By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: हिमाच्छादितं हिमाचलम्- पर्वतेषु हिमपातः, समतलेषु वृष्टि:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > हिमाच्छादितं हिमाचलम्- पर्वतेषु हिमपातः, समतलेषु वृष्टि:
हिमाचलवार्ताप्रादेशिकवार्ता

हिमाच्छादितं हिमाचलम्- पर्वतेषु हिमपातः, समतलेषु वृष्टि:

डॉ मनोज शैल
Last updated: 2024/02/01 at 12:25 PM
डॉ मनोज शैल
Share
3 Min Read
SHARE

हिमाच्छादितं हिमाचलम्- पर्वतेषु हिमपातः, समतलेषु वृष्टि: मण्डी- कुल्लू- चम्बा- किन्नौर- लाहौल- स्पीतिषु हिमाच्छादिता: पर्वता:

हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।

ऋतुविभागस्य पूर्वानुमानानुसारं राज्ये परिवर्तनं दृष्टम् अस्ति। विभागेन पञ्चसु जनपदेषु पीतसचेतना प्रसारिता आसीत्। मङ्गलवासरस्य सायंकालात् अधिकोच्चस्थानेषु हिमपातः आरब्धः अस्ति। लाहौल-स्पीति, कुल्लू, मण्डी, चम्बा, किन्नौर इत्यत्र हिमपातः अभवत्। मंगलवासरस्य सायं यावत् केषुचित् स्थानेषु द्विसेन्टीमीटरयावत् हिमपातः अभवत्। हिमपातः निरन्तरं भवति। मंगलवासरे समतलक्षेत्रेषु दिवसस्य तापमाने किञ्चित् परिवर्तनं दृष्टम्। बुधवासरे च बहुत्र वृष्टि: हिमपातश्च जायमानमासीत्। प्रदेशे वृष्टे: नवीनहिमपातस्य अनन्तरं च शीततरङ्ग: वर्तते। अत्र ऋतुपरिवर्तनात् नीहारस्य प्रभावः समाप्तः अस्ति। मंगलवासरे रात्रौ चम्बा, कुल्लू, मण्डी, लाहौल-स्पीति, किन्नौर इत्यादिषु  लघुहिमपातः अभवत्। विभागेन १ फरवरी पर्यन्तम् चम्बा, कुल्लू, मण्डी, लाहौल-स्पीति, किन्नौर इत्यादिषु हिमपातस्य सचेतना दत्ता। अस्मिन् काले लाहौल-स्पीतौ एकस्मिन् वा द्वयोः वा स्थानयोः महत् हिमपातः भवितुम् अर्हति।

कुल्लु-लाहौलस्य -शिखराणि धवलानि

कुल्लू- लाहौल-स्पीति-जनपदयो: पर्वतयोः हिमपातः अभवत्। यदा कृषकाः उद्यानपालका: च हिमपातेन वर्षाभावेन च दीर्घकालं यावत् समस्यानां सम्मुखीकरणं कुर्वन्ति स्म, तदा पर्यटनक्षेत्रे अपि तस्य प्रभावः दृश्यते स्म। अटलकन्दरा, रोहताङ्गं, सिस्सु, कोकसरं, सोलङ्गनाला, पलचानं इत्यादिषु क्षेत्रेषु अपि हिमपातः अभवत्।

अटलकन्दराया: उत्तरद्वारे हिमपातः।

लाहौल उपत्यकायां शीततरङ्गकारणात् स्वगृहेषु निगूढाः जनाः।

मंगलवासरे अपराह्णे सहसा ऋतुपरिवर्तनं जाते एव अटलकन्दरारोहताङ्गस्य परितः हिमपातः आरब्धः। वातावरणस्य प्रतिकूलताकारणात् मनालीतः अटलकन्दराद्वारा लाहौलं प्रति आगच्छन्तः पर्यटकाः यात्रायां सावधानाः भवेयुः इति पुलिसैः आह्वानं कृतम् अस्ति। एस. पी. लाहौल-स्पीति मयंक चौधरी अवदत् यत् मंगलवासरे ऋतुपरिवर्तनं जातं, अटलकन्दराया: उत्तरद्वारे कोकसरसहितं कुल्लू उपत्यकायाः सर्वेषु उच्चशिखरेषु सायं ४.३० वादनानन्तरं हिमपातः आरब्धः। अस्य वातावरणस्य स्वरूपस्य कारणात् अनावृष्ट्या पीडिताः कृषकाः उद्यानपालका: च भूमिम् आर्द्रतां प्राप्तुं आशां कुर्वन्ति।

