By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP Cabinet Decision : हिमाचले मन्त्रिमण्डलस्य तिस्र: उपसमितयः निर्मिताः, अनेकानि पदानि पूरयितुम् अनुमोदनम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > प्रादेशिकवार्ता > HP Cabinet Decision : हिमाचले मन्त्रिमण्डलस्य तिस्र: उपसमितयः निर्मिताः, अनेकानि पदानि पूरयितुम् अनुमोदनम्
प्रादेशिकवार्ताहिमाचलवार्ता

HP Cabinet Decision : हिमाचले मन्त्रिमण्डलस्य तिस्र: उपसमितयः निर्मिताः, अनेकानि पदानि पूरयितुम् अनुमोदनम्

डॉ मनोज शैल
Last updated: 2024/02/10 at 8:22 AM
डॉ मनोज शैल
Share
4 Min Read
SHARE

HP Cabinet Decision : हिमाचले मन्त्रिमण्डलस्य तिस्र: उपसमितयः निर्मिताः, अनेकानि पदानि पूरयितुम् अनुमोदनम्

हिमसंस्कृतवार्ता:- शिमला। 

हिमाचलप्रदेशस्य मन्त्रिमण्डलस्य गोष्ठी शुक्रवासरे मुख्यमन्त्रिण: सुखविन्दरसिंहसुक्खो: अध्यक्षतायां सम्पन्ना। सभायां बहवः बृहत् निर्णयाः कृताः। सभायां विविधविषयेषु  मन्त्रिमण्डलस्य तिस्र: उपसमितय: निर्मातुं निर्णयः कृतः । मन्त्रिमण्डलस्य सभायां हिमाचलप्रदेशस्य १४ तमाया: विधानसभायाः बजटसत्रे दातव्यं राज्यपालस्य सम्बोधनं अनुमोदितम्। हिमाचलप्रदेश- राज्यचयन- आयोगस्य सन्दर्भे प्रक्रियायाः व्यापारसञ्चालनस्य च नियमनिर्माणस्य अपि मन्त्रिमण्डलेन अनुमोदनं कृतम्। एतेन सह विघटितस्य हिमाचलप्रदेशस्य कर्मचारी-चयन-आयोगस्य हमीरपुरस्य अन्तर्गतं पुलिस-अनुसन्धानस्य कारणेन लंबितानां विविधपरीक्षापरिणामानां कानूनीपक्षस्य परीक्षणार्थं उपमुख्यमन्त्री मुकेश अग्निहोत्रिण: अध्यक्षतायां मन्त्रिमण्डल- उपसमित्याः सङ्घटनस्य अनुमोदनं दत्तम्। अस्या: उपसमित्याः उद्योगमन्त्री हर्षवर्धन चौहान:, राजस्वमन्त्री जगतसिंहनेगी, लोकनिर्माणमन्त्री विक्रमादित्यसिंहः आयुषमन्त्री यादविन्द्रगोमा च सदस्याः भविष्यन्ति।

विभिन्नविभागेभ्यः आवंटितानां अनुबन्धे  दत्तानां वा दीर्घकालं यावत् अप्रयुक्तानां राजस्वभूमिनां समीक्षायै राजस्वमन्त्रिण: जगतसिंहनेगिन: अध्यक्षतायां मन्त्रिमण्डलस्य उपसमित्याः सङ्घटनस्य निर्णयः मन्त्रिमण्डलेन कृतः। अस्यां उपसमितौ ग्रामीणविकास एवं पंचायतीराजमंत्री अनिरुद्धसिंह:, लोकनिर्माणमंत्री विक्रमादित्यसिंह: एवं नगरनियोजनं योजनामंत्री राजेशधर्माणी सदस्या: भविष्यन्ति। एतेन सह विभिन्नविभागेषु अप्रयुक्तानां रिक्तभवनानां समीक्षायै ग्रामीणविकासस्य पंचायतीराजमन्त्रिण: अनिरुद्धसिंहस्य च अध्यक्षतायां मन्त्रिमण्डलस्य उपसमित्याः सङ्घटनस्य अपि निर्णयः कृतः अस्याः उपसमित्याः सदस्याः नगर- ग्रामनियोजनमन्त्री राजेशधर्माणी आयुषमन्त्री यादविन्द्र गोमा च भविष्यन्ति।

