अस्मिन् दिने ‘बड़े मियां छोटे मियां’ इति चलचित्रस्य विज्ञापनपुटकं प्रदर्शितं भविष्यति
हिमसंस्कृतवार्ता:- जगदीश डाभी, मुम्बई।
अक्षयकुमारस्य, टाइगर श्रॉफस्य च ‘बडे मियां छोटे मियां’ इति चलचित्रम् सम्प्रति वार्तायां वर्तते। अली अब्बास जफर इत्यनेन निर्देशितम् एतत् चलचित्रम् अस्मिन् वर्षे बृहत्तमेषु चलचित्रेषु अन्यतमम् अस्ति। प्रशंसकाः अस्य एक्शन्-चलचित्रस्य विषये अतीव जिज्ञासुः सन्ति, एतस्मिन् समये चलचित्रस्य विज्ञापनपुटकं-प्रकाशन-तिथिविषये नूतनाः सूचनाः आगता सन्ति। अस्य चलचित्रस्य ‘वल्लाह हबीबी’ इति गीतं बुधवासरे प्रदर्शितं जातम्। अस्य चलचित्रस्य तृतीयं गीतम् अस्ति। चलचित्रस्य एतत् नूतनं गीतं जनानां कृते उत्तमं प्रतिक्रियां प्राप्नोति। तृतीयगीतस्य विमोचनानन्तरम् अधुना वार्ता आगच्छति यत् चलचित्रस्य विज्ञापनपुटकम् अपि प्रदर्शितं भविष्यति। चिरकालात् प्रशंसकाः अक्षय- टाइगरयोः अस्य एक्शन-चलचित्रस्य पुटकस्य प्रतीक्षां कुर्वन्ति स्म अधुना प्रशंसकानां प्रतीक्षा समाप्तुं प्रवृत्ता अस्ति। प्राप्तसमाचारानुसारं ‘बडे मियां छोटे मियां’ इति चलचित्रस्य विज्ञापनपुटकं मार्चमासस्य २६-दिनाङ्के प्रदर्शितं भविष्यति। यद्यपि तस्य आधिकारिकघोषणा न कृता।
अस्मिन् दिने ‘बड़े मियां छोटे मियां’ इति चलचित्रस्य विज्ञापनपुटकं प्रदर्शितं भविष्यति
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
