By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: President Of India : राष्ट्रपतिः द्रौपदीमुर्मू संकटमोचन-तारादेवी-मन्दिरयो: पूजा-अर्चनाम् अकरोत् 
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > President Of India : राष्ट्रपतिः द्रौपदीमुर्मू संकटमोचन-तारादेवी-मन्दिरयो: पूजा-अर्चनाम् अकरोत् 
राष्ट्रीयवार्ताःहिमाचलवार्ता

President Of India : राष्ट्रपतिः द्रौपदीमुर्मू संकटमोचन-तारादेवी-मन्दिरयो: पूजा-अर्चनाम् अकरोत् 

डॉ मनोज शैल
Last updated: 2024/05/08 at 9:40 AM
डॉ मनोज शैल
Share
2 Min Read
SHARE

President Of India : राष्ट्रपतिः द्रौपदीमुर्मू संकटमोचन-तारादेवी-मन्दिरयो: पूजा-अर्चनाम् अकरोत् 

हिमसंस्कृतवार्ता- शिमला। 

राष्ट्रपतिः द्रौपदीमुर्मू मंगलवासरे राजधान्या: प्रसिद्धेषु मन्दिरेषु दर्शनम् अकरोत्। राष्ट्रपतिः संकटमोचन-तारादेवी-मन्दिरयो: पूजा-अर्चनाम् अकरोत्। तेन सह बजरंगबलीहनुमत: -मातु: तारायाः आरती अपि कृता । अस्मिन्नवसरे राज्यपाल: शिवप्रतापशुक्ल: अपि उपस्थित: आसीत्। राष्ट्रपतिः प्रातः ११:३० वादने संकटमोचनमन्दिरं प्राप्नोत्। सर्वप्रथमं षोडशगणेश: पूजित: । अत्र राष्ट्रपतिः गणपतिं प्रति पुष्पाणि अर्पितवती, चणकपिष्टस्य मोदकानि चार्पितानि। तदनन्तरं रामद्वारे प्रार्थना कृता। राष्ट्रपति द्रौपदीमुर्मू द्वारा भगवद्भ्यां राम-माता-सीताभ्यां फलानि अर्पितानि, संयाव: चार्पित:।

राष्ट्रपतिः हनुमते सिन्दूरं अर्पितवती, बदाणा-मिष्ठान्नम्  चार्पितवती। हनुमत: आरार्तिक्यं कृत्वा राष्ट्रपतिः मन्दिराणां प्रदक्षिणाम् अकरोत् । प्रातः १२:२० वादने राष्ट्रपति मुर्मू तारादेवीमन्दिरे पूजां कृतवती। मन्दिरस्य पुरोहितः कमलेशचन्द्रः मातृदेव्याः कृते राष्ट्रपतिमहोदयाया: उपहारं अर्पितवान्। तदनन्तरं मन्त्रजपसहितं माता तारादेवीपूजनं कृतम् । तण्डुलपुष्पतिलकं वस्त्रं च मात्रे अर्पितम् । तदनन्तरं राष्ट्रपतिः मातु: भगवत्याः आरार्तिक्यं कृतवती। राष्ट्रपतिमहोदयायै मातु: वस्त्रं प्रसादं च दत्तम्।

नमस्कारं कृत्वा राष्ट्रपतिः मन्दिरे भोजनस्य प्रसादमपि स्वीकृतवती। मन्दिरप्रशासनेन राष्ट्रपतिमहोदयायै १३ विशेषव्यञ्जनानि सज्जीकृतानि आसन् । राष्ट्रपते: समूह: अपराह्ने १:३० वादने मन्दिरात् निर्गत:।

पारम्परिकवाद्ययन्त्रैः राष्ट्रपतिमहोदयाया: स्वागतं विहितम्

राष्ट्रपतिद्रौपदीमुर्मू महोदयाया: संकटमोचनमन्दिरे राज्यस्य पारम्परिकवाद्ययन्त्रैः स्वागतं विहितम्। मन्दिरपरिसरं ढक्काभि:, मृदङ्गै:,तुरहिभि:, करनलिकाभि:, रणभेरीभि: च इत्येतेषां ध्वनिभि: प्रतिध्वनितम् आसीत् ।

मन्दिरप्रशासनेन राष्ट्रपतिमहोदयाया: स्वागतार्थं ठियोगक्षेत्रस्य अष्टविशेषकलाकारानाम् एकं समूहं आहूतम् आसीत् ।

तारादेवीमंदिरस्य प्रतिकृति: एवं रामदरबारं चार्पितम्

राष्ट्रपतिद्रौपदीमुर्मू इत्यस्यै तारादेवीमन्दिरस्य प्रतिकृतिः दत्ता । इयं प्रतिकृतिः मन्दिरवत् काष्ठेन निर्मिता अस्ति । एडीसी शिमला अभिषेक वर्मा इत्यनेन इयं प्रतिकृतिः राष्ट्रपतिमहोदयां प्रति प्रदत्ता। सः राष्ट्रपतिं मन्दिरस्य इतिहासस्य विषये बोधितवान्। संकटमोचन मन्दिरे राष्ट्रपतिमहोदयायै रामदरबारस्य प्रतिमा प्रदत्ता। अपरजिल्लादण्डाधिकारी प्रोटोकॉल ज्योतिराणा राष्ट्रपतिं मन्दिरस्य इतिहासस्य विषये सूचितवती।

तारादेवीमन्दिरस्य सौन्दर्यं दृष्ट्वा राष्ट्रपतिः अभिभूता अभवत्।

राष्ट्रपतिः मुर्मू राजधान्या: प्रसिद्धस्य तारादेवीमन्दिरस्य मन्दिरस्य सौन्दर्यस्य प्रशंसाम् अकरोत् । मन्दिरसङ्कुलात् मन्दिरस्य, शिमलानगरस्य च सौन्दर्यं दृष्ट्वा राष्ट्रपतिः आनन्दिता अभवत् । मन्दिरसङ्कुलात् शिमलानगरस्य भिन्नं दृश्यं दृश्यते ।

You Might Also Like

स्वामीविवेकानन्दः : व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

TAGGED: him sanskrit varta, him sanskritam, President of India, rashtrapati tour, राष्ट्रपतिः, राष्ट्रपति द्रोपदी मुर्मू, हिम संस्कृत वार्ताः, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article BJP Himachal: अद्य नड्डा पन्नप्रमुखेभ्य: विजयस्य मन्त्रं दास्यति जगतप्रकाशनड्डा – रणधीरशर्मा
Next Article BJP Himachal : सोनियायै ‘श्रीराम: काल्पनिकः  जेपीनड्डा हिमाचले पन्नाप्रमुखसम्मेलने विपक्षदलस्य उपरि आक्षेपं कृतवान्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?