“हरियाणाया: भूरि जनपदेषु दूरभाषीयान्तर्जालसेवा निरोधनस्यादेश: प्रख्यापित:”
पंजाब-हरियाणा-प्रदेशयो: मध्ये सङ्घू सीमा-क्षेत्रं प्रशासनेन सीमेंटेड बेरिकेड्स इत्यनेन बन्धनेन, कण्टकित-लौह-सूत्रबन्धनेन च जडीकृतम् अस्ति। घग्गर नद्या: उपरि निर्मित: सेतुरपि गमनागमनार्थं पिहितीकृतः अस्ति। नद्या: आभ्यन्तरेSपि तस्या: गहनतादृशा अतोSपि गहनतामापादयितुं खननं कृतमस्ति, येन कञ्चन अपि वाहनं नद्या: पारे गन्तुं न शक्नुयात्।
षड्विंशतिः कृषक-संघटनै: फरवरी-त्रयोदश्यां पञ्जाबराज्याद् दिल्लीम्प्रति प्रस्थानस्य घोषणा कृतास्ति। हरियाणारक्षिबलेन सर्वसाधारणेभ्य: जनेभ्यः अध्यर्थना कृतास्ति- ‘ आत्यावश्यकतायां सत्याम् एव ते पञ्जाबराज्यम्प्रति यात्रां कुर्युः’। फरवरी-त्रयोदश्यां प्रस्तावितस्य कृषक आन्दोलनस्य कारणेन हरियाणाया: अम्बाला-कुरुक्षेत्र-जींद-हिसार-फतेहाबा-सिरसा-जनपदेषु दूरभाषीयान्तर्जालसेवा निरोधनस्य आदेश: प्रख्यापित:। रविवासरे प्रात: षड् वादनात् आरभ्य मंगलवासरे रात्रौ द्वादशवादनं यावत् दूरभाषीयान्तर्जालसेवा प्रतिषेधिता वर्तते
वार्ताहरः- युवराजभट्टराई