रामललाप्रतिष्ठासमारोह:- देवभूमौ हिमाचले चतुर्सहस्राधिकेषु मन्दिरेषु रामललाप्रतिष्ठासमारोहस्य सजीवप्रसारणम्
हिमसंस्कृतवार्ताः- कार्यालयीय: प्रतिनिधि:।
अयोध्यायां रामललाप्राणप्रतिष्ठासमारोहस्य उपलक्ष्ये सोमवासरे देवभूमिहिमाचलप्रदेशे दीपावलीसदृशं वातावरणं जातम्। देवभूमौ हिमाचले चतुर्सहस्राधिकेषु मन्दिरेषु रामललाप्रतिष्ठासमारोहस्य सजीवप्रसारणं एलईडी- स्क्रीन इति स्थापयित्वा प्रदर्शितम्। प्रत्येकं जनपदस्य मुख्यालये ५१०० तः ११,००० यावत् दीपाः प्रज्ज्वलिता:। राज्यस्य प्रत्येकः व्यक्तिः श्रीरामस्य भक्तिभावे मग्न: अभवत्। अयोध्यायां रामललाप्राणप्रतिष्ठासमारोहस्य उपलक्ष्ये हिमाचलत: ५२ महात्मनाम् अतिरिक्तं भगवत: रघुनाथस्य मुख्ययष्टिधारक: महेश्वरसिंहः, लोकनिर्माणमंत्री विक्रमादित्यसिंहः, काङ्ग्रेसविधायकः सुधीरशर्मा, बॉलीवुड- अभिनेत्री कङ्गना रनौत इत्यादयः अनेके जनाः उपस्थिताः आसन्।
शिमलानगरस्य रिजभूमौ, मॉलमार्गे, धर्मशालायां च बृहत्-कार्यक्रमानाम् आयोजनं कृतम्। मन्दिरेषु, धार्मिककार्यक्रमाः, विभिन्नेषु स्थानेषु शोभायात्राः च निर्गता:। राज्यस्य शक्तिपीठेषु, बज्रेश्वरीमंदिरं, चामुंडा, ज्वालाजी, नयनादेवी, चिंतपूर्णी इत्यत्र च विशेषायोजनम् अभवत्।
राजधानी शिमला- शिमलाजनपदस्य शताधिकेषु मन्दिरेषु राजधान्या: ६० मन्दिरेषु च प्राणप्रतिष्ठा समारोहः भक्तानां कृते सजीवप्रसारणेन प्रदर्शितः। मन्दिरेषु अखण्डरामायणपाठा:, हवनम्, सुन्दरकाण्डपाठा:, हनुमानचालीसापाठा: अभवन्। सायङ्काले मन्दिरेषु दीपमहोत्सवः आचरित:। सायं ७:०० वादने रिजप्राङ्गणे आतिशबाजी अभवत्। राजधान्या: बृहत्तमः कार्यक्रमः रामबाजारे स्थिते राममन्दिरे अभवत्। सोमवासरे प्रातः १०:०० वादने अखण्डरामायणपाठस्य पूर्णता अभवत्। अपराह्न सार्धद्वादशवादने मन्दिरे एलईडी-जवनिकायां अयोध्यायाः सजीवप्रसारणम् अभवत्। सायं ५:०० वादने मन्दिरे ५१०० मृत्तिकादीपाः प्रज्वलिताः।
काङ्गड़ा- कांगड़ामण्डले शक्तिपीठज्वालामुख्यां दीपमाला: अलङ्कृता:। माताबज्रेश्वरीमन्दिरे, वीरभद्रमन्दिरे, तारामन्दिरे, ओल्डकाङ्गड़ायां च एलईडी स्क्रीन स्थापिताः आसीत्। रावणस्य नगर्य्यां बैजनाथे अनेके कार्यक्रमाः अभवन्। धर्मशालाया: कचहरीस्थानके, पिंगलेश्वरमहादेवे सकोहे, राधा-कृष्ण मन्दिरे नरवानायां, कैंटमार्गे धर्मशालायां, भागसुनागे, दाड़यां सजीवप्रसारणस्य प्रदर्शनार्थं एलईडी स्थापिता आसीत्। पालमपुरस्य राधाकृष्णमन्दिरे भजन-कीर्तनं जातम्।
