By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: National News : लोकसभानिर्वाचनस्य षष्ठचरणस्य प्रचारः समाप्तः। छत्तीसगढस्य बस्तरसंभागे सुरक्षाबलैः सह सङ्घर्षे सप्त माओवादिनः मृताः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > प्रादेशिकवार्ता > National News : लोकसभानिर्वाचनस्य षष्ठचरणस्य प्रचारः समाप्तः। छत्तीसगढस्य बस्तरसंभागे सुरक्षाबलैः सह सङ्घर्षे सप्त माओवादिनः मृताः
प्रादेशिकवार्ताराष्ट्रीयवार्ताः

National News : लोकसभानिर्वाचनस्य षष्ठचरणस्य प्रचारः समाप्तः। छत्तीसगढस्य बस्तरसंभागे सुरक्षाबलैः सह सङ्घर्षे सप्त माओवादिनः मृताः

डॉ मनोज शैल
Last updated: 2024/05/24 at 8:48 AM
डॉ मनोज शैल
Share
4 Min Read
SHARE

National News : लोकसभानिर्वाचनस्य षष्ठचरणस्य प्रचारः समाप्तः। अस्मिन् चरणे शनिवासरे ५८ आसनानां कृते मतदानं भविष्यति

हिमसंस्कृतवार्ता- नवदेहली। 

लोकसभानिर्वाचनस्य षष्ठचरणस्य प्रचारः गतदिवसे सायंकाले समाप्तः। अस्मिन् चरणे मे २५ दिनाङ्के शनिवासरे ६ राज्येषु, द्वयोः संघप्रदेशयोः च ५८ आसनानां कृते मतदानं भविष्यति। एतेषु बिहारे अष्टौ, हरियाणाप्रदेशे सर्वाणि दश आसनानि, जम्मू-कश्मीरे एकं, झारखण्डे चत्वारि, दिल्लीनगरे सर्वाणि सप्तासनानि, ओडिशायां षट्, उत्तरप्रदेशे १४, पश्चिमबङ्गे अष्टानि च आसनानि सन्ति। अस्मिन् चरणे कुलम् ८८९ अभ्यर्थिनः निर्वाचन-स्पर्धायां सन्ति ।

प्रधानमन्त्री तथा भारतीयजनतापक्षस्य वरिष्ठनेता नरेन्द्रमोदी गतदिवसे दिल्लीनगरे निर्वाचनसभां सम्बोधितवान्। काङ्ग्रेसनेता राहुलगान्धी अपि पूर्वोत्तरदिल्लीनगरे निर्वाचनसभां कृतवान्। अवधेयं वर्तते यत् देहल्यां भाजपा-आमआदमी-पार्टी-काङ्ग्रेस-गठबन्धनयोः प्रत्यक्षप्रतिस्पर्धा अस्ति। 

निर्वाचनप्रचारस्य अन्तिमे दिने तप्ततापस्य मध्ये भाजपा, काङ्ग्रेस, आम-आदमी-पार्टी च अनेकेषु प्रमुखेषु नगरेषु नगरस्य विभिन्नेषु भागेषु पथप्रदर्शनम्, जनसभा:, द्वारे द्वारे अभियानं च कृतवन्तः। निर्वाचनप्रचारद्वारा, विकासकार्यं कृत्वा राजनैतिक-आरोपैः, प्रत्यारोपैः च जनसमूहं स्वशिबिरं प्रति आनेतुं द्वयोः दलयोः यथाशक्ति प्रयत्नः कृतः अस्मिन् निर्वाचने भाजपा सप्तसु अपि आसनेषु अभ्यर्थिनः स्थापिताः सन्ति। गठबन्धनस्य अन्तर्गतं आम आदमीदलम् चतुर्णामसनेषु काङ्ग्रेसदलं च त्रिषु आसनेषु प्रतिस्पर्धयति, गतयोः लोकसभानिर्वाचनयोः मध्ये भाजपा नगरस्य सप्तसु अपि लोकसभाक्षेत्रेषु विजयं प्राप्तवती आसीत्, अस्मिन् निर्वाचने अपि दलं बहु प्रयतते तस्य कार्यप्रदर्शनं निर्वाहयितुम् प्रयतन्ते। तस्मिन् एव काले आम आदमीपक्षः, काङ्ग्रेससङ्घः च नगरस्य लोकसभासननि प्राप्तुं यथाशक्ति प्रयतन्ते।

