By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: संस्कृतस्योन्नयनाय कार्यं कुर्वन्नस्ति संस्कृतसंवर्धनप्रतिष्ठानम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > संस्कृतस्योन्नयनाय कार्यं कुर्वन्नस्ति संस्कृतसंवर्धनप्रतिष्ठानम्
संस्कृतगतिविधयः

संस्कृतस्योन्नयनाय कार्यं कुर्वन्नस्ति संस्कृतसंवर्धनप्रतिष्ठानम्

डॉ.अमनदीप शर्मा
Last updated: 2024/02/07 at 7:40 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
3 Min Read
SHARE

संस्कृतसंवर्धनप्रतिष्ठानम्
संस्कृतसंवर्धनप्रतिष्ठानम् इतीयं संस्था एका सर्वकारेतरसंस्था अस्ति। एषा संस्था देहल्यां न्यासरूपेण पञ्जीकृता वर्तते। अस्याः संस्थायाः स्थापनं 2009 तमे वर्षे अभवत्। संस्कृतभाषायाः प्रचारः प्रसारः तथा संस्कृतभाषां दैनन्दिनजीवने आनयनमेव अस्याः संस्थायाः लक्ष्यम्। संस्कृतसंवर्धनप्रतिष्ठानं विश्वविद्यालयैः अनुसन्धानसंस्थाभिः केन्द्र-राज्यसर्वकारीयसंस्थाभिः तथा अन्यसंस्थाभिः संस्कृतकार्यं कुर्वद्भिः जनैश्च सह सम्मिल्य कार्यं करोति। विश्वे वर्तमानानां सर्वेषां संस्कृतानुरागिणां मिथः संस्कृतबान्धवस्य समुत्पादनमेव संस्कृतसंवर्धनप्रतिष्ठानस्य लक्ष्यम्। संस्कृतसंवर्धनप्रतिष्ठानस्य अन्तर्जालपुटं वर्तते https://www.samskritpromotion.in/
लक्ष्यम्
संस्कृतसंवर्धनप्रतिष्ठानस्य लक्ष्यम् प्राचीनभारतीयज्ञानस्य सम्पादनम् आधुनिकवैज्ञानिकमार्गैः साधनार्थं प्रचलितानां प्रयासानां वेगवर्धनम्। भारते संस्कृतस्य पुनः प्रसाराय तद्वारा भारतीयसंस्कृतेः पुनरुज्जीवनं च। संस्कृतभाषाद्वारा समाजे वर्तमानानां भाषा-जाति-धर्म-प्रदेश-लिङ्गपरकाणां भेदानां निर्मार्जनम्। समाजे अधःस्थितानां जनानाम् अग्रेसारणाय उपकरणरूपेण संस्कृतभाषायाः प्रयोगः।

प्रशासनम् आर्थिकव्यवस्थापनं च
समाजाय कृतबहुविधयोगदानानां महतां विख्यातानां च न्यासीसदस्यानां मार्गदर्शनेन संस्कृतसंवर्धनप्रतिष्ठानस्य प्रशासनं प्रचलति। प्रायः सर्वे न्यासीसदस्याः संस्कृतविद्वांसः तथा समादरणीयाश्च वर्तन्ते। संस्कृतसंवर्धनप्रतिष्ठानं सञ्चाल्यमानप्रकल्पानुगुणं विविधाभिः संस्थाभिः तथा संस्कृतानुरागिजनैः संस्कृतस्य तथा संस्कृतेः पुनरुज्जीवनम् उपलक्ष्य आर्थिकसाहाय्यं स्वीकरोति। भारतसर्वकारस्य आयविभागद्वारा 80G अपि संस्थया प्राप्तमस्ति।


कार्याणि

छात्राणां तथा सार्वजनिकानां कृते
संस्कृते विद्यमान-ज्ञानसागरं छात्राः अवश्यं प्राप्येरन्। तदर्थं संस्कृतसंवर्धनप्रतिष्ठानं बहुविधशिक्षणप्रक्रमान् प्रचालयति। तदर्थं पठन-पाठनोपकरणानि संस्कृतभाषया निर्मीयन्ते येन छात्राः संस्कृतमाध्यमेन अध्ययनं कुर्युः। तथैव अन्याभिः शिक्षणसंस्थाभिः सम्मिल्य संस्कृतसंवर्धनप्रतिष्ठानं शिक्षणक्षेत्रे संस्कृतप्रचारार्थं प्रयासं करोति। भारतस्य संस्कृतिः एव संस्कृता अस्ति तथा ताम् अवाप्तुम् उपकरणमस्ति संस्कृतम्। संस्कृतसंवर्धनप्रतिष्ठानस्य बहुमुख्यम् एकं लक्ष्यमस्ति सर्वाः भाषाः विशिष्य संस्कृतभाषा तन्माध्यमेनैव शिक्षणीया इति। तन्निधाय विविधविषयाणां पाठ्यचर्या निर्मिता तथा पाठाः अन्तर्जालपुटे आरोपिताश्च। ते च पाठाः पञ्जीकृतवद्भिः साक्षात् प्राप्तुं शक्यन्ते। तदर्थं https://www.samskrittutorial.in/ दृश्यताम्। NCERT पाठ्यक्रमाणां संस्कृतेन शिक्षणमपि अत्र उपलभ्यते। इदं निश्शुल्कमपि वर्तते। संस्कृतशिक्षकेभ्यः छात्राणां तथा शिक्षकाणां च प्रयोजनाय बहूनि भाषोपकरणानि निर्मितानि सन्ति। श्रवणं भाषणं पठनं लेखनम् इत्येतेषां चतुर्णां कौशलानां परपुष्ट्यर्थं संस्कृतसंवर्धनप्रतिष्ठानं प्रशिक्षणं यच्छति। संस्कृतशिक्षकाणां कौशलविकासार्थं तथा तेषां साहाय्यार्थं च https://www.adhyapanam.in/ इतीदं जालपुटं निर्मितं वर्तते। अत्र प्रतिदिनं नूतनविषयाणाम् आरोपणं च प्रचलति।

