मुख्यमन्त्रिण: आधिकारिकनिवासः ओक- ओवरः रङ्गिणीप्रकाशैः अलङ्कृतः
प्रतिष्ठासमारोहे मुख्यमन्त्रिणा जाखुमंदिरे कृता अर्चना हनुमान-चालीसाया: पाठ: च
हिमसंस्कृतवार्ता:- शिमला।
अयोध्यायां श्रीरामललाया: प्राणप्रतिष्ठासमारोहस्य उपलक्ष्ये अपि राज्ये उत्साहः वर्तते। हिमाचले धार्मिककार्यक्रमाः अपि आयोज्यन्ते। मुख्यमन्त्रिणः आधिकारिकनिवासस्थानम् ओक-ओवरं रङ्गिणीप्रकाशैः अलङ्कृतम् अस्ति। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः रविवासरे चण्डीगढं प्रति प्रस्थितवान् आसीत्। अनन्तरम् सः २२ जनवरी दिनाङ्के अपराह्णे शिमलानगरं प्रत्यागतवान्। मुख्यमंत्री स्वीये आवासे ओक-ओवर इत्यत्र दीपान् प्रज्वालयिष्यति। मुख्यमन्त्री जनान् स्वगृहेषु दीपं प्रज्ज्वालयितुम् अपि आह्वानं कृतवान्।
जाखुमंदिरे भगवत: श्रीरामचन्द्रस्य १११ पादमिता प्रतिमा स्थापिता भविष्यति
अयोध्यानगर्य्यां श्रीरामलल्लाया: प्राण-प्रतिष्ठासमारोहस्य अवसरे मुख्यमंत्री सुखविन्दरसिंहसुक्खुः शिमलाया: ऐतिहासिके जाखुमंदिरे दर्शनं कृतवान् तथा च पूजनं कृत्वा हनुमान-चालीसाया: पाठमपि कृतवान्। असौ उक्तवान् यत् हनुमता विना रामायणं अपूर्णं वर्तते। रामात् बृहत् किमपि सत्यं नास्ति न च हुनमत: बृहत् कश्चिद् भक्त: अस्ति। मुख्यमंत्री सुखविन्दरसिंहसुक्खुः अवदत् यत् जाखुमंदिरे भगवत: श्रीरामचन्द्रस्य १११ पादमिता मूर्ति: स्थापिता भविष्यति येन भक्ता: हनुमता साकं श्रीरामचन्द्रस्य दर्शनमपि कर्तुं शक्नुवन्ति।