By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: President of India : पञ्चदिवसीय: प्रवासानन्तरं देहलीं प्रस्थिता राष्ट्रपतिः द्रौपदीमुर्मू
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > President of India : पञ्चदिवसीय: प्रवासानन्तरं देहलीं प्रस्थिता राष्ट्रपतिः द्रौपदीमुर्मू
राष्ट्रीयवार्ताःहिमाचलवार्ता

President of India : पञ्चदिवसीय: प्रवासानन्तरं देहलीं प्रस्थिता राष्ट्रपतिः द्रौपदीमुर्मू

डॉ मनोज शैल
Last updated: 2024/05/09 at 9:09 AM
डॉ मनोज शैल
Share
1 Min Read
SHARE

President of India : पञ्चदिवसीय: प्रवासानन्तरं देहलीं प्रस्थिता राष्ट्रपतिः द्रौपदीमुर्मू

हिमसंस्कृतवार्ता- शिमला। 

राष्ट्रपतिः द्रौपदीमुर्मू हिमाचलस्य पञ्चदिवसीययात्रायाः अनन्तरं बुधवासरे प्रातःकाले शिमलातः दिल्लीं प्रत्यागता। मुख्यमंत्री सुखविंदरसिंहसुक्खु: एवं मंत्री कर्नल: धनीरामशाण्डिल: राष्ट्रपतिमहोदयाया: अभिवादनं कृतवन्तौ। शिमलानगरे स्थित्वा राष्ट्रपति मुर्मूः शिमलानगरस्य तारादेवीमन्दिरं, मॉलरोड इत्यादीनि स्थानानि गतवती, तथैव शाहपुरे स्थितस्य केन्द्रीयविश्वविद्यालयस्य अपि भ्रमणं कृतवती। एतत् एव न, गेयेटी-नाट्यगृहे हिमाचलसंस्कृतेः अपि सा सम्मुखीभूता अभवत्। गेयटी नाट्यगृहे राष्ट्रपतिद्रौपदी मुर्मू इत्यस्य सम्मुखे भाषासंस्कृतिविभागेन विशेषं नृत्यनिर्देशनसांस्कृतिककार्यक्रमः निर्मितः। कार्यक्रमे राष्ट्रपतिमहोदयाया: अतिरिक्तं राज्यपाल: शिवप्रतापशुक्ल: एवं अतिविशिष्टा: जना: उपस्थिता: अभवन्। राज्यस्य प्रसिद्धेन नृत्यनिर्देशिकया पूनमशर्मा इत्यनया सज्जीकृते अस्मिन् कार्यक्रमे सिरमौरीनाट्यम् इत्यस्य अतिरिक्तं राजगढस्य पझौताक्षेत्रस्य आसरा सांस्कृतिकसमूहस्य कलाकारैः किन्नौरी, लाहुली, कुल्लूवी, चम्बयाली नाट्यानि, लुड्डी नृत्यस्य च समूहप्रस्तुतिः कृता। सांस्कृतिककार्यक्रमे आसरा-क्षेत्रस्य षोडश-कलाकाराः रिहाल्टीगी- मुञ्जरा- नृत्य- परात- नृत्य- रस- नृत्य- थोडा- नृत्य- आदि- नृत्यरूपाणां आकर्षकमोहकशैल्यां प्रदर्शितवन्त:।

You Might Also Like

GDP-: देशस्य अर्थव्यवस्थायां ८.१ प्रतिशतं वृद्धिः: एसबीआई-संस्थायाः प्रतिवेदनम्

हिमाचलस्य वित्तीयस्थितये जयरामठाकुरः केन्द्रीयवित्तमन्त्रिणा सह मिलितवान्

युनः मादकद्रव्याणि त्यक्ष्यन्ति, क्रीडाः स्वीकरिष्यन्ति- अनुराग ठाकुरः

अप्रत्याशित- मेघविस्फोट- घटनाः सङ्कुचन्तः हिमनदाः च जलवायुपरिवर्तनस्य सङ्केताः- मुख्यमन्त्री सुक्खु:

टांकरी लिपे: पुनरुत्थानाय आयोजिता कार्यशाला, द्वयो: छात्रवृत्तयो: घोषणा

TAGGED: dropadi murmu, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, President of India, rashtrapati tour, राष्ट्रपतिः, राष्ट्रपति द्रोपदी मुर्मू, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article BJP Himachal : सोनियायै ‘श्रीराम: काल्पनिकः  जेपीनड्डा हिमाचले पन्नाप्रमुखसम्मेलने विपक्षदलस्य उपरि आक्षेपं कृतवान्
Next Article HP Election : लाहौलस्पितीतः निर्दलीयं निर्वाचनं स्पर्धयिष्यति पूर्वमन्त्री रामलालमारकण्डा भाजपा-काङ्ग्रेसयोः उपरि आक्षेपं कृतवान्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?