक्ष्य सुरक्षा-व्यवस्था सुदृढ़ा।
राष्ट्रीयवार्ताः

National News : प्रधानमन्त्रिणा देशस्य अत्यन्ततापस्य स्थितिं समीक्षितुं सभा आयोजिता। लोकसभानिर्वाचनस्य परिणाममभिलक्ष्य सुरक्षा-व्यवस्था सुदृढ़ा।

डॉ मनोज शैल
Last updated: 2024/06/03 at 6:47 AM
डॉ मनोज शैल
Share
4 Min Read
SHARE

National News :

  1. प्रधानमन्त्रिणा देशस्य अत्यन्ततापस्य स्थिते: समीक्षितुं सभा आयोजिता।
  2. अरुणाचलसिक्किम- Election Result : भारतीय जनतापार्टीति दलेन अरुणाचप्रदेशः नैर्वाचनिकसमराङ्गणं विजित्य सुरक्षितः।
  3. Cuba Help : भारतेन क्यूबादेशाय मानवीयसहायतारूपेण औषधनिर्माणे सहायकाः नवति-टन- परिमित-सामग्र्यः सम्प्रेषिताः।
  4. लोकसभानिर्वाचनस्य परिणाममभिलक्ष्य सुरक्षा-व्यवस्था सुदृढ़ा।
  5. रेलयानदुर्घटना : लुधियाना-अम्बाला-मुख्यरेलमार्गे द्वे भारवाहके रेलयाने दुर्घटनाग्रस्ते।
  6. लोकसभानिर्वाचनस्य मतगणनाया: पूर्वं विपक्षस्य उपवेशनम्।
  7. Meteorological Department:  दिल्लीं समेत्य उत्तरपश्चिमभारते प्रचलित अति तापतरङ्गे आयाति न्यूनता।

प्रधानमन्त्रिणा  देशस्य अत्यन्ततापस्य स्थिते: समीक्षितुं सभा आयोजिता

हिमसंस्कृतवार्ता:-प्रवीण कुमार:।

 ह्य: प्रधानमन्त्रिणा देशे अत्यन्तं तापस्य स्थिते: समीक्षितुं सभा कृता। सभायां प्रधानमन्त्रिणं सूचितं यत् मौसमविभागस्य पूर्वानुमानानुसारं राजस्थान-गुजरात-मध्यप्रदेशेषु च तप्ततापः निरन्तरं भवितुं शक्यते।  अस्मिन् वर्षे मानसूनः सामान्यः भवितुम् अर्हति तथा च देशस्य अधिकांशभागेषु सामान्यतः उपरि वर्षा भवितुं शक्नोति यदा प्रायद्वीपीयभारतस्य केषुचित् भागेषु सामान्यतः न्यूनवृष्टिः भवितुम् अर्हति।

अग्निसम्बद्धानां घटनानां निवारणाय, नियन्त्रितुं च नियमितरूपेण पर्याप्ताः अभ्यासाः अवश्यं करणीयाः इति प्रधानमन्त्रिणा निर्देशः दत्तः। चिकित्सालयेषु अन्येषु च सार्वजनिकस्थानेषु अग्निपरीक्षाः विद्युत्सुरक्षापरीक्षा च नियमितरूपेण अवश्यं करणीयाः। वन अग्निप्रकोपस्य समये परिचयाय तस्य प्रबन्धनस्य च कृते वन-अग्निपटल इत्यस्य उपयोगितायाः विषये अपि प्रधानमन्त्रिणं सूचितम्।

अरुणाचलसिक्किम- Election Result : भारतीय जनतापार्टीति दलेन अरुणाचप्रदेशः नैर्वाचनिकसमराङ्गणं विजित्य सुरक्षितः

हिमसंस्कृतवार्ता । भारतीय जनतापार्टीति दलेन अरुणाचप्रदेशराज्यं नैर्वाचनिकसमराङ्गणं विजित्य सुरक्षितम्। सिक्किमक्रान्तिमोर्चा इत्याख्येन दलेनापि द्वात्रिशंदासनेषु एकत्रिशंत् स्थानानि विजित्य सिक्किमप्रदेशे पुनरेकवारं सत्ता प्राप्ता। उभयोः पूर्वोत्तरीयराज्ययोः विधानसभा- निर्वाचनस्य अद्य मतगणना आसीत्। उभयत्र हि एकोनविंशे अप्रैलमासे मतदानमासीत्। यत्र अरुणाचलप्रदेशे षष्टिः आसन्दानि आसन्, तत्रैव सिक्किमे द्वात्रिंशत् आसन्दानि आसन्। अरुणाचलप्रदेशे च भाजपेति दलेन दश आसनेषु निर्विरोधतया निर्वाचनपुरस्सरम् आहत्य षड्चत्वारिंशत्स्थानानि सन्ति सुरक्षितानि ।

Cuba Help : भारतेन क्यूबादेशाय मानवीयसहायतारूपेण औषधनिर्माणे सहायकाः नवति-टन- परिमित-सामग्र्यः सम्प्रेषिताः

हिमसंस्कृतवार्ता। भारतेन क्यूबादेशाय मानवीयसहायतारूपेण औषधनिर्माण सहायकाः नवति-टन- परिमित सामग्र्यः सन्ति सम्प्रेषिताः। एताः सामग्ग्र्यः गुजरातस्य मुन्द्रा सागरीय-पोत-स्थानकात् प्रस्थिताः। विदेशमन्त्रालयस्य प्रवक्त्रा रणधीरजायसवालेन समाजिकसञ्चारतन्त्रजाले उक्तं यत् एषा सहायता प्रमुख औषधापूर्तिकर्तृ-देशरूपेण भारतस्य परिचयः विश्वफलके कारयिष्यति। सहैव हि एषा सहायता क्यूबा-भारतयोः सम्बन्धान् प्रति प्रतिबद्धतामपि दर्शयतीति।

