मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः- चिकित्सापदाधिकारिणां प्रार्थना: उपालम्भान् च निवारयितुं समितिः निर्मिता भविष्यति
हिमसंस्कृतवार्ता:- शिमला।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः विशेषसचिवस्य (स्वास्थ्यस्य) अध्यक्षतायां चिकित्सापदाधिकारिणां प्रार्थना: उपालम्भान् च निवारयितुं समितिं निर्मातुं निर्देशं दत्तवान्। अस्यां समित्यां स्वास्थ्यनिदेशकः परिवारकल्याणं, चिकित्साशिक्षानिदेशकः, चिकित्सापदाधिकारिसङ्घस्य प्रतिनिधय: च समाविष्टाः भविष्यन्ति। सः अवदत् यत् एषा समितिः वैद्यानां पदोन्नतिसम्बद्धानां विविधानां पक्षानाम् अध्ययनं करिष्यति, चिकित्साधिकारिणां कल्याणाय मार्गदर्शिकानां अनुशंसा करिष्यति।
मुख्यमन्त्री उक्तवान् यत् विकटवित्तीयस्थितिः अस्ति चेदपि राज्यसर्वकारः वैद्यानाम् उचित-याचना: सहानुभूतिपूर्वकं विचारयति। सर्वकारस्य प्रयत्नस्य फलस्वरूपम् अधुना राज्यस्य अर्थव्यवस्था शनैः शनैः पुनः मार्गं प्राप्नोति। सः आश्वासनं दत्तवान् यत् राज्यकर्मचारिभ्यः सर्वेऽपि आर्थिकलाभाः समये एव सुनिश्चिताः भविष्यन्ति। राज्यस्य अर्थव्यवस्थायाः उन्नयनार्थं राज्यसर्वकाराय यथाशक्ति सहकार्यं कर्तुं चिकित्साधिकारिणः आह्वानं कृतवान्।
सुखविन्दरसिंहसुक्खुः उक्तवान् यत् स्वास्थ्यक्षेत्रे वैद्यानां, पैरामेडिकलकर्मचारिणां च अभावं पूरयितुं राज्यसर्वकारः नवीनचिकित्साधिकारिणां सहायककर्मचारिणां च नियुक्तिं कुर्वन् अस्ति। एतदतिरिक्तं वैद्यानां कार्यस्य उन्नयनार्थं अष्टहोराणां पालनाया: आरम्भार्थं कार्यं क्रियते। स्वास्थ्यसेवाक्षेत्रे स्वकौशलस्य, नवीनतमप्रौद्योगिक्याः च उन्नयनार्थं वैद्यानां कृते विदेशेषु एक्सपोजर-भ्रमणस्य आयोजनमपि भविष्यति। सः स्वास्थ्यविभागाय निर्देशं दत्तवान् यत् चिकित्सकानाम् कार्याणि सुव्यवस्थितं कर्तुं अधिकारिणां विवरणानां डिजिटलीकरणं करणीयम्।
सः अवदत् यत् तेषां गृहसमीपे जनानां कृते विशेषज्ञस्वास्थ्यसुविधाः प्रदातुं प्रत्येकस्मिन् विधानसभाक्षेत्रे आदर्शस्वास्थ्यसंस्थाः स्थापिताः सन्ति तथा च प्रत्येकस्मिन् संस्थाने ६ विशेषज्ञवैद्याः नियोजिताः सन्ति। गोष्ठ्यां स्वास्थ्य एवं परिवार कल्याण मंत्री डॉ. (कर्नल) धनीरामशांडिल:, स्वास्थ्यसचिव एम. सुधा देवी, विशेषसचिव: स्वास्थ्यम् नीरजकुमार: एवं डॉ. अश्विनीकुमार शर्मा, निदेशक: स्वास्थ्यसेवा डॉ. गोपालबेरी एवं चिकित्साधिकारी संघस्य प्रतिनिधय: उपस्थिता: अभवन्।