By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: पद्मश्री- ७० वर्षेभ्यः संगीताभ्यासस्य अनन्तरं सोमदत्तबट्टुः पद्मश्री – पुरस्कारमावाप्तवान्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > पद्मश्री- ७० वर्षेभ्यः संगीताभ्यासस्य अनन्तरं सोमदत्तबट्टुः पद्मश्री – पुरस्कारमावाप्तवान्
राष्ट्रीयवार्ताःहिमाचलवार्ता

पद्मश्री- ७० वर्षेभ्यः संगीताभ्यासस्य अनन्तरं सोमदत्तबट्टुः पद्मश्री – पुरस्कारमावाप्तवान्

डॉ मनोज शैल
Last updated: 2024/01/29 at 12:00 PM
डॉ मनोज शैल
Share
3 Min Read
SHARE

पद्मश्री- ७० वर्षेभ्यः संगीताभ्यासस्य अनन्तरं सोमदत्तबट्टुः पद्मश्री – पुरस्कारमावाप्तवान्।

हिमाचलस्य गौरवं वर्धितम्।

हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।

पद्मश्री पण्डित सोमदत्तबट्टुः राजधानीशिमलायां शास्त्रीयसङ्गीतस्य लोकगीतस्य च क्षेत्रे गुरुशिष्यपरम्परायाः अनेकदशकेभ्यः वाहकः अस्ति। असौ राष्ट्रियस्तरस्य सम्मानं प्राप्य न केवलं शिमलानगरस्य अपितु सम्पूर्णस्य हिमाचलस्य प्रतिष्ठां वर्धितवान्। मूलतः काङ्गजनपदस्य जसूरनगरस्य निवासी पण्डितः बट्टूः शिमलानगरे एव जीवनं यापयति। ७० वर्षाणां संगीताभ्यासस्य अनन्तरं सः पद्मश्रीरूपेण एतत् सर्वोच्चसम्मानं प्राप्तवान्। तेन सह वार्तालापं कृत्वा पण्डितः बट्टुः सर्वं मुक्ततया प्रकटितवान् यत् केवलं षड्वर्षे एव सः स्वपितुः पण्डितरामलालबट्टू इत्यस्मात् सङ्गीतं शिक्षितुं आरब्धवान्, अद्यत्वे अपि ८७ वर्षे सः शास्त्रीयसङ्गीतस्य लोकगीतानां च प्रचारार्थं कार्यं कुर्वन् अस्ति। ग्वालियर घराना इत्यस्य पंडित: कुंजलालशर्मा, पंजाब घराना इत्यस्य प्रो. कर्मसिंह: चक्रवर्ती पटियाला घराना इत्यस्य  कुंदनलाल शर्मा च इत्येतेभ्य: दीक्षां  प्राप्तवान्। सः एतां परम्परां स्वजीवने अपि अग्रे कृतवान्। अद्यत्वे तस्य बहवः शिष्याः शास्त्रीयसङ्गीतस्य लोकगीतस्य च क्षेत्रे नाम अर्जितवन्तः। तेषु विशेषं पहाड़ीगायनशैली-विख्यात:  कृष्णलालसहगलः, सम्प्रति एचपीयू-सङ्गीतविभागस्य प्रमुखः प्रो. जीतराम इत्यादीनि अनेकानि नामानि सन्ति। पण्डितः बट्टुः शिमलानगरस्य संजौली, कोटशेरा, फागली महाविद्यालयेषु वर्षाणि यावत् संगीतशिक्षकरूपेण कार्यं कृतवान्। तस्य गृहे सर्वदा सङ्गीतस्य वातावरणं भवति। प्रथमं नाभायां ततः ब्योलियायाः होरी इत्यत्र यदा यदा गृहे तिष्ठति तदा तदा तस्य शिष्याः उपस्थिताः भवन्ति। अद्यपर्यन्तम् अस्मिन् ७० वर्षेषु सङ्गीतसेवायां सः कस्मात् अपि शुल्करूपेण एकं नाणकमपि न गृहीतवान्। पण्डितः बट्टुः अवदत् यत् सः सङ्गीतविषये पुस्तकानि अपि लिखितवान्, रेडियो- माध्यमेषु, अनेकेषु राष्ट्रिय-अन्ताराष्ट्रीयमञ्चेषु च गायन- कार्यक्रमान् प्रस्तुतवान्। अधुना एव पञ्जाबी विश्वविद्यालयस्य पटियाला शास्त्रीयसङ्गीतविषये तस्य पुस्तकं प्रकाशितम् अस्ति। अस्मिन् वयसि स्तरे अपि सः सङ्गीतस्य सेवां कुर्वन् अस्ति। यत्र यत्र वयं सम्मानेन आमन्त्रिताः स्मः, तत्र गच्छामः। अभ्यास: निरन्तरं प्रचलति।