छत्तीसगढस्य बस्तरसंभागे सुरक्षाबलैः सह सङ्घर्षे सप्त माओवादिनः मृताः

हिमसंस्कृतवार्ता- छत्तीसगढ़म्। 

गतदिवसे छत्तीसगढस्य बस्तरसंभागे सुरक्षाबलैः सह सङ्घर्षे सप्त माओवादिनः मृताः। बस्तरक्षेत्रस्य डीआईजी कमलोचन: कश्यप: तथा दंतेवाडा पुलिसाधीक्षक: गौरवराय: अवदताम् यत् परस्परसंघर्ष: नारायणपुरस्य दंतेवाडा सीम्नि अभवत् । अबूझमाड़स्य वने माओवादिनः चिह्नं प्राप्य अन्वेषण-कार्यक्रमः आरब्धः । एतस्मिन् काले वने पूर्वमेव प्रहारं कृत्वा उपविष्टाः माओवादिनः सैनिकानाम् उपरि गोलीकाण्डं कर्तुं आरब्धवन्तः । प्रतिकाररूपेण सप्त माओवादिनः मारिताः सन्ति। तत्रैव महत्परिमाणं शस्त्राणि, आक्षेपार्हवस्तूनि च प्राप्तानि सन्ति ।

दूरसञ्चारविभागेन अशीति: सहस्राधिकं षड्लक्ष-मोबाईलसंयोजनं अवैधं ज्ञातम्

हिमसंस्कृतवार्ता- नवदेहली। 

गतदिवसे दूरसञ्चारविभागेन प्रायः षट् लक्षं ८० सहस्र मोबाईलसङ्ख्याः अनुकृता अवैधरूपेण च ज्ञाताः। शङ्का अस्ति यत् एता: सङ्ख्याः अमान्यानां, अस्तित्वहीनानां, अनुकृत-परिचयप्रमाणस्य तथा प्रतिरूपं Know Your Customer – KYC इत्यादीनां अभिलेखानां उपयोगेन प्राप्ताः सन्ति। विभागेन दूरसंचारसेवाप्रदातृभ्यः एता: सङ्ख्या: पुनः सत्यापयितुं निर्देशः दत्तः अस्ति। यदि षष्टिदिनान्तरे पुनः सत्यापितं न भवति तर्हि एता मोबाईलसङ्ख्याः विलोपिताः भविष्यन्ति विभागेन विभिन्नक्षेत्राणां कृत्रिमबुद्धिप्रौद्योगिक्याः च सहकारेण एता: वञ्चनसंख्या: चिह्निता:। 

ऋतुविज्ञानविभागेन आगामिषु चतुर्दिनेषु राजस्थान-गुजरातयोः च तीव्रतापस्य पूर्वानुमानं कृतम् अस्ति

हिमसंस्कृतवार्ता- नवदेहली । 

गतदिवसे दिल्ली-हरियाणा-चण्डीगढ-पञ्जाब-प्रदेशेषु तप्ततापात् किञ्चित् आश्रयं प्राप्तम् इति ऋतुविज्ञानविभागेन उक्तम्। विभागेन आगामिचतुर्दिनानां कृते मुख्यतया राजस्थान-गुजरातयोः अत्यन्तं तापस्य सम्भावना प्रकटिता अस्ति। आल इण्डिया रेडियो इत्यनेन सह वार्तालापं कुर्वन् ऋतुविभागस्य वरिष्ठवैज्ञानिकः आर.के.जेनामणिः अवदत् यत् दिल्लीनगरस्य तापमानं ४० डिग्री सेल्सियसतः उपरि एव तिष्ठति। सः अवदत् यत् शनिवासरपर्यन्तं दिल्लीनगरे तापतरङ्गस्य सम्भावना नास्ति।

