By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Holi Festival : हिमाचले होली-उत्सवः- मुख्यमन्त्रिणा शिमलायां सर्वकारीये आवासे समर्थकै: सह मानित: होली- उत्सवः।
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > प्रादेशिकवार्ता > Holi Festival : हिमाचले होली-उत्सवः- मुख्यमन्त्रिणा शिमलायां सर्वकारीये आवासे समर्थकै: सह मानित: होली- उत्सवः।
प्रादेशिकवार्ताराजनैतिकवार्ताहिमाचलवार्ता

Holi Festival : हिमाचले होली-उत्सवः- मुख्यमन्त्रिणा शिमलायां सर्वकारीये आवासे समर्थकै: सह मानित: होली- उत्सवः।

डॉ मनोज शैल
Last updated: 2024/03/25 at 10:12 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Holi Festival : हिमाचले होली-उत्सवः- मुख्यमन्त्रिणा शिमलायां सर्वकारीये आवासे समर्थकै: सह मानित: होली- उत्सवः।

प्रतिभा-विक्रमादित्यः ओक-ओवरं प्राप्तवन्तौ

हिमसंस्कृतवार्ता- शिमला। 

हिमाचलप्रदेशे होली-उत्सवः महता उल्लासेन आचरितः। मुख्यमन्त्री सुखविन्द्रसिंहसुक्खुः स्वस्य आधिकारिकनिवासस्थाने ओकओवर इत्यत्र समागतैः समर्थकैः सह होलीक्रीडां नृत्यं च कृतवान्। एतस्मिन् समये मुख्यमन्त्री राज्यस्य जनेभ्य: होली-दिवसस्य शुभकामना: अददत्। सः अवदत् यत् एषः उत्सवः वर्णानाम्, उत्साहस्य, प्रेम्ण: च अस्ति। तथा च निश्चितरूपेण हिमाचलप्रदेशे आगमिष्यमाणः समयः वर्णानाम्, प्रेम्णः, समृद्धेः, आत्मनिर्भरतायाः च समयः भविष्यति। मुख्यमंत्री सुखविन्दरसिंहसुक्खुः प्रदेशकाँग्रेसस्य अध्यक्षा प्रतिभासिंह एवं लोकनिर्माणमंत्री विक्रमादित्यसिंह: इत्येताभ्यां सह होली-उत्सवः आचरितवान्। सर्वे वर्णं प्रयोज्य परस्परं अभिनन्दनं कृतवन्तः। एतस्मिन् समये हिमाचलप्रदेशस्य मुख्यमन्त्री सुखविन्द्रसिंहसुक्खुः अवदत्  यत् किमपि घटितम्, अधुना सर्वकारः कार्यं कुर्वन् अस्ति, राज्यस्य भविष्ये एव ध्यानं दद्मः।

होली वर्णानाम्, उत्साहस्य, प्रेम्ण: च उत्सवः अस्ति 

होली-उत्सवे सुक्खु-सर्वकारस्य मन्त्रिणः अपि उपस्थिताः आसन्। अस्मिन् काले बहुसंख्याकाः जनाः ओक-ओवरं प्राप्य मुख्यमन्त्रिणे: शुभकामना: अददन्। मुख्यमंत्री सुखविन्दरसिंहसुक्खुः उक्तवान् यत् अस्माभिः राज्यस्य कृते यत् आधारं स्थापितं तत् २०२७ तमवर्षपर्यन्तं हिमाचलं स्वनिर्भरं करिष्यति। तदनन्तरं २०३२ तमवर्षपर्यन्तं हिमाचलं देशस्य समृद्धतमं सम्पन्नं च राज्यं भविष्यति। अस्मिन् दिशि राज्यसर्वकारः निरन्तरं प्रयत्नान् कुर्वन् अस्ति। प्रतिभासिंह विक्रमादित्यः अपि ओक ओवरं प्राप्तवन्तौ। होलीपवित्रपर्वणि काङ्ग्रेसप्रमुखा प्रतिभासिंहः लोकनिर्माणमन्त्री विक्रमादित्यसिंहः अपि शिमलायां ओकओवरं गत्वा मुख्यमन्त्रिणा सुखविन्दरसिंहसुक्खुना सह होलीम् आचरितवन्तौ। प्रतिभासिंह, विक्रमादित्यसिंहः च राज्यस्य जनानां कृते वर्णाणां पर्व होली इत्यस्य शुभकामनाम् अपि दत्तवन्तौ। सुक्खुसर्वकारस्य लोकनिर्माणमंत्री विक्रमादित्यसिंहस्य च मध्ये यः आक्रोशः किञ्चित्कालं यावत् प्रचलति स्म। अद्य होल्याः वर्णाः तत् धूमिलं कृतवन्तः। होलीपर्वणि प्रतिभासिंह विक्रमादित्यसिंह: च सर्वान् मतभेदान् विस्मृत्य मुख्यमन्त्रिण: निवासस्थाने होली-उत्सवे भागं गृहीतवन्तौ।

शीघ्रं भविष्यति प्रत्याशीनां घोषणा

मुख्यमंत्री अवदत् यत् २०३२ तमवर्षपर्यन्तं हिमाचलप्रदेशं सर्वाधिकसमृद्धं राज्यं कर्त्तव्यम्। जनाः सर्वं जानन्ति। एतस्मिन् समये सुक्खुः महत् वचनं कृतवान्। लोकसभाया: चतुर्षु आसनेषु नूतनाः अभ्यर्थिनः घोषिताः भविष्यन्ति इति सः अवदत्। एतेषां सूची शीघ्रमेव प्रकाशिता भविष्यति। दलस्य कर्मठः निष्ठावान् कार्यकर्ता नामपत्रं प्राप्स्यति।

राजभवनं गत्वा राज्यपालाय प्रदत्ता: शुभकामना:

मुख्यमंत्री सुखविन्दरसिंहसुक्खुः होली-उत्सवस्य अवसरे राजभवनं गत्वा राज्यपालाय शिवप्रतापशुक्लावर्याय शुभकामना: अददत्। सर्वे परस्परं वर्णान् प्रयोज्य होली-उत्सवम् आचरितवन्त:।

You Might Also Like

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

अनूपसिंहजसयालः पुस्तकालयविज्ञानविषये विद्यावारिधेः (पीएच.डी) उपाध्याः अलङ्कृतः

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, Happy Holi, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, himachal abhi abhi, Himachal news, himachal update, Himsanskritnews, HPCM, मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः, हिम संस्कृत वार्ताः, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Kangna Ranaut : मण्डीत: भाजपाप्रत्याशीरूपेण चयनस्य विषये कंगनारनौत प्रधानमन्त्रिण: जगतप्रकाशनड्डावर्यस्य च आभारं प्रकटितवती उक्तं- ‘बहु-भावुकदिवस:’
Next Article मुम्बई प्रथमवारं एशियायाः अरबपतिराजधानी अभवत्, एकस्मिन् वर्षे २६ अरबपतयः वर्धिताः,
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?