काङ्ग्रेस-सर्वकारः दरिद्रपरिवारस्य महिलाभ्यः प्रतिवर्षं एकलक्षरूप्यकाणि दास्यति- खडगे
नई दिल्ली। कांग्रेसदलस्य अध्यक्षेण महिलाभ्यः न्यायस्य वचनं दत्त्वा बुधवासरे उक्तं यत् यदि केन्द्रे काङ्ग्रेससर्वकारस्य निर्माणं भविष्यति तर्हि निर्धनपरिवारस्य महिलाभ्यः प्रतिवर्षं एकलक्षरूप्यकाणां सहाय्यं भविष्यति। ‘नारीन्याय’-गारन्टी इति योजनायाः घोषणां कुर्वन् खर्गे अवदत् यत् अस्याः अन्तर्गतं काङ्ग्रेस-पक्षः देशे महिलानां कृते नूतनां कार्यसूचीं निर्धारयितुं गच्छति। सः अवदत् यत् महिलान्यायस्य गारण्टी इत्यस्य अन्तर्गतं काङ्ग्रेसदलं महिलानां कृते पञ्च घोषणां करोति।
सः अवदत् यत्, “काङ्ग्रेसदलेन महिलानां न्यायं प्रदातुं पञ्चसु वचनेषु प्रथमा महालक्ष्मी वचनं अस्ति, यस्याः अन्तर्गतं दरिद्रपरिवारस्य महिलाभ्यः प्रतिवर्षं एकलक्षरूप्यकाणां सहायता भविष्यति। द्वितीयवचनम् अर्धजनसंख्यायाः – पूर्णाधिकारस्य भविष्यति, यस्य अन्तर्गतं केन्द्रसर्वकारस्य नूतननियुक्तिषु महिलाः अर्धं अधिकारं प्राप्नुयुः। सत्तायां सम्मानं तृतीयवचनमस्ति यस्य अन्तर्गतं आंगनबाडी, आशा, मध्याह्नभोजनकार्यकर्तृणां मासिकवेतने केन्द्रसर्वकारस्य योगदानं द्विगुणं भविष्यति। सः अवदत् यत् अधिकारमैत्री चतुर्थवचनम् अस्ति यस्य अन्तर्गतं प्रत्येकस्मिन् पंचायते अधिकारमैत्रीरूपेण पैरा लीगल अर्थात् विधिसहायकस्य नियुक्तिः भविष्यति येन महिलाः स्वाधिकारस्य विषये अवगताः भविष्यन्ति किञ्च आवश्यकसहायतां प्रदास्यन्ति। महिलानां कृते पञ्चमी सावित्री बाई फुले छात्रावासस्य वचनम् अस्ति यस्य अन्तर्गतं भारतसर्वकारः देशे सर्वेषु जनपदेषु मुख्यालयेषु न्यूनातिन्यूनम् एकं महिलाछात्रावासं निर्मास्यति तथा च देशे सर्वत्र एतेषां छात्रावासनाम् संख्या दुगुणा भविष्यति।
काङ्ग्रेस-अध्यक्षः अवदत् यत्, “पूर्वं वयं सहभागिता-न्यायं, कृषक-न्यायं, युवान्यायं च घोषितवन्तः।
काङ्ग्रेस-सर्वकारः दरिद्रपरिवारस्य महिलाभ्यः प्रतिवर्षं एकलक्षरूप्यकाणि दास्यति- खडगे
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment
Leave a comment