 देशस्य पूर्वभागेषु विद्युत्-गर्जन-सहित-वृष्टेः सम्भावना वर्तते । आगामिषु सप्तदिनेषु झारखण्ड-बिहार-ओडिशा-पश्चिमबङ्ग-प्रदेशेषु वज्रपातः, विद्युत्-वृष्टिः, वर्षा च भवितुम् अर्हति । अद्य दक्षिणभागेषु प्रचण्डवृष्टिः भवितुं शक्नोति। बङ्गस्य पश्चिममध्यस्य तत्समीपस्थस्य दक्षिणखाड़ी- उपरि निम्नदाबक्षेत्रं शनिवासरस्य प्रातः यावत् चक्रवातरूपेण परिणतुं शक्यते।

अन्ताराष्ट्रीय ओलम्पिकसमित्या ‘Let’s Move India’ इति उपक्रमस्य आरम्भः। अस्य उद्देश्यं पेरिस् ओलम्पिकक्रीडायां क्रीडकानां उत्साहवर्धनार्थं जनान् प्रेरयितुं वर्तते

हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।

अन्ताराष्ट्रीय ओलम्पिकसमित्या पेरिस् ओलम्पिकक्रीडायां भागं गृह्णन्तः क्रीडकान् प्रोत्साहयितुं ‘लेट्स् मूव इण्डिया’ इति उपक्रमस्य आरम्भस्य घोषणा कृता अस्ति। अस्य उद्देश्यं सामाजिकमाध्यमेन देशे सर्वत्र जनान् अस्मिन् अभियाने सम्मिलितुं वर्तते। २३ जून दिनाङ्के ओलम्पिकदिवसस्य अवसरे क्षेत्रीयविद्यालयाः अस्मिन् अभियाने भागं गृहीत्वा स्वप्रियक्रीडकान् प्रोत्साहयितुं शक्नुवन्ति।

 

केन्द्रीयमन्त्री अमितशाहः २५ मई दिनाङ्के हमीरपुर- कांगड़ा- संसदीयक्षेत्रयो: निर्वाचनसभां करिष्यति

हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।

केन्द्रीयमन्त्री अमितशाहः २५ मई दिनाङ्के हमीरपुर- काङ्गड़ा- संसदीयक्षेत्रयोः भ्रमणं करिष्यति। एतां सूचनां दत्त्वा भाजपाया: प्रदेशमहासचिवः बिहारीलालशर्मा उक्तवान् यत् अमितशाहः प्रातः ९:३० वादने मेलाप्राङ्गणे अम्ब इत्यत्र तत: ११:३० वादने काङ्गड़ानगरस्य ज़ोरावर स्टेडियम इत्यत्र च सभायाः सम्बोधनं करिष्यति। बिहारीलाल उक्तवान् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिन:  सभायाः अनन्तरम् अमितशाहस्य सभया कार्यकर्तृषु उत्साहः उत्पन्नः भविष्यति।

 

You Might Also Like

NEP 2020 सर्वकारस्य २०३० पर्यन्तं विद्यालयेषु शत-प्रतिशतं नामांकनस्य लक्ष्यम्

HP SNOWFALL हिमाचले महत्-हिमपातेन जनजीवनं अस्तव्यस्तं, ३२०० तः अधिकाः विद्युत्- परिवर्तकाः बाधिता: 

धर्मशाला-छात्रा-मृत्युप्रकरणम् – अन्वेषणे जातिगत-आलोचनायाः ‘रैगिंग’ इत्यस्य च किमपि प्रमाणं न प्राप्तम्; यौनशोषणस्य कोणात् अन्वेषणं प्रचलति

देहली- शिमला- धर्मशाला- उड्डयनानां सुचारुसञ्चालनाय राज्यसर्वकारः प्रतिवर्षं ३१ कोटिरूप्यकाणि दास्यति- मुख्यमंत्री 

पञ्चायत-निर्वाचनम् – हिमाचले पञ्चायत- निर्वाचनस्य सिद्धता तीव्रा निर्वाचन-आयोगस्य निर्देशः 

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, himsanskritnews headlines, International news, National News, national News Headlines, अन्तर्राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Lok Sabha Election : भारतीय-तिब्बत-सीमा-पुलिसस्य पञ्चवाहिन्य: हिमाचलं प्राप्ता:, १८००० पुलिसकर्मचारिणः अपि नियोजिताः भविष्यन्ति
Next Article Himsanskritnews Headlines : विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?