बांग्लादेशे पुनः शेखहसीना सर्वकारः, पञ्चबारं भविष्यति देशस्य प्रधानमन्त्री
हिमसंस्कृतवार्ताः। बांग्लादेशे प्राप्तवार्तानुसारं मतगणनायां शेखहसीनायाः दलः ३०० संसदीय-आसनेषु २२४ आसनेषु विजयं प्राप्तवान्। बंग्लादेशजातीयदलेन ४ आसानानि विजितानि, तत्रैव निर्दलीयेषु आसनेषु ६२ आसनानि विजितानि। वार्तालेखनपर्यन्तं द्व्यासनेषु गणना चलति स्म। शेखहसीना २००९ तमात् वर्षात् देशस्य प्रधानमन्त्रीं पदं धारयति। अस्मिन् कार्यकाले चयनिता भूत्वा सा क्रमशः पञ्चबारं देशस्य प्रधानमन्त्री भविष्यति। शेकहसीना स्वस्य संसदीय-आसनात् गोपालगंज-३ इत्यस्मात् २, ४९, ९६५ मतैः विजिता अस्ति।
बांग्लादेशे पुनः शेखहसीना सर्वकारः, पञ्चबारं भविष्यति देशस्य प्रधानमन्त्री
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