सोलनम्- सोलनमण्डले २.५ लक्षाधिकाः दीपाः प्रज्वलिताः। पुरातनबसस्थानके बालनिकुञ्जे च १६,००० दीपाः प्रज्वलिताः भविष्यन्ति। बद्दीनगरस्य दशहरा- क्रीडाङ्गणे ५१०० दीपैः सह भव्य-आतिशबाजी अपि कृता।
लघ्वीकाशी मण्डी- प्राणप्रतिष्ठासमारोहः मण्डीजनपदस्य ५५० तः अधिकेषु मन्दिरेषु धार्मिकस्थानेषु च एलईडीद्वारा सजीवप्रसारणं जातम्। षट् क्विन्टलदेसीघृतेन निर्मित: संयाव: चौहटाबाजारे वितरितम्।
रघुनाथनगरी कुल्लू- कुल्लूजनपदे सजीवप्रसारणं कर्तु़ भिन्न-भिन्नेषु स्थलेषु चतर्शताधिका: एलईडी-जवनिका: स्थापिता: आसन्। अस्मिन् जनपदे १,७३,००० दीपाः प्रज्वलिताः। सोमवासरे प्रातः १०:०० वादनात् भगवत: रघुनाथस्य मन्दिरे सुन्दरकाण्डस्य पाठः अभवत्।
हमीरपुरम्- हमीरपुरमण्डले अपि ५०० तः अधिकेषु मन्दिरेषु कार्यक्रमाः अभवन्। प्राणप्रतिष्ठासमारोहस्य सजीवप्रसारणं गांधीचौकसहितं जनपदे प्रायः विंशत्याधिकेषु स्थानेषु अभवत्। अम्बिकामातामन्दिरे कुठेड़ायां ११,००० दीपाः प्रज्वालिता:। सुजानपुरस्य ऐतिहासिकस्य चौगानभूमौ सहस्रदीपमालाप्रज्ज्वलनस्य कार्यक्रम: अभवत्।
चम्बा- चम्बायां ५१०० घृतदीपाः प्रज्वलिताः। प्रातःकाले मन्दिरेषु प्रभातपरिक्रमा निर्गता:। मन्दिरेषु सुन्दरकाण्डपाठः आरब्धः आसीत्। विश्वहिन्दुपरिषदः प्रदेशाध्यक्ष: प्राणप्रतिष्ठाकार्यक्रमस्य हिमाचलसमन्वयकरूपेण च कार्यं कुर्वन् लेखराजराणा अवदत् यत् अयोध्यायां आयोज्ये कार्यक्रमाय हिमाचलतः ६९ जनाः आमन्त्रिताः, येषु ५२ सत्पुरुषा: अपि आमन्त्रिता: सन्ति।
१८१ वर्षाणाम् अनन्तरं श्रीरामस्य मूर्तिं हनुमानघाटमन्दिरात् दर्शनार्थं बहिः आनीता
१८१ वर्षाणामनन्तरं रामपुरस्य हनुमानघाटमन्दिरात् श्रीरामस्य विग्रह: सार्वजनिकदर्शनार्थं बहि: आनीतः। एतदतिरिक्तं व्यापारिणः २०० किलो मोदकवितरणं कृतवन्त:।
द्विदिनानि निःशुल्कबससुविधा
कांगड़ा-जनपदस्य राजा का तालाब इत्यत्र केचन निजीबससञ्चालकाः जनानां कृते द्विदिनस्य निःशुल्कयात्रायाः व्यवस्थां कृतवन्तः। शिमलायाम् अपि केचन संचालकाः जनानां कृते एतां सुविधां प्रदातुं चर्चां कृतवन्तः।