सोलनजनपदस्य बद्दी इत्यत्र उपमण्डलाधिकारी (सिविल) कार्यालयस्य उद्घाटनम् कर्तुमपि मन्त्रिमण्डलेन अनुमोदितम्। गोष्ठ्यां सोलनजनपदस्य पट्टायां तथा कांगड़ाजनपदस्य पालमपुरे खण्डविकासकार्यालययो: उद्घाटनाय अनुमोदनं कृतम्। मन्त्रिमण्डलेन हिमाचलप्रदेश- प्रशासनिकसेवानां अन्तर्गतं प्रत्यक्षनियुक्त्या पञ्च पदानि पूरयितुं निर्णयः कृतः। एतानि पदानि हिमाचलप्रदेशप्रशासनिक- सेवा-संयुक्त- प्रतियोगीपरीक्षाया: माध्यमेन पूरयिष्यन्ते। राजस्वविभागे तहसीलदारस्य नव पदानि नायब तहसीलदारस्य १९ पदानि च पूरयितुं मन्त्रिमण्डलेन निर्णयः कृतः।

सोलन मण्डलस्य बद्दी तहसीलस्य झाड़माजरीक्षेत्रे आवश्यकपदानां निर्माणेन सह नूतनं पटवारवृत्तस्य निर्माणमपि मन्त्रिमण्डलेन अनुमोदितम्। सभायां योजनाविभागे विभिन्नवर्गस्य सप्तपदानि प्रत्यक्षनियुक्त्या पूरयितुम् अपि अनुमोदनं दत्तम्। किन्नौर- लाहौल- स्पीति- जनपदयोः सहायकपर्यटनविकासपदाधिकारिणः कार्यालयानां सुचारुरूपेण कार्यानुष्ठानार्थं विभिन्नवर्गस्य षट् पदानाम् निर्माणं पूरणं च मन्त्रिमण्डलेन अनुमोदितम्। गोष्ठ्यां मिशन वात्सल्य-योजनाया: अन्तर्गतं जिला बालसंरक्षण-अधिकारिण: चत्वारि पदानि पूरयितुं अपि निर्णयः कृतः।

लोकसेवा- आयोगस्य माध्यमेन पुलिसारक्षकाणां नियुक्तिः भविष्यति

राज्यसर्वकारः लोकसेवा-आयोगस्य माध्यमेन १२४३ पुलिसारक्षकाणाम् नियुक्तिं करिष्यति। एषा सूचना राजस्वमन्त्री जगतसिंह नेगी इत्यनेन दत्ता। सः अवदत् यत् भौतिकसत्यापनं पुलिसविभागेन भविष्यति। अस्मिन् तस्य नियमाः पुलिस-मुख्यालयेन निर्मिताः सन्ति । एतद् शीघ्रमेव कार्यान्वितं भविष्यति। अस्यां नियुक्तौ महिलानां कृते ३० प्रतिशतं आरक्षणं भविष्यति।

अनुबन्ध-(पट्टा) नियमेषु संशोधनम्, अधुना प्रतिवर्गमीटर १ रुप्यकस्य स्थाने ५ रुप्यकाणि गृहीतानि भविष्यन्ति

मन्त्रिमण्डलस्य गोष्ठ्यां विमुखीकृतवनभूमिषु हिमाचलप्रदेशस्य  अनुबन्ध (पट्टे) नियमे संशोधनार्थं अनुमोदनं दत्तं यत् प्रतिवर्गमीटर १ तः ५ रुप्यकाणि यावत् अनुमोदितम्। अधुना हिमाचले विपथितवनभूमिः यत्किमपि अनुबन्धे गृह्णीयात् तत् प्रतिवर्गमीटर् ५ रुप्यकाणि भविष्यति। विपथनस्य अनुमोदनं केन्द्रसर्वकारस्य केन्द्रीय- पर्यावरण- वन- जलवायु- परिवर्तनमन्त्रालयात् प्राप्यते। २०१३ तमे वर्षे वृत्तदरस्य १० प्रतिशतं शुल्कं गृहीतम्। २०१६ तमे वर्षे प्रतिवर्गमीटर् १ रुप्यकाणि यावत् वर्धिता। अधुना सर्वकारेण अनुबन्ध (पट्टा) नियमे संशोधनं कृत्वा प्रतिवर्गमीटर ५ रुप्यकाणि कृतम्। राजस्वमन्त्री जगतसिंहनेगी इत्यनेन उक्तं यत् पट्टे धनवृद्ध्या सर्वकारस्य राजस्वस्य वृद्धिः भविष्यति। गतवर्षे सर्वकारेण पट्टे अवधिः न्यूनीकर्तुं निर्णयः कृतः आसीत् । राज्यसर्वकारेण पट्टे भूमिग्रहणस्य अवधिः ९९ वर्षात् अधिकतमं ४० वर्षाणि यावत् न्यूनीकृता अस्ति।

