By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: पञ्चदिवसीयभ्रमणार्थं सिङ्गापुरं प्रस्थितं प्रदेशस्य १०२ शिक्षकाणां दलम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > पञ्चदिवसीयभ्रमणार्थं सिङ्गापुरं प्रस्थितं प्रदेशस्य १०२ शिक्षकाणां दलम्
हिमाचलवार्ताप्रादेशिकवार्ता

पञ्चदिवसीयभ्रमणार्थं सिङ्गापुरं प्रस्थितं प्रदेशस्य १०२ शिक्षकाणां दलम्

डॉ मनोज शैल
Last updated: 2024/02/23 at 11:15 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

पञ्चदिवसीयभ्रमणार्थं सिङ्गापुरं प्रस्थितं प्रदेशस्य १०२ शिक्षकाणां दलम्

शिक्षायाः नूतनप्रविधिनां विषये अवगमिष्यन्ति

हिमसंस्कृतवार्ता- शिमला। 

मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः  ‘अन्ताराष्ट्रीयशिक्षकाणां भ्रमणम्’ इति कार्यक्रमस्य शुभारम्भं कृतवान्। प्रथमे समूहे राज्यस्य सर्वेभ्यः चयनिताः १०२ शिक्षकाः पञ्चदिवसीयभ्रमणार्थं प्रेषिताः सन्ति, ये फेब्रुवरी-मासस्य २४ दिनाङ्के सिङ्गापुरं प्रति प्रस्थास्यन्ति। मुख्यमन्त्री चयनितशिक्षकाणां कृते विदेशीयभ्रमणसामग्री अपि प्रदत्तवान्। सः अवदत् यत् मार्चमासस्य १५ दिनाङ्के ९८ शिक्षकाणां द्वितीयः समूहः अन्ताराष्ट्रीयभ्रमणार्थं प्रेषितः भविष्यति। सर्वेभ्यः चयनितशिक्षकेभ्यः अभिनन्दनं कृत्वा मुख्यमन्त्री विदेशे प्रशिक्षणकाले शिक्षाक्षेत्रे नूतनानां प्रौद्योगिकीनां विषये अवगतस्य अवसरं प्राप्स्यन्ति इति अवदत्। शिक्षायाः नूतनप्रविधीन् ज्ञात्वा शिक्षकाणां छात्राणां च मध्ये उत्तमः समन्वयः छात्राणां सर्वतोमुखीविकासं सुनिश्चितं करिष्यति।

सः अवदत् यत् गुणात्मकशिक्षाप्रदानस्य दृष्ट्या हिमाचलं १८ तमे स्थाने स्खलितः अस्ति। वर्तमान राज्यसर्वकारः शिक्षायाः उन्नयनार्थं यथाशक्ति प्रयत्नः कुर्वन् अस्ति, येन छात्राः भविष्यस्य आव्हानानां प्रत्यक्षीअरणं कर्तुं सक्षमाः भवितुम् अर्हन्ति। सः अवदत् यत् राज्ये उद्घाटिताः राजीवगान्धी-दिवस-बोर्डिंग-विद्यालयाः शिक्षायां गुणात्मक-उन्नयनस्य दिशि एकः अद्वितीयः उपक्रमः अस्ति तथा च आगामिषु दशवर्षेषु एते विद्यालया: उत्तम-शैक्षिक-केन्द्ररूपेण उद्भवन्ति, यत्र शिक्षया सह, सुविधाः अपि भविष्यन्ति क्रीडायाः कृते अपि पर्याप्तसुविधाः उपलभ्यन्ते।

मुख्यमन्त्री उक्तवान् यत् आगामि शैक्षणिकसत्रात् आरभ्य सर्वकारीयविद्यालयेषु प्रथमश्रेणीतः आङ्ग्लमाध्यमेन शिक्षा पाठिता भविष्यति, विद्यालयेभ्यः सुन्दरवेशभूषाया: चयनस्य अधिकारः दत्तः अस्ति तथा च समूहनिर्माणं कृत्वा संसाधनानाम् उत्तमः उपयोगः भविष्यति। सः अवदत् यत् राज्यसर्वकारस्य द्वितीयबजटे आत्मनिर्भरस्य हिमाचलस्य दृष्टिः प्रस्तुता अस्ति, यस्य सकारात्मकं परिणामम् आगामिषु वर्षेषु दृश्यमानं भविष्यति। हिमाचलः नूतननीतिभिः, कठिननिर्णयैः च प्रगतेः मार्गे अग्रे गमिष्यति। सः अवदत् यत् सुकुमारा आर्थिकस्थितिः अस्ति चेदपि राज्यं स्वावलम्बनं कर्तुं प्रयत्नाः प्रचलन्ति येन ऋणाश्रयः न्यूनीकर्तुं शक्यते। सः अवदत् यत् राज्यसर्वकारेण कर्मचारिभ्यः ४ प्रतिशतं महार्घतावृत्ति: घोषिता। पुरातनवृत्तियोजना अपि पुनर्स्थापिता येन लक्षशः सर्वकारीयकर्मचारिणः लाभं प्राप्नुवन्ति। एतत् एव न, राज्यसर्वकारेण आगामिवित्तवर्षात् राज्यकर्मचारिभ्यः सेवाकाले न्यूनातिन्यूनं द्विवारं एलटीसीसुविधा प्रदातुं घोषितम्। शिक्षामन्त्री रोहितठाकुरः अवदत् यत् अद्य ऐतिहासिकः दिवसः अस्ति यदा प्रथमः शिक्षकसमूहः अन्ताराष्ट्रीयभ्रमणार्थं प्रस्थातुं गच्छति। एतेन शिक्षकाः शिक्षायाः नूतनाः पद्धतयः ज्ञातुं अवसरं प्राप्नुवन्ति। सः अवदत् यत् वर्तमानसर्वकारस्य निर्माणात् आरभ्य शिक्षायाः गुणवत्तां वर्धयितुं दृढ़प्रयत्नाः क्रियन्ते। सः अवदत् यत् राज्यसर्वकारः शिक्षाविभागे रिक्तस्थानानि प्राथमिकतारूपेण पूरयति, येन सर्वकारीयविद्यालयेषु गुणवत्तापूर्णशिक्षा सुनिश्चिता भवति।

You Might Also Like

शिक्षणक्षेत्रे उल्लेखनीयस्य योगदानस्य हेतुना प्राध्यापकः डॉ. चिरागः हेमन्तकुमारः पुरोहितः विशेषसम्मानेन पुरस्कारैश्च अलङ्कृतः

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

TAGGED: Education, Education Minister, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himachal news, Himsanskritnews, hp budget, hp education, hpgovt, NEP 2020, नई शिक्षा नीति 2020, शिक्षा मंत्री, शिक्षा विभाग हिमाचल, सिंगापुर
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HP Budget Session :  ३१ मार्चपर्यन्तं विमोचिता भविष्यति हिमकेयर योजनायाः लंबितराशिः – धनीरामशाण्डिल:
Next Article HP Budget Session : केरल-कर्नाटकप्रान्तयो: इव हिमाचलसर्वकारेण अपि स्वस्य अधिकारस्य आग्रहाय दिल्लीं गन्तव्यं भविष्यति – जगतसिंहनेगी
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?