हिमाचल सर्वकारः – उद्योगेषु दृष्टिः स्थास्यति संयुक्तकार्यदलम्, उद्योगमन्त्री शीघ्रमेव तस्य सङ्घटनार्थं अधिकारिभ्यः निर्देशं दत्तवान्
हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।
उद्योगमन्त्री हर्षवर्धनचौहानः औद्योगिक-एककानां सुरक्षापक्षस्य समीक्षायै संयुक्तकार्यदलस्य सङ्घटनस्य घोषणां कृतवान्। एतत् कार्यदलं ज्वलनशील- संकटापन्न- पदार्थानाम् उपयोगं कुर्वन्तः उद्योगानां परिचयं करिष्यति, सुरक्षा-मान्यताः सुनिश्चित्य समुचितान् निर्देशान् च दास्यति। एतदतिरिक्तं अग्निशामकविभागाय उद्योगानां अग्निपरीक्षणं कृत्वा एकमासान्तरे प्रतिवेदनं प्रस्तोतुं निर्देशः अपि दत्तः। उद्योगमन्त्री उक्तवान् यत् राज्यसर्वकारः एतत् सुनिश्चितं करिष्यति यत् बद्दीक्षेत्रस्य झाड़माजरी स्थिते कम्पन्यां यथा दुर्भाग्यपूर्णघटना घटिता तथा पुनः न भवेत्। हर्षवर्धन चौहान गतदिवसे बद्दीक्षेत्रस्य विभिन्नविभागानाम् अधिकारिभिः, विभिन्नोद्योगप्रतिनिधिभिः सह आयोजितायाः सभायाः अध्यक्षतां कुर्वन् आसीत्। हर्षवर्धन चौहान इत्यनेन उक्तं यत् कार्यदलम् विभिन्नानां उद्योगानां निरीक्षणं करिष्यति। डीजल, पेट्रोल, मद्य, रसायनानां च भण्डारणं क्षमतानुसारं भवतु इति सुनिश्चितं करिष्यति। सः अग्निशामकविभागाय एकमासान्तरे सर्वेषां उद्योगानां अग्निपरीक्षणं कर्तुं निर्देशं दत्तवान्।
सुरक्षाकारणात् सर्वेषु उद्योगेषु चत्वारि निर्गमद्वाराणि, तन्तुयुक्तानि सोपानानि च स्थापनीयानि। अग्निशामकविभागं उच्चप्रौद्योगिकीयुक्तं कर्तुं आवश्यकता अपि उक्तवान्। उद्योगमन्त्री अधिकारिभ्यः निर्देशं दत्तवान् यत् सर्वेषु उद्योगेषु प्रतिमासं एकवारं प्रतिरूप अभ्यासस्य आयोजनं करणीयम्। रोजगारमन्त्री श्रम- रोजगारविभागाय निर्देशं दत्तवान् यत् प्रत्येकस्मिन् उद्योगे श्रमिकाणां सूचीं सज्जा भवतु। संवेदनशीलवर्गस्य यूनिट-प्रयोगशाला-अनुबन्धकानां विवरणमपि अपि अनुज्ञापत्रं निर्गत्य उद्योगविभागस्य एकल- विण्डो- पोर्टलमध्ये अपि अद्यतनं कर्तुं शक्यते इति सभायां सहमतिः अभवत्।
घटनायाः कारणेन मुख्यमन्त्री आहतः
उद्योगमन्त्री उक्तवान् यत् मुख्यमन्त्री सुक्खुः अस्याः दुःखदघटनायाः आहतः अस्ति। अस्मिन् विषये समुचितकार्याणि कर्तुं तेन पूर्वमेव निर्देशाः निर्गताः सन्ति।