By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: अनुरागठाकुरः – अधुना ऊनातः हरिद्वारपर्यन्तं प्रत्यक्षं रेलयानस्य सुविधा
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > अनुरागठाकुरः – अधुना ऊनातः हरिद्वारपर्यन्तं प्रत्यक्षं रेलयानस्य सुविधा
हिमाचलवार्ता

अनुरागठाकुरः – अधुना ऊनातः हरिद्वारपर्यन्तं प्रत्यक्षं रेलयानस्य सुविधा

डॉ मनोज शैल
Last updated: 2024/02/24 at 7:14 PM
डॉ मनोज शैल
Share
1 Min Read
SHARE

अनुरागठाकुरः – अधुना ऊनातः हरिद्वारपर्यन्तं प्रत्यक्षं रेलयानस्य सुविधा
हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।
केन्द्रीयसूचनाप्रसारणमन्त्री तथा युवाक्रीडामन्त्री अनुरागसिंहठाकुरः शुक्रवासरे उक्तवान् यत् ऊनाहिमाचलतः सहारनपुरपर्यन्तं रेलयानम् अधुना हरिद्वारपर्यन्तं गमिष्यति। अनुरागठाकुर: एतस्य निर्णयाय प्रधानमंत्रिण: नरेन्द्रमोदिन: तथा केन्द्रीयरेलमंत्रिण: अश्विनीवैष्णवस्य आभारं प्रकटितवान्। एतेन क्षेत्रस्य जनेभ्य: महान् लाभः भविष्यति, तीर्थयात्रायाः वृद्धिः भविष्यति इति सः अवदत्। अनुरागठाकुर: उक्तवान् यत् हरिद्वारम् प्रमुखं धार्मिकस्थलम् अस्ति, हिमाचलतः बहुसंख्याकाः जनाः तीर्थयात्रायै हरिद्वारं गच्छन्ति। रेलमन्त्री अश्वनीवैष्णवं स्वयमेव मिलित्वा एतां सुविधां आरभ्य अनुरोधं कृतवान् इति उक्तवान्। अधुना वयं प्रसन्नाः स्मः यत् रेलमन्त्री ऊना-हिमाचल-सहारनपुर- रेलयानस्य विस्तारस्य अनुमोदनं कृतवान्। इदानीं ऊनातः हरिद्वारपर्यन्तं एतद् रेलयानं प्रचलति। अनेन यात्रिकाणां कृते परिवहनसुविधाः भविष्यति । असौ उक्तवान् यत् प्रधानमंत्री देशस्य चतुर्थं वंदेभारतरेलयानं हिमाचलं प्रति उपहाररूपेण दत्तवान्। तस्य उद्घाटनार्थं मोदी स्वयं ऊनानगरम् आगतः। भारतस्य आधुनिकतमं रेलयानं अधुना हिमाचले केवलं भाजपा-कारणात् एव प्रचलति । हिमाचलप्रदेशे २०२३-२४ वित्तवर्षस्य कृते रेलमार्गविस्तारार्थं १८३८ कोटिरूप्यकाणां अनुमोदनं कृतम् अस्ति । रणनीतिकदृष्ट्या महत्त्वपूर्णायाः भानुपल्ली-बिलासपुर-बेरी-रेलमार्गस्य कृते १००० कोटिरूप्यकाणां, चण्डीगढ-बद्दी-रेलमार्गस्य कृते ४५० कोटिरूप्यकाणां, नङ्गल-तलवाड़ा-रेलमार्गस्य कृते ४५२ कोटिरूप्यकाणां च बजटे अनुमोदनं कृतम् अस्ति । रेलमार्गविस्तारार्थं १८३८ कोटिरूप्यकाणां एतद् अनुमोदनं यूपीए-शासनकाले २००९-२०१४ वर्षस्य अपेक्षया १७ गुणाधिकम् अस्ति । सम्प्रति राज्ये १९५५६ कोटिरूप्यकाणां २५८ कि.मी. चतुर्षु परियोजनासु कार्यं प्रचलति।

You Might Also Like

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

TAGGED: BJP Himachal, him sanskrit varta, HIM SASNSKRIT VARTA, Himsanskritnews, अनुराग ठाकुर, भाजपा, हिम संस्कृत वार्ताः, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल भाजपा
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article अनुरागठाकुरः चिन्तपूर्णीविधानसभायाः कृते ५६ लक्षरूप्यकाणां अनुमोदनं कृतवान्
Next Article Gagal Airport : गग्गलविमानस्थानकस्य विस्तारः – कारक-2 इत्यस्य अन्तर्गतं चतुर्गुणं क्षतिपूर्तिं मिलेत्, धर्मशालायाम् अभवत् विचारविमर्शः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?