रोबोट प्रयोगशाला – बिलासपुरस्य जिलाशिक्षाप्रशिक्षणसंस्थाने जुखालायां स्थापिता भविष्यति प्रदेशस्य प्रथमा रोबोट्-प्रयोगशाला
हिमसंस्कृतवार्ता:- शिमला।
बिलासपुरस्य जनपदस्य अन्तर्गतं राजकीय- वरिष्ठ- माध्यमिक- विद्यालये घुमारवीं इत्यत्र राज्यस्य प्रथमाया: अन्तरिक्षप्रयोगशालायाः स्थापनायाः अनन्तरं अधुना बिलासपुरस्य जिलाशिक्षाप्रशिक्षणसंस्थाने जुखालायां हिमाचलस्य प्रथमा रोबोटिकप्रयोगशालायाः स्थापनायाः प्रयासाः आरब्धाः। अस्यां रोबोट्-प्रयोगशालायां प्रायः २२ लक्षरूप्यकाणां राशिः व्ययिता भविष्यति। एतदर्थं जिलाशिक्षाप्रशिक्षणसंस्थानेन प्रयत्नाः आरब्धाः। शीघ्रमेव हिमाचलस्य प्रथमा रोबोट्-प्रयोगशाला सज्जा भविष्यति। अस्यां प्रयोगशालायां शैक्षिकयात्रायां आगच्छन्तः विद्यालयस्य बालकान् विहाय अन्ये जनाः प्रयोगशालायां उपविश्य सहजतया ब्रह्माण्डस्य भ्रमणं करिष्यन्ति। एपीजे- अब्दुलकलाम- विज्ञानकेन्द्रं जिलाशिक्षाप्रशिक्षणसंस्थाने जुखालायां स्थापितम् अस्ति, यस्य कारणात् राज्यस्य अन्येभ्यः भागेभ्यः अपि जनाः अत्र भ्रमणार्थम् आगच्छन्ति। बालानाम् विज्ञानविषये रुचिः वर्धयितुं निरन्तरं प्रयत्नाः क्रियन्ते, येन राज्यस्य युनः वैज्ञानिकाः विज्ञानविषये सूचनां सहजतया प्राप्तुं शक्नुवन्ति।
एतां श्रृंखलाम् अग्रे नीत्वा हिमाचलस्य प्रथमा रोबोटिक- प्रयोगशाला अधुना जुखालायां निर्मितः भविष्यति। इदं कथ्यते यत् वर्चुअल प्रयोगशालया सह अन्ये एतादृशानि उपकरणानि अस्यां रोबोट प्रयोगशालायां स्थापिताः भविष्यन्ति येन अत्र आगच्छन्तः जनाः ब्रह्माण्डस्य भ्रमणं कर्तुं इव अनुभूयन्ते। एतदर्थं शीघ्रमेव एतत् उपकरणं स्थापितं भविष्यति। विद्यालयस्य बालकाः अत्र विज्ञानसम्बद्धविषयान् सहजतया अध्ययनं कर्तुं शक्नुवन्ति। एतस्मात् यूनां वैज्ञानिकानां लाभः भविष्यति। अनेन बालानां विज्ञानविषये रुचिः वर्धते।