प्राध्यापकेभ्यः तथा अनुसन्धातृभ्यश्च कार्याणि
Samskrit for Specific Purpose इत्येकः विशिष्टः उपक्रमः संस्कृतसंवर्धनप्रतिष्ठानेन प्रचाल्यते। अस्मिन् उपक्रमे पठिता स्वयमेव स्वेच्छानुगुणं विषयस्य चयनं कर्तुं शक्नोति। भारते अयं उपक्रमः अन्तर्जालद्वारा भवति। तस्य परिसन्धिः वर्तते https://www.learnsmskrit.online/.
विदेशात् ये अध्येतुमिच्छन्ति ते https://www.learnsmskrit.world/ इतीदं पुटं पश्येयुः। कला गीता योगः काव्यं वेदान्तः आयुर्वेदः ज्योतिषं बौद्धदर्शनं न्यायः गणितम् इत्यादिषु विभागेषु त्रिंशदधिकाः पाठ्यक्रमाः उपलभ्यन्ते। संस्कृतभाषायां विद्यमानानि बौद्धिकतत्त्वानि मूल्यानि च रक्षणीयानि वर्तन्ते। कालक्रमेण तादृशानि बहूनि नष्टानि परन्तु कानिचन कालातिवर्तिनि च वर्तन्ते। एतेषां विषये अनुसन्धानम् अत्यावश्यकमेव। तथा च भारतीयविज्ञानसङ्ग्रहः आधुनिकविज्ञासाहाय्येन अनुसन्धातव्यः। नूतनतकनिकी एव प्रचारस्य मूलम्। तादृशस्य भारतीयविज्ञानसङ्ग्रहस्य अनुसन्धानं संस्कृतसंवर्धनप्रतिष्ठानं प्रोत्साहयति। तेषां विवरणं https://www.samskritpromotion.in/samvardhini/index इत्यत्र उपलभ्यते। अनुसन्धातॄणां प्रयोजनार्थम् ई-भारतीसम्पत् (www.ebharatisampat.in) इत्यकः ई-ग्रन्थालयः अपि संस्कृतसंवर्धनप्रतिष्ठानेन संस्कृतभारत्याः सहकारेण प्रचाल्यते। बहवः दुर्लभाः ग्रन्थाः अस्मिन् सङ्ग्रहे विद्यन्ते। तथा च सर्वे ग्रन्थाः अन्वेषणयोग्याः सन्ति इत्येकं वैशिष्ट्यमपि अस्य ई-ग्रन्थालयस्य वर्तते। अत्र ग्रन्थानां पठनार्थं तथा तेषां सम्पादनार्थं च व्यवस्था कल्पिता अस्ति।

You Might Also Like

*श्रीसीतारामवैदिक-आदर्शसंस्कृतमहाविद्यालये पाक्षिकी वाक्यार्थसभा सम्पन्ना*

अन्तर्राष्ट्रियस्तरे प्राप्तं प्रतिष्ठितं सम्मानम्:, अन्तर्राष्ट्रियसंस्कृतरत्नसम्मानेन सम्मानितः डॉ. चिराग हेमन्तकुमार पुरोहितः

संस्कृताध्ययनकेन्द्रस्य सत्रारम्भकार्यक्रमः एवं दशदिवसीयसंस्कृतसम्भाषणशिविरस्य समपानकार्यक्रमः

भारतीयसंस्कृतौ आभूषणानां प्रासङ्गिकता तथा वैज्ञानिकता विषये विशिष्टं व्याख्यानम्

खण्डस्तरीयसंस्कृतप्रतियोगितायां भुवनेश्वरीविद्यालयस्य वर्चस्वम्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article जयरामठाकुरः- दिव्याङ्गयुवकस्य आरोपाः गम्भीराः
Next Article राज्ञः चार्ल्स तृतीयस्य शीर्घमेव स्वास्थ्य लाभाय मंगलकामाः प्राकटयत् प्रधानमन्त्री श्रीनरेन्द्रमोदी
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?