मुख्यमन्त्री महोदय! सङ्घटनस्य उपेक्षा न भवेत्- हिमाचलप्रदेशकांग्रेसस्य अध्यक्षा प्रतिभासिंह
हिमसंस्कृतवार्ता:- शिमला।
हिमाचलप्रदेशकाङ्ग्रेसस्य अध्यक्षा प्रतिभासिंह मुख्यमन्त्रिण: आह्वानम् कृतवती यत् सङ्घटनस्य उपेक्षा न कर्त्तव्या। मंगलवासरे राज्यस्य काङ्ग्रेसमुख्यालयस्य शिमलानगरस्य राजीवभवने पत्रकारैः सह वार्तालापं कुर्वन्ती प्रतिभासिंह अवदत् यत् यदि दलस्य कार्यकर्ता गृहे उपविशति तर्हि लोकसभानिर्वाचने विजयः कठिनः भविष्यति। प्रतिभासिंह पुनः अवदत् यत् पूर्वं अपि बहुवारं सा मुख्यमन्त्रिणा सह सङ्घटनस्य कर्मठकार्यकर्तृभ्यः अधिकारिभ्यः च सर्वकारे नियुक्तिप्रदानस्य विषयं उत्थापितवती। मुख्यमन्त्रिणः समक्षं सूची अपि प्रदत्ता, परन्तु अद्यावधि अस्मिन् विषये किमपि पदं न गृहीतम्। प्रतिभासिंह अवदत् यत् हिमाचलतः राज्यसभागमनस्य अन्तिमनिर्णयः शीर्षनेतृत्वेन भविष्यति।