पर्वतात् आरभ्य राष्ट्रियमञ्चपर्यन्तं प्रतिध्वनन्ति हिमाचलस्य ग्रे-जल-प्रबन्धन-प्रयत्नाः
हिमसंस्कृतवार्ता- शिमला।
स्वच्छभारतमिशनग्रामीणहिमाचलप्रदेशस्य प्रवक्ता अवदत् यत् हिमाचलप्रदेशस्य ग्रे-जलप्रबन्धनप्रयासाः राष्ट्रियस्तरस्य मान्यतां प्राप्तवन्तः, राज्यस्य प्रतिरूपं देशे सर्वत्र स्वीकरणार्थं विचार्यते। सः अवदत् यत् लखनऊनगरे जलजीवनमिशनस्य स्वच्छभारतमिशनस्य च संयुक्ताश्रयेण केन्द्रीयपेयजलस्वच्छताविभागेन स्वच्छताक्षेत्रे सर्वोत्तमप्रयासानां प्रकाशनाय आयोज्यमाने द्विदिनात्मके राष्ट्रियसम्मेलने विभागस्य वाशसंस्थानस्य च प्रतिनिधय: स्वानुभवान् प्रकटयितुं आमन्त्रिता: सन्ति।
असौ अकथयत् यत् स्वच्छभारतमिशन-ग्रामीणस्य अन्तर्गतं हिमाचलप्रदेशस्य ग्रामीणविकासविभागेन राज्यस्य स्वच्छतां कर्तुं प्रयोजनेन विशालप्रयत्नाः क्रियन्ते । अस्मिन् क्रमे वाश संस्थानस्य तकनीकीसमर्थनेन पंचायतीराजं राज्यग्रामीणजीविकामिशनं च सम्मिल्य विभागेन अभिसरणद्वारा सम्पूर्णे राज्ये ग्रे-जलप्रबन्धनविषये व्यापक-जागरूकताया: सर्वेक्षणस्य च अभियानं कृतम्। अस्मिन् सर्वेक्षणे राज्यस्य सर्वान् ग्रामान् समावेशयित्वा राज्यस्य ग्रे-जलप्रबन्धनस्य, शौचालयव्यवस्थायाः, स्वच्छतायाः च स्थितिः ज्ञातुं प्रयत्नः कृतः अस्य प्रयासस्य सकारात्मकं आकारं दातुं WASH संस्थायाः तकनीकीसमर्थनं प्रदत्तम् यस्य अन्तर्गतं स्वच्छतासम्बद्धसूचनाः संग्रहीतुं अनुप्रयोग: (एप् डिजाइन) सज्जीकृत:। एतदतिरिक्तं अन्यसर्वेक्षणसम्बद्धा: सामग्र्य: अपि एतेषां सीआरपी-भ्यः WASH संस्थायाः कृते उपलभ्यन्ते येन सर्वेक्षणस्य समये तेभ्य: कस्यापि समस्यायाः सम्मुखीकरणं न भवेत्। राज्यग्रामीणजीविकामिशनस्य प्रायः १७४४ चयनितसामुदायिकसंसाधनव्यक्ति (सीआरपी) महिलाः WASH संस्थायाः एप् विषये प्रशिक्षिताः आसन्।
राज्यस्य १६७४३ ग्रामानां वास्तविकं सर्वेक्षणं एतैः सीआरपीभिः क्रियते, येषु अधुना यावत् सार्धसहस्राधिकेषु ग्रामेषु एतत् सर्वेक्षणं कृतम् अस्ति अस्मिन् काले पंचायतप्रतिनिधिनां साहाय्येन एतैः प्रशिक्षितैः सीआरपीभिः ग्रामसभाः आयोजिताः तथा च ग्रे-जलप्रबन्धनं, शौचालयव्यवस्था तथा च स्वच्छता प्रायः सार्धत्रिलक्षजनैः सह संवादं कृत्वा जागरूकताप्रसारणस्य कार्यं कृतम्।
ग्रामीणविकासविभागेन WASH संस्थायाः सहकारेण कृतस्य अस्य प्रयासस्य राष्ट्रियस्तरे प्रशंसा कृता अस्ति तथा च देशे सर्वत्र हिमाचलस्य एतत् प्रतिरूपं स्वीकर्तुं प्रयत्नाः आरब्धाः।
अस्मिन् क्रमे हिमाचलस्य ग्रामीणविकासविभागस्य, हिमाचलस्य WASH संस्थानस्य च प्रतिनिधय: १६-१७ फरवरी दिनाङ्के लखनऊनगरे आयोज्ये राष्ट्रियस्तरीयसम्मेलने स्वस्य अनुभवान् प्रकटयिष्यन्ति । अस्मिन् सम्मेलने सर्वेषां राज्यानां स्वच्छभारत- मिशनस्य प्रतिनिधिः, विशेषज्ञाः, पर्यावरणविदा: इत्यादयः भागं गृह्णन्ति।