चम्बाजनपदस्य किलाड़े अर्धपादपर्यन्तं हिमपातः। विश्वस्य शेषभागात् बाधित: पाङ्गी उपत्यकाया: सम्पर्क:।

हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।

मंगलवासरे रात्रौ यावत् चम्बाजनपदस्य पाङ्गी- जनजातीयक्षेत्रे निरन्तरं हिमपातस्य अनन्तरं उपत्यकामुख्यालये किलाड़े प्रायः ६ इञ्चपर्यन्तं नवीनहिमपातः अभवत् अस्य कारणात् अस्मिन् क्षेत्रे तीव्रशीततरङ्गः प्रचलति। अपरपक्षे प्रशासनेन सचेतना प्रसार्य जनानां कृते आह्वानं कृतं यत् ते भूस्खलनप्रभावितक्षेत्रं प्रति न गच्छन्तु। एतेन सह परामर्शपत्रं निर्गतम् अस्ति। तहसीलदार पाङ्गी शान्ताकुमारः अवदत् यत् उपत्यकायां मंगलवासरे ऋतो: प्रथमः हिमपातः अभवत्। पाङ्गी-क्षेत्रस्य परिवर्तनशील- वायु-स्थित्या कृषकाणां मुखयोः आनन्दः प्राप्तः अस्ति ।

तस्मिन् एव काले हुडान भटोरी, चस्क भटोरी, परमार भटौरी इत्यत्र च उपरितनशिखरेषु प्रायः ९ इञ्च यावत् हिमपातः अभवत्। पाङ्गीक्षेत्रस्य अधिकांशमार्गाः हिमपातकारणात् निरुद्धाः सन्ति। प्रातःकाले किलाड़- मुख्यालयम् आगतानां जनानां पदातिभिः गन्तव्यम् आसीत्। हिमपातकारणात् उपत्यकायाः एकदर्जन- पंचायतेषु अन्धकारः आसीत्। विभिन्नस्थानेषु विद्युत्रेखायाः क्षतिकारणात् विद्युत्व्यवस्था भग्ना अस्ति। तस्मिन् एव काले उदयपुरस्य कुल्लुमार्गेण पाङ्गीतः बहिः गच्छन्तीनां मार्गानाम् अवरुद्धतायाः कारणेन उपत्यका समग्रविश्वात् विच्छिन्ना अस्ति। सम्प्रति उपत्यकायाः ३२ संपर्कमार्गाः अवरुद्धाः सन्ति। अपरपक्षे पाङ्गीप्रशासनेन बीआरओ, पीडब्ल्यूडी, विद्युत् बोर्ड इत्येतेषाम् अधिकारिभ्यः दृढ़ आदेशाः दत्ताः सन्ति।

You Might Also Like

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

अनूपसिंहजसयालः पुस्तकालयविज्ञानविषये विद्यावारिधेः (पीएच.डी) उपाध्याः अलङ्कृतः

TAGGED: cmo himachal, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himachal Pradesh, Himsanskritnews, hpgovt, Meteorological Centre, Meterological Department, मौसम विज्ञान केन्द्र, मौसम विभाग, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल प्रदेश
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy1
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article नाबार्ड ऋणगोष्ठी- प्राथमिकताक्षेत्राणां विकासः ३४,४९० कोटिरूप्यकेण भविष्यति, ऋणसंभाव्ययोजना सज्जा
Next Article डिजिटल मीडिया – हिमाचलसर्वकारेण कार्यान्विता डिजिटलमीडियानीतिः २०२४
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?