By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: National News : रक्षा-अनुसन्धानविकाससङ्गठनेन (DRDO) ओडिशानगरे भारतीयवायुसेनायाः SU- 30MK- One मञ्चात् रुद्र एम-II वायुतः सतहपर्यन्तं क्षेपणास्त्रस्य सफलतया परीक्षणं कृतम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > National News : रक्षा-अनुसन्धानविकाससङ्गठनेन (DRDO) ओडिशानगरे भारतीयवायुसेनायाः SU- 30MK- One मञ्चात् रुद्र एम-II वायुतः सतहपर्यन्तं क्षेपणास्त्रस्य सफलतया परीक्षणं कृतम्
राष्ट्रीयवार्ताः

National News : रक्षा-अनुसन्धानविकाससङ्गठनेन (DRDO) ओडिशानगरे भारतीयवायुसेनायाः SU- 30MK- One मञ्चात् रुद्र एम-II वायुतः सतहपर्यन्तं क्षेपणास्त्रस्य सफलतया परीक्षणं कृतम्

डॉ मनोज शैल
Last updated: 2024/05/29 at 10:45 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

भारतीयः पर्वतारोही सत्यदीपगुप्ता एकस्मिन् ऋतौ द्विवारं एवरेस्ट पर्वतस्य, माउण्ट ल्होत्से पर्वतस्य च आरोहणं कृत्वा इतिहासं रचितवान्

हिमसंस्कृतवार्ता:- डॉ नरेन्द्रराणा सिरमौर: ।

भारतीयः पर्वतारोही सत्यदीपगुप्ता इतिहासं रचितवान्।  स: एतादृश: प्रथमः व्यक्तिः अभवत्  येन एकस्मिन् ऋतौ द्विवारं एवरेस्ट पर्वतस्य, माउण्ट ल्होत्से पर्वतस्य च आरोहणं कृतम्। सः एवरेस्ट पर्वतात् माउण्ट ल्होत्से यावत् ११ होरा: १५ निमेषेषु गत्वा अन्यं अभिलेखं निर्मितवान्। सः सोमवासरे अपराह्णे ८ सहस्र ५१६ मीटर ऊर्ध्वं माउण्ट ल्होत्से पर्वतस्य आरोहणं कृतवान्।  तदनन्तरं सः अर्धरात्रे १२:४५ वादने ८ सहस्राणि ८४९ मीटर ऊर्ध्वं माउण्ट एवरेस्ट पर्वतम् आरोहितवान्। तेन सह पर्वतारोहणमार्गदर्शकाः पेस्टेम्बा शेरपा, निमा उङ्गादिशेर्पा च आसन्। अवधेयं वर्तते यत् गुप्तामहोदयः इत: पूर्वं मईमासस्य २१ दिनाङ्के एवरेस्ट् पर्वतस्य, २२ दिनाङ्के ल्होत्से पर्वतस्य च आरोहणं कृतवान् आसीत्।

रक्षा-अनुसन्धानविकाससङ्गठनेन (DRDO) ओडिशानगरे भारतीयवायुसेनायाः SU- 30MK- One मञ्चात् रुद्र एम-II वायुतः सतहपर्यन्तं क्षेपणास्त्रस्य सफलतया परीक्षणं कृतम्।  रक्षामन्त्रालयेन उक्तं यत् परीक्षणस्य सर्वे उद्देश्याः पूर्णाः अभवन्। 

हिमसंस्कृतवार्ता:- डॉ नरेन्द्रराणा सिरमौर: ल्।

रक्षा-अनुसन्धानविकाससङ्गठनेन (DRDO) ओडिशानगरे भारतीयवायुसेनायाः SU-30MK-One मञ्चात् रुद्र एम-II वायुतः सतहपर्यन्तं क्षेपणास्त्रस्य सफलतया परीक्षणं कृतम्।  रक्षामन्त्रालयेन उक्तं यत् परीक्षणस्य सर्वे उद्देश्याः पूर्णाः अभवन्। रुद्र एम- द्वितीयः स्वदेशीयरूपेण विकसितः क्षेपणास्त्रप्रणाली अस्ति। अस्मिन् विभिन्नासु प्रयोगशालासु विकसिताः बहवः अत्याधुनिकाः स्वदेशीयाः विधय: समाविष्टाः सन्ति। रुद्र एम-द्वितीयस्य सफलपरीक्षणविमानस्य कृते रक्षामन्त्री राजनाथसिंहः डीआरडीओ, वायुसेना, रक्षाउद्योगं च अभिनन्दितवान्। सः अवदत् यत् रुद्र एम- द्वितीयप्रणाल्याः सफलपरीक्षणेन भारतीयवायुसेनायाः क्षमता वर्धते। डीआरडीओ अध्यक्षः डॉ. समीर वी कामतः स्वस्य दलस्य अथकप्रयत्नस्य, सफले उड्डयनपरीक्षायां योगदानस्य च प्रशंसाम् अकरोत्।

उपराष्ट्रपति: जगदीप धनखड़: अद्य उत्तराखण्डस्य एकदिवसीययात्रायां गमिष्यति

हिमसंस्कृतवार्ता:- डॉ नरेन्द्रराणा सिरमौर: ।

उपराष्ट्रपति: जगदीप धनखड़: अद्य उत्तराखण्डस्य एकदिवसीययात्रायां भविष्यति। सः कैञ्चीधामस्य नीमकरोलीमन्दिरस्य दर्शनमपि करिष्यति। प्राप्तवार्तानुसारं भ्रमणकाले उपराष्ट्रपतिः पन्तनगरस्य गोविन्दबल्लभपन्त- कृषिप्रौद्योगिकी- विश्वविद्यालये प्राध्यापकसम्मेलनमपि सम्बोधयिष्यति।

You Might Also Like

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

त्रिपञ्चाशत-तमं विश्व-पुस्तक-मेलापकं नवदेहल्याम् आरब्धम्

दिल्ली- राज्यसर्वकारेण केन्द्रसर्वकाराय ३००० विद्युत्बसक्रयणार्थं प्रस्तावः प्रेषितः

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, International news, National News, अन्ताराष्ट्रीय समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Next Article Himachal News : सर्वा: औपचारिकता: सम्पन्ना: कृत्वा जलोड़ी कन्दराया: निर्माणं करिष्यामि इति प्रतिज्ञा- नितिन गडकरी । HP Election: हिमाचलप्रदेशे पुरातनवृत्तियोजनाया: (ओपीएस) किं भविष्यति?
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?