लोकसङ्गीते प्रयोगाः क्रियन्ते परम्परया सह क्रियमाणेन मध्यमार्गेण दु:खित: अस्ति सोमदत्तबट्टू:

लोकगीतेषु परम्परया सह क्रियमाणेन मध्यमार्गेण, धुनानां परिवर्तनं, गीतलेखनं, तस्मिन् यत् व्यावसायिकीकरणं वर्तते तस्य विषये पद्मश्री पण्डितः सोमदत्तबट्टू: चिन्ता प्रकटितवान्। पारम्परिकलोकगीतानि अपि तादात्म्यं ददति इति सः अवदत्। यदि भवतः स्वसंस्कृतेः प्रति सत्यभक्तिः, अनुरागः, प्रेम च अस्ति तर्हि पारम्परिकशैल्या लिखितानि, गायितानि च सुमधुरगीतानि अपि भवन्तं सफलतायाः पराकाष्ठां प्रति नेतुं शक्नुवन्ति। सः नूतनेभ्य: लोकगायकेभ्य: एकं सन्देशं दत्तवान् यत् ते सच्चिदानन्देन सङ्गीतस्य अभ्यासं कुर्वन्तु, तस्य पारम्परिकगुणान् निर्वाहयन्तु, सफलता स्वयमेव आगमिष्यति।

सङ्गीतं मम जीवनम् अस्ति

सः वदति– सङ्गीतं मम जीवनम्, अहं सङ्गीतस्य कृते जीवामि, मम यात्रा सङ्गीतस्य सेवां कृत्वा समाप्ता भवति, एषा मम इच्छा।

मुख्यमन्त्री पद्मश्री पुरस्काराय सोमदत्तबट्टूम्  अभिनन्दितवान्

मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः सोमदत्तबट्टुः कलाप्रवर्धनक्षेत्रे विशिष्टसेवानां कृते राष्ट्रपतिद्रौपदी मुर्मूद्वारा पद्मश्रीपुरस्काराय चयनित: एतदर्थं स तस्य अभिनन्दनं कृतवान्। शिमला इत्यस्य प्रसिद्ध: गायक: सोमदत्तबट्टू: इत्यस्मै शास्त्रीयसङ्गीतस्य प्रचारार्थं असाधारणं योगदानं कृत्वा पद्मश्रीपुरस्कारः प्रदत्तः भविष्यति।

You Might Also Like

स्वामीविवेकानन्दः : व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

TAGGED: padmashree, Somdutt Battu, केन्द्र सरकार भारत, पण्डित सोमदत्तबट्टू, पद्मश्री, भारत सरकार, राष्ट्रपति द्रोपदी मुर्मू, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल प्रदेश
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article वानिकी-विश्वविद्यालयः – राज्ये आस्ट्रेलियादेशस्य जुजुबे-बदरीफलम् निर्मितं भविष्यति
Next Article विधायक- प्राथमिकतागोष्ठी – २०२४-२५ वर्षस्य कृते ९९९० कोटिरूप्यकाणां वार्षिकयोजना प्रस्ताविता
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?