By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Himachal News : हिमाचले अत्यन्तं तापः, सप्तस्थानेषु तापमानं ४० पारम् गतम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > Himachal News : हिमाचले अत्यन्तं तापः, सप्तस्थानेषु तापमानं ४० पारम् गतम्
हिमाचलवार्ता

Himachal News : हिमाचले अत्यन्तं तापः, सप्तस्थानेषु तापमानं ४० पारम् गतम्

डॉ मनोज शैल
Last updated: 2024/05/27 at 10:22 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Himachal News : हिमाचले अत्यन्तं तापः, सप्तस्थानेषु तापमानं ४० पारम् गतम्

हिमसंस्कृतवार्ता- शिमला। 

हिमाचलप्रदेशस्य समतलक्षेत्रेषु, निम्नोच्चक्षेत्रेषु च जनाः तीव्रतापस्य सम्मुखीकरणं कुर्वन्ति। नारङ्गसचेतनाया:  (ऑरेन्ज अलर्ट) मध्ये सोमवासरे ऊना, हमीरपुरम् इत्यादिषु राज्यस्य सप्तनगरेषु अधिकतमं तापमानं ४० डिग्री सेल्सियसतः अधिकं जातम्। ऊनानगरे अधिकतमं तापमानं ४४.० डिग्री सेल्सियस आसीत्। ऋतुविज्ञानकेन्द्रं शिमला इत्यनेन मे २८ दिनाङ्कस्य कृते अनेकभागेषु तापतरङ्गस्य नारङ्गवर्णीयसचेतना अपि प्रसारिता अस्ति। मई २९ दिनाङ्कस्य कृते पीतवर्णीयसचेतना अस्ति। विभागस्य अनुसारं मे २९ तः जून २ पर्यन्तं राज्यस्य अनेकेषु भागेषु वर्षा भवितुम् अर्हति। एतेन जनानां तप्ततापात् मुक्तिः भविष्यति इति अपेक्षा अस्ति ।

एतेषु जनपदेषु तापतरङ्गसचेतना

ऋतुविज्ञानकेन्द्रशिमला-अनुसारं बिलासपुर- हमीरपुर- काङ्गड़ा- मण्डी- सिरमौर- सोलन- ऊना- जनपदेषु एकस्मिन् वा द्वयोः स्थानयोः तापतरङ्गस्य सम्भावना वर्तते। लोकसभानिर्वाचनस्य, विधानसभाया: उपनिर्वाचनस्य च मतदानदिने लघुवृष्टेः सम्भावना वर्तते। विभागेन जनान् तापस्य, निर्जलीकरणस्य च संपर्कं न कुर्वन्तु इति परामर्श: प्रदत्त:। पिपासा न भवति चेदपि पर्याप्तं जलं पिबन्तु। स्वं जलयुक्तं स्थापयितुं ORS, गृहे निर्मितं पेयं यथा तक्रम् (लस्सी),  तण्डुलजलम् (तोरानी), नीम्बजलं, इत्यादीनां सेवनं कुर्वन्तु।

कुत्र कियत् अधिकतमं तापमानम्

 स्थानम्         तापमानं ‌(सेल्सियस-अङ्केषु)

ऊना              ४४.०

बिलासपुरम्     ४२.७

बरठीं             ४०.८

हमीरपुरम्        ४१.९

धौलाकुआं      ४१.८

चम्बा             ४०.२

सुन्दरनगरम्     ३९.८

काङ्गड़ा           ३९.२

शिमला           ३०.४

नाहनम्           ३८.७

मण्डी             ३९.४

ऋतुविज्ञानकेन्द्रस्य शिमलाया: निदेशकेन किम् उक्तम्-

शिमलानगरस्य ऋतुविज्ञानकेन्द्रस्य निदेशकः सुरेन्द्रपॉलः अवदत् यत् २०१४ तमस्य वर्षस्य अनन्तरं रविवासरे शिमलानगरे सर्वाधिकं तापमानं ३०.६ डिग्री सेल्सियसपर्यन्तम अभवत्। आगामिषु ४८ होरासु तापतरङ्गः निरन्तरं भविष्यति तदनन्तरं मे २९-३० दिनाङ्के पश्चिमविक्षोभस्य सक्रियीकरणस्य कारणात् तापतरङ्गात् निवृत्तिः भविष्यति, तापमानमपि न्यूनीभवति। केषुचित् क्षेत्रेषु वर्षणस्य सम्भावना अपि अस्ति।

You Might Also Like

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

अनूपसिंहजसयालः पुस्तकालयविज्ञानविषये विद्यावारिधेः (पीएच.डी) उपाध्याः अलङ्कृतः

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himachal news, himsanskrit varta, Himsanskritnews, HP NEWS, Meteorological Centre, Meterological Department, temperature, तापमान, मौसम विज्ञान केन्द्र, मौसम विभाग, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Priyanka Gandhi Chamba Rally : मोदी धनशक्त्या सर्वकारं पातुं प्रयतितवान्
Next Article HP Election : मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः वदेत्  ५५ लक्षरूप्यकाणि कुत्र प्राप्तानि कुत्र च गतानि – जयरामठाकुरः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?