लोकसभानिर्वाचनस्य परिणाममभिलक्ष्य सुरक्षा-व्यवस्था सुदृढ़ा

हिमसंस्कृतवार्ता। भारत-निर्वाचनायोगेन निर्वाचनानन्तरं कथमपि हिंसा न भवेदिति उद्दिश्य राज्येभ्यः केन्द्रीयसुरक्षाबल-दलानि संदत्तानि सन्ति। आयोगेन निर्णयोऽयं राज्यपर्यवेक्षकैः सह केन्द्रीय- पर्यवेक्षकानाम् समाकलनानन्तरं कृतोऽस्ति। आन्ध्रप्रदेश पश्चिमबङ्गालयोः मतगणनायाः पञ्चदशदिवसान्तं यावत् सुरक्षाबलानि स्थास्यन्तीति अस्ति निर्णयः आयोगस्य।

रेलयानदुर्घटना : लुधियाना-अम्बाला-मुख्यरेलमार्गे द्वे भारवाहके रेलयाने दुर्घटनाग्रस्ते

हिमसंस्कृतवार्ता। पञ्चाबप्रान्तस्य फतेहगढ-साहिब इत्यत्र गतदिवसे पप्रातः लुधियाना-अम्बाला-मुख्यरेलमार्गे द्वे भारवाहके रेलयाने दुर्घटनाग्रस्ते अभवताम्। अस्मत्वार्ताहरेण प्रोक्तं यत् अनया दुर्घटनया एकपञ्चाशत् रेलयानानि वाधितानि अजायन्त, सप्त च निरस्तीकृतानि अभवनिति।

लोकसभानिर्वाचनस्य मतगणनाया: पूर्वं विपक्षस्य उपवेशनम्

हिमसंस्कृतवार्ता। मङ्गलवासरे जायमानायाः लोकसभानिर्वाचनस्य मतगणनायाः प्राक् विपक्षस्य इण्डिया घटबन्धनेन परह्यः नवदिल्ल्यां एकम् उपवेशनं कृतम्, तत्रस्थैः नेतृभिः पञ्चनवत्यधिक- द्विशतम् लोकसभासनेषु जयं अधिगमिष्यन्ति इति विश्वासः प्रकटितः। उपवेशनेऽस्मिन् कांग्रेसदलप्रमुखः मल्लिकार्जुनखड़गे, श्रीराहुल गांधी, केसीवेणुगोपाल अन्ये च नेतारः आभासीयमाध्यमेनापि सम्मिलिताः अभवन्।

Meteorological Department:  दिल्लीं समेत्य उत्तरपश्चिमभारते प्रचलित अति तापतरङ्गे आयाति न्यूनता

हिमसंस्कृतवार्ता। भारतीय-ऋतु-विज्ञान-विभागेन उक्तं यत् दिल्लीं समेत्य उत्तरपश्चिमभारते प्रचलित अति तापतरङ्गे न्यूनता आयातीति। विभागेन उक्तं यत् देशस्य उत्तरपश्चिम-मध्यभागेषु अपि च ओडिशायाः केषुचित् स्थानेषु अद्य तापतरङ्गः इतोपि संवर्धिष्यति। आकाशवाण्या सह वार्तालापं कुर्वन् ऋतुवैज्ञानिकः आर. के. जेनामणिः अवदत् यत्, दिल्लीं समेत्य उत्तरपश्चिमभारते तापमानं क्रमेण न्यूनं भवति। श्रीजेनामणिः एतत् समुल्लेखयन् अवदत् यत् पाश्चिम-विक्षोभः वातावरणं प्रभावितं करोतीति येन कारणेन तापमाने इतोपि न्यूनता आयातीति। सः अवदत् यत् पश्चिमविक्षोभस्य प्रभावेण दिल्ल्या सहैव देशस्य उत्तर-पश्चिम- क्षेत्रेष्वपि जूनमासस्य चत्वारतः षड्-दिनाङ्क यावत् वज्रपातपुरस्सरं विद्युत्-वायुभ्यां सह वृष्टेः संभावना अपि विद्यते। भारतीय-ऋतु-विज्ञान-विभागेन आगामिषु त्रि-चतुर्दिनेषु पूर्वोत्तरभारतस्य दक्षिणप्रायद्वीपीयभारतस्य च पृथक् पृथक् क्षेत्रेषु अतिवृष्ट्याः अपि संभावना प्रकटितास्ति। आगामिषु चतुर्दिनेषु अरुणाचलप्रदेश, असम, मेघालय, उपहिमालयीय पश्चिमबङ्ग, सिक्किम इत्येतेषु स्थानेषु प्रचण्डवृष्टेः आत्यन्तिकी सम्भावना वर्तते तथा च सोमवासरे मंगलवासरे च मणिपुरे अतिवृष्टिः अपि भवितुं शक्नोतीति।

You Might Also Like

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

TAGGED: election news, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, International news, LokSabha Election, National News, अन्तर्राष्ट्रीय समाचार, अन्ताराष्ट्रीय समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himsanskritnews Headlines: विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Next Article Meteorological Department: दिल्लीं समेत्य उत्तरपश्चिमभारते प्रचलित अति तापतरङ्गे आयाति न्यूनता
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?