हिमाचलवार्ता – नूतनशैक्षणिकसत्रात् हिमाचलस्य विद्यालयेषु ३० अध्ययनदिनानि वर्धयिष्यन्ते, प्रस्तावः सज्जः
हिमसंस्कृतवार्ता:- शिमला।
नूतनशैक्षणिकसत्रात् हिमाचलप्रदेशस्य विद्यालयेषु प्रायः ३० अध्ययनदिनानि वर्धयिष्यन्ते। उच्चशिक्षानिदेशालयेन क्रीडादीनां दिवसानां न्यूनीकरणाय प्रस्तावः सज्जीकृतः। विद्यालयेषु अध्ययनदिनानि १८५ तः २१५ यावत् वर्धयितुं सज्जता वर्तते। राज्यसर्वकारस्य अनुमोदनानन्तरं नूतनशैक्षणिकसत्रात् नूतनव्यवस्था कार्यान्विता भविष्यति। शैक्षणिकसत्रे प्रायः २२० अध्ययनदिनानि भवितुं सर्वकारेण निर्णयः कृतः अस्ति। सम्प्रति वर्षे प्रायः १८५ दिनानि यावत् विद्यालयेषु शिक्षा प्रदत्ता भवति। शिक्षायां गुणवत्ताम् आनेतुं मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अधुनैव विभागस्य समीक्षासभायां अध्ययनदिनानि वर्धयितुं निर्देशं दत्तवान्। अध्ययनदिनानि १८५ तः २२० यावत् वर्धयितुं कथितम् अस्ति। विद्यालयेषु ५२ दिवसाः अवकाशदिनानि सन्ति। शिशिरविद्यालयेषु शिशिरे अधिका: अवकाशा: भवन्ति, ग्रीष्मकालीनविद्यालयेषु वर्षार्तौ अधिका: अवकाशा: भवन्ति। एतदतिरिक्तं शिशिरवर्षर्तौ उत्सवैः सह अन्ये केचन अवकाशदिनानि च श्रेणीश: शिशिरग्रीष्मकालीनविद्यालयाः सन्ति। एतानि अवकाशदिनानि न्यूनीकर्तुं अद्यापि कोऽपि प्रस्तावः नास्ति। यदि क्रीडादीनां दिवसानां न्यूनीकरणानन्तरं अपि पर्याप्तानि अध्ययनदिनानि न वर्धन्ते तर्हि अवकाशदिनानां विषये अन्तिमनिर्णयं सर्वकारः करिष्यति। शिक्षाविभागस्य प्रथमः प्रस्तावः क्रीडापञ्चाङ्गस्य पुनर्निर्माणम् अस्ति। एतदतिरिक्तं स्वच्छता, पर्यावरणसहितानाम् अन्येषां पक्षाणां दिवसाः अध्ययनदिनेषु परिणेतव्याः। यदि एतेषु संशोधनं कृत्वा अध्ययनदिनानि न वर्धन्ते, तर्हि द्वितीयः प्रस्तावः अवकाशदिनानां न्यूनीकरणस्य अनुशंसा करोति।