 

जन्ममृत्युपञ्जीकरणाय दिसम्बरमासस्य प्रतीक्षां न भवति। राज्यस्य जनानां परिवारपञ्जिकायां जन्ममृत्युपञ्जीकरणार्थं दिसम्बरमासस्य प्रतीक्षां न कर्तव्या भविष्यति। अस्य विषये सर्वकारेण पञ्जायतराजनियमेषु परिवर्तनं कृतम् अस्ति। राजस्वमन्त्री जगतसिंह नेगी उक्तवान् यत् अधुना जनाः यदा इच्छन्ति तदा पंचायतपञ्जिकायां जन्ममृत्युपञ्जीकरणं कर्तुं शक्नुवन्ति, जन्ममृत्युप्रमाणपत्रं च प्राप्तुं शक्नुवन्ति।

बजटसत्रात् पूर्वं फरवरीमासे १३ दिनाङ्के सर्वेषां दलानां सभा भविष्यति

अपरपक्षे विधानसभायाः बजटसत्रस्य कृते फेब्रुवरी १३ दिनाङ्के सर्वपक्षीयसमागमः भविष्यति। हिमाचलप्रदेशस्य विधानसभा अध्यक्षः कुलदीपसिंह पठानिया १२ फरवरी दिनाङ्के अपराह्णे १२:१५ वादने प्रेस गैलरी समितिसभायाः अध्यक्षतां करिष्यति। अपराह्णे ३:०० वादने बजटसत्रं दृष्ट्वा सुरक्षाव्यवस्थासम्बद्धस्य सभायाः अध्यक्षतां करिष्यति। विधानसभा अध्यक्षः अवदत् यत् बजटसत्रे राज्यपालस्य सम्बोधनं, वित्तीयवर्षस्य २०२४-२५ तमस्य वर्षस्य बजटं च मुख्यमन्त्रिणा सदने प्रस्तुतं भविष्यति। १४ फरवरीतः बजटसत्रस्य आरम्भः भविष्यति। १३ फरवरी दिनाङ्के अपराह्णे १:०० वादने सर्वदलसमागमः भविष्यति।

You Might Also Like

हिमाचलस्य वित्तीयस्थितये जयरामठाकुरः केन्द्रीयवित्तमन्त्रिणा सह मिलितवान्

युनः मादकद्रव्याणि त्यक्ष्यन्ति, क्रीडाः स्वीकरिष्यन्ति- अनुराग ठाकुरः

अप्रत्याशित- मेघविस्फोट- घटनाः सङ्कुचन्तः हिमनदाः च जलवायुपरिवर्तनस्य सङ्केताः- मुख्यमन्त्री सुक्खु:

टांकरी लिपे: पुनरुत्थानाय आयोजिता कार्यशाला, द्वयो: छात्रवृत्तयो: घोषणा

अन्तर्राष्ट्रीय-मण्डी-महाशिवरात्रि-महोत्सवः – राजकीय-शोभायात्रया लघ्वीकाश्यां मण्ड्यां देवी-देवतानां महाकुम्भः आरब्धः

TAGGED: Cm Sukhu, him sanskrit varta, HIM SASNSKRIT VARTA, Himsanskritnews, HP Cabinet Decision, HPCM, hpgovt, मुख्यमन्त्री सुखविन्दर सिंह सुक्खु, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल सरकार के निर्णय
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article उपमुख्यमंत्रिण: मुकेश-अग्निहोत्रिण: धर्मपत्न्या: निधनम्
Next Article लोसरपर्वणि परोक्ष्यते हिमाचलीव्यञ्जनानि, धर्मशालाया: मैक्लोड़गञ्जे आचर्यते नववर्षम्, अद्यारभ्य:  पूजा-अर्चना
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?