By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP Politics : भगवान् राम: शीघ्रं कंगनायै प्रज्ञां दद्यात् – विक्रमादित्यसिंह:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > HP Politics : भगवान् राम: शीघ्रं कंगनायै प्रज्ञां दद्यात् – विक्रमादित्यसिंह:
राजनैतिकवार्ताहिमाचलवार्ता

HP Politics : भगवान् राम: शीघ्रं कंगनायै प्रज्ञां दद्यात् – विक्रमादित्यसिंह:

डॉ मनोज शैल
Last updated: 2024/04/12 at 4:46 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

HP Politics : भगवान् राम: शीघ्रं कंगनायै प्रज्ञां दद्यात् – विक्रमादित्यसिंह:

हिमसंस्कृतवार्ता – कार्यालयीय: प्रतिनिधि:।

मण्डीसंसदीय निर्वाचनक्षेत्रात् काङ्ग्रेसपक्षस्य सम्भाव्यप्रत्याशी राज्यस्य लोकनिर्माणमन्त्री विक्रमादित्यसिंहः भाजपा प्रत्याशी कङ्गनारणौताया: उपरि प्रतिघातं कृत्वा अवदत् यत् भगवान् रामः शीघ्रमेव तस्यै प्रज्ञां दद्यात्। सा मुम्बईनगरे किं खादति पिबति च ? एतेन हिमाचलजनानाम् किमपि सम्बन्धः नास्ति । न च एते हिमाचलप्रसङ्गाः। खानपानस्य स्थाने कङ्गना विषयेषु कथयति चेत् श्रेयस्करम्।

विक्रमादित्यः कङ्गनायाः भाषाशैल्याः विषये उक्तवान्

मनल्यां जनसभायां कङ्गना इत्यनया प्रयुक्ता भाषाशैली हिमाचलस्य संस्कृतिः नास्ति । अद्यावधि देवभूमौ एतादृशी शब्दावली न प्रयुक्ता। अन्तर्जालमाध्यमेषु एकं चलचित्रं प्रदर्श्य विक्रमादित्यसिंहः अवदत् यत् राज्यस्य इतिहासे बृहत्तमा आपदा मनाल्यां आगता। स्वगृहं मनालीनगरे इति उक्तवती कङ्गना काङ्ग्रेसस्योपरि दोषारोपणं न कृत्वा तस्य विषये चर्चां करोति चेत् श्रेयस्करं स्यात्।

मनाल्यां जलप्रलयस्य उद्धारकार्यं केवलं सुक्खुसर्वकारः एव अकरोत्

राज्यसर्वकारेण ४८ घण्टाभ्यन्तरे अवरुद्धान् मार्गान् उद्घाट्य जनसामान्यं आश्रयं दातुं कार्यं कृतम् आसीत् । भूतलस्तरं गत्वा पतलीकुहलसेतुः वामतटं च पुनर्स्थापितम्। केन्द्रीयमार्गपरिवहनराजमार्गमन्त्री नितिनगडकरीं मनालीनगरं नीत्वा स्थितिविषये सूचना दत्ता। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः दिवारात्रौ कार्यम् अकरोत् ।

कङ्गना अस्माकं अग्रजा इव अस्ति: विक्रमादित्यसिंह:

मण्डीसंसदीय निर्वाचनक्षेत्रस्य कृते तस्य योगदानं किं दृष्टिः च अस्ति इति जनसामान्यं ज्ञापयितुं प्रयतध्वम्। कङ्गना अस्माकं अग्रजा इव अस्ति। एतादृशपदार्थानाम् कृते तस्यै नमस्कारः। बञ्जार:, सरकाघाटं, आनी, कुल्लू:, नाचनं, बल्ह इत्यत्र १० वर्षेभ्यः लम्बितसमस्यानां विषये सा चर्चां कुर्यात्। काङ्ग्रेसः अपि तान् उत्थापयित्वा समाधानं अन्वेष्टुं प्रयतते। व्यर्थविषयान् उत्थापयित्वा सार्वजनिकसमयं नष्टं न कुर्वन्तु।

You Might Also Like

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

TAGGED: bjp, BJP Himachal, him sanskrit varta, him sanskritam, him sanskritam himsanskritnews, HIM SASNSKRIT VARTA, himachal abhi abhi, Himachal news, himachal update, Kangana Ranaut, Vikramaditya Singh, कंगना रनौत, कंगनारनौत, विक्रमादित्य सिंह, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HP Election : अवसादग्रस्तः अस्ति मुख्यमंत्री, अतः सः अनुचितं वक्तव्यं ददाति
Next Article BJP Himachal: हिमाचले चत्वारि, देशे चतुर्शताधिकानि आसनानि लक्ष्यम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?